६१ धर्मोपभोगविधिः

॥ अथ धर्मोपभोगविधिः ॥ (प्रहुतानुकृतिः) ( बो. गृ. शे. सू. ४.४ )

सेतुबन्धनदीखाततटाकपुष्करिणीवापीकूपदेवगृहप्रासादवसतीनामोषधिवनस्पतीनां च पूर्तं भवति भूतिकामो निशि जुहोति ॥ उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे यज्ञद्रव्याण्यध्वर्युरुपकल्पयते - खादिरं पालाशं वा त्र्यरत्निमात्रं यूपं कृत्वा सौवर्णसर्पशिंशुमारकूर्ममकरकर्कटकमलकुवलयकुमुदोत्पलकल्हाराश्च राजतान् हंसमत्स्यमण्डूकांश्च देवगृहप्रासादवसतीनां तदाकृतिवदोषधिवनस्पतीनां तत्फलाकृतिवत्सुवर्णरत्नेषु सर्पिश्चरुतिलचूर्णपयोऽपूपधानान् सक्तून्न् करम्भान् गन्धपुष्पधूपदीपवासांसीध्माबर्हिषी च ॥ संप्रदोषे द्विजातीनां होमः ॥ शूद्राणां नमस्कारैरावृतैर्वा ॥ तटाकतीरे मध्यपूर्वे स्थण्डिलमुपलिप्य यूपावटं खात्वाऽध्वर्युश्च यूपं प्रतिष्ठापयति -

आब्रह्मन् ब्राह्मणः

इति ब्राह्मणस्य

अस्मिन्राष्ट्रे

इति राजन्यस्य

दोग्ध्री धेनुः

इति वैश्यस्य ॥ मणिमुक्ताप्रवाळसुवर्णरजताक्षतैरवकीर्य जघनेन यूपं स्थण्डिलं कृत्वा देवयजनोल्लेखनप्रभृत्याप्रणीताभ्यः कृत्वोपोत्थायाग्रेणाग्निं देवानावाहयति -

ब्रह्मणे, विष्णवे, श्रियै, सूर्याय, चन्द्राय, अग्नये, यमाय, निर्ऋतये, वरुणाय, वायवे, सोमाय, ईशानाय '

इत्यावाह्य सुवर्णरजताक्षतैरवकीर्य यूपदेवतानां गन्धपुष्पधूपदीपैरभ्यर्च्य यूपमुपतिष्ठते -

तद्विष्णोः परमं पदम्

इति ॥ तं वासोभिर्वेष्टयित्वा तस्मिन् रूपाणि बध्वा परिधानप्रभृत्याग्निमुखात्कृत्वा पक्वाज्जुहोति –

अव ते हेळः, उदुत्तमम्

इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति -

कूप्याभ्यः स्वाहा, अद्भ्यः स्वाहा

इत्येताभ्यामनुवाकाभ्याम्

इमं मे वरुण, तत्वा यामि, यच्चिद्धि, यत्किञ्चेदम्, कितवासो, हिरण्यवर्णाश्शुचयः, त्वं नो अग्ने, स त्वन्नो अग्ने

इति ॥ स्विष्टकृतोऽथ यूपाहुतीर्जुहोति -

ब्रह्मणे स्वाहा, विष्णवे, श्रियै, सूर्याय, चन्द्रमसे, अग्नये, यमाय, निर्ऋतये, वरुणाय, वायवे, सोमाय, ईशानाय स्वाहा

इति ॥ अथौषधिवनस्पतीनां पक्वाज्जुहोति -

या जाता, शतं वो अम्ब धामानि

इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति -

पुष्पावतीः प्रसूवतीः, ओषधीभ्यः स्वाहा, वनस्पतिभ्यः स्वाहा

इति त्रिभिरनुवाकैः प्रत्यृचम् ॥ स्विष्टकृतोऽथ देवगृहेभ्यः पक्वाज्जुहोति -

वास्तोष्पते, वास्तोष्पते

इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति -

वास्तोष्पते ध्रुवा स्थूणाम्

इति षड्भिः ॥ स्विष्टकृतोऽथ

नमस्ते रुद्र मन्यवे

इत्यान्तादनुवाकस्य प्रत्यृचम् ॥ अथ कूष्माण्डाणि हुत्वा पुरस्तात्स्विष्टकृतो

वैश्वानराय प्रतिवेदयामः

इति ॥ अथ चरुतिलचूर्णपयस्सर्पिर्मिश्रैरपूपैर्धानाभिस्सक्तून् करम्भान् दर्भेषु बलिमुपहरते-

