६२ तडाकाद्युत्सर्गप्रयोगः

तडाकाद्युत्सर्गप्रयोगः ॥ उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे शुभवासरे वापीकूपतडागाद्युत्सर्गं कुर्यात् । पूर्वेद्युः खादिरं पालाशं वा त्र्यरत्निमात्रमष्टास्रञ्च चषालयुतं मूर्ध्नि वर्तुलं यूपं, सुवर्णनिर्मितान्त्सर्प-शिंशुमार-कूर्म-मकर-कर्कट-कमल-कुवलय-कुमुद-उत्पल-कहूलारान्तथा च राजतान्हंस-मत्स्य-मण्डूकान्सर्पिस्तिलयवचूर्णं पयः, अपूपान् धानाः सक्तून् करम्भान् गन्ध-पुष्प-धूप-दीप-वासांसि इध्माबर्हिश्चेति सम्भारान्सम्भृत्य, तटाकतीरे मध्यपूर्वे षोडशहस्तप्रमाणं मध्ये चतुर्हस्तप्रमाणं समचतुरस्रवेदियुतं - वेद्याः पश्चिमतो हस्तमात्रप्रमाणकुण्डयुतं तोरणध्वजपल्लवमाल्यादिभिरलङ्कृतं मण्डपं निर्माय, मार्जनोपलेपनं कुर्यात् ॥ कर्ता सपत्नीकः प्रातर्नित्यकर्म निर्वर्तनान्ते वस्त्राभरणगन्धमाल्यादिभिरलङ्कृतो ब्राह्मणैर्बान्धवैः सह पूर्णकुम्भं पुरस्कृत्य,

स्वस्ति नो मिमीतां॰

इत्यादिमन्त्रघोषमङ्गलवाद्यपुरस्सरं तडागदेशं गत्वा, मण्डपं प्रदक्षिणीकृत्य पश्चिमद्वारेण मण्डपं प्रविश्य निर्ऋतिकोणे उपविभ्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

अमुकप्रवरान्वितामुकगोत्रोत्पन्नामुकशर्मणो मम सर्वपापक्षयपूर्वकं अनेन तडागोत्सर्गेण दशपूर्वान्दशापरान्पुरुषानात्मानञ्च पवित्रीकर्तुं षष्ठिसहस्रवर्षब्रह्मलोकवासादिकल्पोक्तफलावाप्त्यर्थं, अस्य तडागस्य सर्वभोगार्हत्वसिध्यर्थं, श्रीपरमेश्वरप्रीत्यर्थतडागोत्सर्गं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य, मातृकापूजनं नान्दीश्राद्धञ्च विधाय

वरुणः प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्यादिऋत्विजो वृत्वा मधुपर्केणाऽर्हयेत् ॥ कर्मसमाप्तिपर्यन्तं यजमानस्योपवासः ॥ शिल्पिनं वस्त्रादिभिः सम्पूज्य । अथाचार्यः

यदत्र संस्थितं॰

इति सर्षपान्विीर्य, पञ्चगव्येन सर्वतो भूमिं प्रोक्ष्य

आपो हि ष्ठा॰

इति तिसृभिरद्भिः प्रोक्ष्य,

भद्रं कर्णेभिः॰ स्वस्ति न इन्द्रः॰

इति मन्त्राभ्यां प्रार्थ्य, चतुरस्रवेद्यां - ग्रहमण्डलं वास्तुमण्डलं सर्वतोभद्रमण्डलञ्च विलिख्य सप्तशुद्धिपूर्वकं राक्षोनहवनं ग्रहमखपूर्वकं वास्तुहवनञ्च कुर्यात् ॥ अथ सर्वतोभद्रमण्डले ब्रह्मादिदेवता आवाह्य सम्पूज्य, सुवर्णादिनिर्मितसर्पादीनामग्न्युत्तारणं कृत्वा ‘सर्पाय नमः’ इत्यादि तत्तन्नाममन्त्रैरावाह्य षोडशोपचारैः पूजयेत् । अथ मण्डपपूर्वभागे गोमयेनोपलिप्यारत्निमात्रमवटं खात्वाऽवटेऽक्षतान्दर्भांश्च निक्षिप्य, पूर्वोक्तखादिराद्यन्यतमवृक्षनिर्मितं यूपं प्रोक्ष्य, यजमानेनान्वारब्धोऽध्वर्युर्हरिद्रामिश्रितघृतेन सर्वतोऽभ्यक्तं कृत्वा,