ब्रह्मणे नमः

इति पूर्वोक्तद्वादशनामाभिः ॥ त्रिः प्रदक्षिणं यजमानो बलीन्सम्प्रकीर्य यमसूक्तं वाचयित्वा पुरुषसूक्तं चोर्मिमन्तमुदधिं कृत्वा स्नात्वाऽप आचम्य ब्राह्मणेभ्यो वासांसि दद्यादाचार्याय गोमिथुनं दद्यादृषभैकादश वा दद्यादाशिषो वाचयित्वा रूपाणि विसर्जयेत् ॥ एवं प्रयुञ्जानो दशपूर्वान् दशपरानात्मानं चैकविंशतिं पङ्क्तिञ्च पुनाति ॥ अथाप्युदाहरन्ति नृत्तगीतवाद्यघोषैः प्रत्यूषे बोधयन्ति । एतेषां नष्टानां पुनः करणमधिकंफलमिति षष्ठिवर्षसहस्राणि ब्रह्मलोके महीयत इत्याह भगवान् बोधायनः ॥ ॥

पद्मपुराणे - भीष्म उवाच ॥

तटाकारामकूपेषु वापीषु नलिनीषु च ।
विधिं वदस्व मे ब्रह्मन्देवतायतनेषु च ॥१॥
के तत्र ऋत्विजो विप्रा वेदी वा कीदृशी भवेत् ।
दक्षिणावलयः कालः स्थानमाचार्य एव च ॥२॥
द्रव्याणि कानि शस्त्राणि सर्वमाचक्ष्व सुव्रत ॥

पुलस्त्य उवाच ॥

शृणु राजन्महाबाहो तटाकादिषु यो विधिः ॥३॥
पुराणेष्वितिहासोऽयं पठ्यते राजसत्तम ।
प्राप्य पक्षं शुभं शुक्लं सम्प्राप्ते चोत्तरायणे ॥४॥
पुण्येऽह्नि विप्रैः कथिते कृत्वा ब्राह्मणवाचनम् ।
अशुभैर्वर्जिते देशे तटाकस्य समीपतः ॥५॥
चतुर्हस्तां समां वेदिं चतुरस्रां चतुर्मुखीम् ।
तथा षोडशहस्तस्स्यान्मण्डपश्च चतुर्मुखः ॥६॥
वेद्यास्तु परितो गर्ता रत्नि मात्रास्त्रिमेखलाः ।
नव सप्ताऽथ वा पञ्च ऋजुवक्त्रा नृपात्मज ॥७॥
वितस्तिमात्रा योनिः स्यात्षट्सप्ताऽङ्गुलिविस्तृता ।
गर्ताश्च हस्तमात्रास्स्युस्त्रिपर्वोच्छ्रितमेखलाः ॥८॥
सर्वतस्तु सवर्णास्स्युः पताकाध्वजसंयुताः ।
अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु ॥९॥
मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ।
शुभास्तत्राष्टहोतारो द्वारपालास्तथाऽष्ट वै ॥१०॥
अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ।
सर्वलक्षणसम्पूर्णान्मन्त्रज्ञान्विजितेन्द्रियान् ॥११॥
कुलशीलसमायुक्तान्स्थापयेद्वै द्विजोत्तमान् ।
प्रतिगर्तेषु कलशान् यज्ञोपकरणानि च ॥१२॥
व्यजने चासनं शुभ्रं ताम्रपात्रं सुविस्तरम् ।
ततस्त्वनेकवर्णास्स्युर्बलयः प्रतिदैवतम् ॥१३॥
आचार्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः ।
अरत्निमात्रो यूपः स्यात्क्षीरवृक्षविनिर्मितः ॥१४॥
यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ।
हेमालङ्कारिणः कार्याः पञ्चविंशतिऋत्विजः ॥१५॥
कुण्डलानि च हैमानि केयूरकटकानि च ।
तथाङ्गुलिपवित्राणि वासांसि विविधानि च ॥१६॥
दद्यात्समानि सर्वेषामाचार्ये द्विगुणं स्मृतम् ।
दद्याच्छयनसंयुक्तमात्मनश्चाऽपि यत्प्रियम् ॥१७॥
सौवर्णौ कूर्ममकरौ राजतौ मत्स्यडुण्डुभौ ।
ताम्रौ कुम्भीरमण्डूकौ वायसः शिंशुमारकः ॥१८॥
एवमासाद्य तत्सर्वमादावेव विशाम्पते ।
शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः ॥१९॥
सर्वोषध्युदकैः सर्वैः स्नापितो वेदपारगैः ।
यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः ॥२०॥
पश्चिमद्वारमासाद्य प्रविशेद्यागमण्डपम् ।
ततो मङ्गलशब्देन भेरीणां निस्स्वनेन च ॥२१॥
रजसा मण्डलं कुर्यात्पञ्चवर्णेन तत्त्ववित् ।
षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् ॥२२॥
चतुरस्रन्तु परितो वृत्तं मध्ये सुशोभनम् ।
वेद्याश्चोपरितः कृत्वा ग्रहाल्ँ लोकपतींस्ततः ॥२३॥
संन्यसेन्मन्त्रतः सर्वान्प्रतिदिक्षु विचक्षणः ।
कलशं स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितम् ॥२४॥
ब्रह्माणञ्च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ।
विनायकञ्च विन्यस्य कमलामम्बिकान्तथा ॥२५॥
शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः ।
पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् ॥२६॥
कुम्भांश्च रत्नगर्भांस्तान्वासोभिः परिवेष्टयेत् ।
पुष्पगन्धैरलङ्कृत्य द्वारपालान्समन्ततः ॥२७॥
यजध्वमिति तान् ब्रूदाचार्यमभिपूजयेत् ॥
बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणे तु यजुर्विदौ ॥२८॥
सामगौ पश्चिमे स्थाप्यावुत्तरेणाप्यथर्वणौ ।
उदङ्मुखो दक्षिणतो यजमान उपाविशेत् ॥२९॥
यजध्वमिति तान् ब्रूयाद्याजकान्पुनरेव तान् ।
उत्कृष्टमन्नजाप्येन तिष्ठध्वमिति जापकान् ॥३०॥
एवमादिश्य तान्सर्वान्सन्धुक्ष्याऽग्निं स मन्त्रवित् ।