आब्रह्म॑न्ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यताम्

इति मन्त्रेणावटे प्रतिष्ठापयति । ततो यूपे चषालं प्रतिमुच्य,

युवा सुवासा॰

इति वस्त्रयुग्मेनाच्छाद्य, गन्ध-पुष्पमालादिभिरलङ्कृत्य, यूपस्य परितः - मणि-मुक्ताफल-प्रवाळसुवर्णरजताऽक्षतैरवकिरेत् । ततः सायं नित्यकर्म कृत्वा प्रदोषकाले - देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, यजमानस्य सर्वपापक्षयपूर्वकं॰ श्रीपरमेश्वरप्रीत्यर्थं तडागोत्सर्गहोमं करिष्ये, बलवर्धनो नामाऽग्निः, वरुणो देवता, चरुर्हविः, उपहोमश्च -

कूप्याभ्यः स्वाहा

इत्येताभ्यामनुवाकाभ्यां,

इमम्मे वरुण॰, तत्वा यामि॰, यश्चिद्धि ते॰, यत्किञ्चेदं॰, कितवासो॰

‘हिरण्यवर्णाः’ इत्यनुवाकेन,

त्वन्नो अग्ने॰, स त्वन्नो अग्ने॰

इति द्वाभ्यां ‘ब्रह्मणे स्वाहा’ इत्यादि त्रयोदशनाममन्त्रैश्चाऽऽज्येन, ब्रह्मादिमण्डलदेवताश्चाज्येन, ‘अग्निः स्विष्टकृत्’, इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं वेद्यामष्टदलं विलिख्य ‘मही द्यौः॰’ इत्यादि विधिना कलशं प्रतिष्ठाप्य

अव ते हेडः॰ उदुत्तमं॰

इति द्वाभ्यां वरुणमावाह्य पूजयेत् । ततो यूपे -

ॐ भूर्भुवस्सुवः ब्रह्मणे नमः ब्रह्माणमावाहयामि एवमेव - विष्णवे॰ । श्रियै॰ । सूर्याय॰ । चन्द्रमसे॰ । इन्द्राय॰ । अग्नये॰ । यमाय॰ । निर्ऋतये॰ । वरुणाय॰ । वायवे॰ । सोमाय॰ । ईशानाय नमः ईशानमावाहयामि ॥

इति त्रयोदश देवता आवाह्य, सुवर्णरजताक्षतैरवकीर्य, यूपदेवता गन्ध-पुष्प-धूप-दीपैरभ्यर्च्य, यूपमुपतिष्ठते -

तद्विष्णोः परमं॰

इति । पूर्वस्थापितानि सर्पशिंशुमारादिरूपाणि यूपे बध्वा प्रार्थयेत् -

देहि मेऽनुग्रहं यूप प्रसादं कुरु च प्रभो ॥
मूलच्छेदेन यत्पापं भूमिघातेन पातकम् ॥
अदुष्टयूपघातोत्थं यूपः पापं व्यपोहतु ॥
यद्बाल्ये यच्च कौमारे यस्पापं वार्धके कृतम् ॥
तत्सर्वं मम देवेश यूपः पापं व्यपोहतु ॥
यन्निशायां तथा प्रातर्यन्मध्याह्नापराह्णयोः ॥
सन्ध्ययोश्च कृतं पापं कर्मणा मनसा गिरा ॥
तत्सर्वं मम देवेश यूपः पापं व्यपोहतु

इति ॥ अथ यूपे पुष्पमालां बध्वा नमस्कुर्यात् ॥ अथ चरुनिर्वापाद्यग्निमुखान्तं कृत्वा,

अव ते हेडो॰ उदुत्तमं॰

इति द्वाभ्यां पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय,

कूप्याभ्यः स्वाहा ॥ कूल्याभ्यः स्वाहा ॥ विकर्याभ्यः स्वाहा ॥ अवट्याभ्यः॰ ॥ खन्याभ्यः॰ ॥ हृद्याभ्यः॰ ॥ सूद्याभ्यः॰ ॥ सरस्याभ्यः॰ ॥ वैशन्तीभ्यः॰ ॥ पल्वल्याभ्यः॰ ॥ वर्ष्याभ्यः॰ ॥ अवर्ष्याभ्यः॰ ॥ ह्रादुनीभ्यः॰ ॥ पृष्वाभ्यः॰ ॥ स्यन्दमानाभ्यः॰ ॥ स्थावराभ्यः॰ ॥ नादेयीभ्यः॰ ॥ सैन्धवीभ्यः॰ ॥ समुद्रियाभ्यः॰ ॥ सर्वाभ्यः॰ ॥ अद्भ्यः॰ ॥ वहन्तीभ्यः॰ ॥ परिवहन्तीभ्यः॰ ॥ समन्तं वहन्तीभ्यः॰ ॥ शीघ्रं वहन्तीभ्यः॰ ॥ शीभं वहन्तीभ्यः॰ ॥ उग्रं वहन्तीभ्यः॰ ॥ भीमं वहन्तीभ्यः॰ ॥ अम्भोभ्यः॰ ॥ नभोभ्यः॰ ॥ महोभ्यः॰ स्वाहा ॥ सर्वस्मै स्वाहा ॥ (यथालिङ्ग त्यागः) [[TODO: परिष्कार्यम्]]

इत्याद्यन्वाधानोक्तक्रमेणाज्यहुतीरुपहुत्य स्विकृदादि प्रागुत्तरपरिषेकात् कृत्वाऽग्रेणाऽग्निं दर्भस्तम्भेषु - ओदन-तिल-यवचूर्ण-अपूपाधाना (भ्रष्टयव) सक्तु (भ्रष्टयवपिष्ट) करम्भान् (आज्यमिश्रयवपिष्टान्) पयसा आज्येन च मिश्रीकृत्य बलिमुपहरते - ‘ब्रह्मणे नमः’ इत्यादि पूर्वोक्तनाममन्त्रैः । ततः सयूपस्य तटाकस्य त्रिः प्रदक्षिणं बलीन् सम्प्रकीर्य, यमसूक्तं पुरुषसूक्तञ्च पठित्वोत्तरपरिषेकादि होमशेषं समापयेत् ॥ तत आचार्यादयः कलशोदकेन सकुटुम्बस्य सपरिवारस्य यजमानस्याऽभिषेकं कुर्युः ॥ ततो यजमानः स्नात्वाऽन्यत्प्रयतं वासः परिधायाचम्य, जलमध्ये पश्चिमतीरमारभ्येशानदिक्पर्यन्तं पुच्छाग्राऽन्वारब्धो गां नयेत् ॥

इमां धियँ शिक्षमाणस्य देवक्रतुं दक्ष वरुण सँशिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधिनावँ रुहेम [[TODO: परिष्कार्यम्]]

इति अवतीर्यमाणां तां गामनुमन्त्रयीत ।

इदं सलिलं पवित्रं कुरुष्व शुद्धाः पूता अमृताः सन्तु नित्यम् ।
मां तारयन्ती कुरु तीर्थाभिषेकं लोकाल्लोकं तरते तीर्यते च

इति ॥ (वापीकूपयोर्गोरुत्तारणं नास्ति) ततस्तां गामाचार्याय दद्यात् ॥ अथ यजमानः साक्षतकुशोदकमञ्जलावादाय

एतत्तटाकस्थितं जलं अमुकगोत्रोऽमुष्य प्रपौत्रः अमुष्य पौत्रः अमुष्य पुत्रोऽमुकशर्माऽहं श्रीपरमेश्वरप्रीतिकामो नानाभूतेभ्य उत्सृजामि, देवपितृमनुष्यभूतानि च प्रीयन्ताम्

इत्युत्सर्गं कृत्वा प्रार्थयेत् -

सर्वसत्वेभ्य उत्सृष्टं मयैतज्जलमूर्जितम् ।
सेवन्तां सर्वभूतानि दानपानावगाहनैः ॥
सामान्यं सर्वभूतेभ्यो मया दत्तमिदं जलम् ।
धर्मार्थकाममोक्षेषु साधनं स्यादहर्निशम्

इति ॥ अथाऽऽचार्यादीन् सम्पूज्य, आचार्याय कलशदानं गोदानं ब्राह्मणेभ्यो वासांसि च दत्वा, यूपे बद्धानि सर्पशिंशुमारादिरूपाणि विसृजेत् ॥ शतं ब्राह्मणान् भोजयित्वा यथाशक्ति भूयसीं दक्षिणां दत्वाऽऽशिषो गृह्णीयात् ॥ ॥ एवमेव सेतुबन्ध-नदीखात-पुष्करिणी-वापी-कूपानामुत्सर्गः॥