जुहुयादाहुती मन्त्रैराज्यं च समिधस्तथा ॥३१॥
ऋत्विग्भिश्चैव होतव्यं वारुणैरेव सर्वतः ।
ग्रहेभ्यो विधिवध्दुत्वा तथेन्द्रायेश्वराय च ॥३२॥
मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ।
शान्तिसूक्तञ्च रौद्रञ्च पावमानञ्च मंगलम् ॥३३॥
जपेच्च पौरुषं सूक्तं पूर्वतो बहूवृचः पृथक् ।
शाकं रौद्रञ्च सौम्यञ्च कौष्माण्डं जातवेदसम् ॥३४॥
सौरं सूक्तञ्जपेयुस्ते दक्षिणेन यजुर्विदः ।
वैराजं पौरुषं सूक्तं सौपर्णं रुद्रसंहिताम् ॥३५॥
शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ।
वामदेव्यं बृहत्साम रौरवञ्च रथन्तरम् ॥३६॥
गवां व्रतं विकीर्णञ्च रक्षोम्नञ्च यमं तथा ।
गायेयुः सामगा राजन्पश्चिमद्वारमाश्रिताः ॥३७॥
अथर्वणाश्चोत्तरतः शान्तिकं पौष्टिकं तथा ।
जपेयुर्मनसा देवमाश्रिता वरुणं प्रभुम् ॥३८॥
पूर्वेद्युरभितो रात्रावेवं कृत्वाऽधिवासनम् ।
गजाश्वरथवल्मीकसङ्गमाद्व्रजगोकुलात् ॥३९॥
मृदमादाय कुम्भेषु प्रक्षिपेदोषधीस्तथा ।
रोचनाञ्च ससिद्धार्थां गन्धान् गुग्गुलमेव च ॥४०॥
स्नापनं तस्य कर्तव्यं पञ्चगव्यसमन्वितम् ।
पूर्वं कर्तुर्महामन्त्रैरेवं कृत्वा विधानतः ॥४१॥
अतिवाह्य क्षपामेवं विधियुक्तेन कर्मणा ।
ततः प्रभाते विमले सञ्जाते तु शतं गवाम् ॥४२॥
ब्राह्मणेभ्यः प्रदातव्यमष्टषष्ट्यथवा पुनः ।
पञ्चाशद्वाथ षड्विंशत्पञ्चविंशति वा पुनः ॥४३॥
ततश्चावसरप्राप्ते शुद्धे लग्ने सुशोभने ।
वेदशब्दैस्सगन्धर्वैर्वाद्यैश्च विविधैः पुनः ॥४४॥
कनकालङ्कृतां कृत्वा जले गामवतारयेत् ।
सामगाय च सा देया ब्राह्मणाय विशाम्पते ॥४५॥
पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् ।
ततो निक्षिप्य मकरान्मत्स्यादींश्चैव सर्वशः ॥४६॥
धृतां चतुर्भिर्विप्रैश्च वेदवेदाङ्गपारगैः ।
महानदीजलोपेतां दध्यक्षतविभूषिताम् ॥४७॥
उत्तराभिमुखान्युब्जांजलमध्ये तु कारयेत् ।
आथर्वणेन सुस्नातां पुनर्भायां तथैव च ॥४८॥
आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डलम् ।
पूजयित्वा सदस्यान्वै बलिं दद्यात्समन्ततः ॥४९॥
पुनार्दनानि होतव्यं चत्वारि राजसत्तम ।
चतुर्थीकर्म कर्तव्यं देयं तत्राऽपि शक्तितः ॥५०॥
कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च ।
ऋत्विग्भ्यश्च समं दद्यान्मण्डपं विभजेत्पुनः ॥५१॥
हेमपात्रीञ्च शय्याञ्च विप्राय च निवेदयेत् ।
ततः सहस्रं विप्राणामथवाऽष्टशतं तथा ॥५२॥
भोजनयिं यथाशक्ति पञ्चाशद्वाऽथ विंशतिः ।
एवमेव पुराणेषु तटाकविधिरुच्यते ॥५३॥
कूपवापीषु सर्वासु तथा पुष्करिणीषु च ।
एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥५४॥
मन्त्रतस्तु विशेषः स्यात्प्रासादोद्यानभूमिषु ।
अयन्त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा ॥५५॥
स्वल्पेष्वेकाऽग्निवत्कार्यो वित्तशाठ्यविवर्जितैः ।
प्रावृट्काले स्थितं तोयमग्निष्टोमफलं स्मृतम् ॥५६॥
शरत्कालस्थितं यत्स्यात्तदुक्तफलदायकम् ।
वाजपेयाऽतिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ॥५७॥
अश्वमेधफलं प्राहुर्वसन्तसमये स्थितम् ।
ग्रीष्मेऽपि यत्स्थितं तोयं राजसूयाद्विशिष्यते ॥५८॥
एतान्महाराज विशेषधर्मान्करोति चोर्व्यामतिशुद्धबुद्भिः ।
स याति ब्रह्मालयमेव शुद्धः कल्पाननेकान्दिवि मोदंते च ॥५९॥
अनेकलोकान्विचरन्स्वरादीन्भुक्त्वा परार्धद्वयमङ्गनाभिः ।
सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्योगबलेन भूयः ॥६०॥