६० अश्वत्थसंस्कारः

॥ अश्वत्थसंस्कारः ॥ ( बो. गृ. शे. सू. २.१० )

अथातोऽश्वत्थसंस्कारं व्याख्यास्यामः ॥ ऋतुर्यथाकामी स्यात् ॥ पुण्ये नक्षत्रे ब्राह्मणान्भोजयित्वाऽऽशिषो वाचयित्वा प्रदक्षिणमश्वत्थं परिसमूहति -

अश्वत्थे वो निषदनं

इति ॥ तमभ्यर्च्य यज्ञोपवीतं प्रतिमुञ्चति । देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा याज्ञिकीं समिधमाज्येनाऽक्त्वा तूष्णीमभ्याधापयति । यथालाभं तूष्णीं वासः परिधापयति । तूष्णीं मेखला परिव्ययति । मन्त्रवद्ग्रन्थिं करोति । तूष्णीमजिनं प्रतिमुञ्चति । तूष्णीं दण्डं प्रयच्छति । याज्ञिकस्य वृक्षस्य नाम प्रयच्छति ॥ अथाऽश्वत्थमुपनयेत् - ‘देवस्य त्वा’ इति नामग्रहणवर्जम् ॥ आचार्य एव पक्वाज्जुहोति - ‘तत्सवितुर्वरेण्यम्’ इति ॥ अथाऽज्याहुतीरुपजुहोति - ‘क्षेत्रियै त्वा’ इति षड्भिर्व्याहृतिभिश्च ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाऽग्रेणाऽग्निं पलाशपर्णेषु हुतशेषं निदधाति । तत्पुरस्ताद्व्याख्यातम् ॥ अथ पक्वादुपादायाऽथैनं निवेदयति॥ तूष्णीं सर्वान् मन्त्रानाचार्य एव जपेदित्याह भगवान् बोधायनः ॥ ॥

प्रयोगः

अथ प्रयोगः ॥ स्थापनादष्टमे वर्षे द्वादशे एकादशेऽपि वा उत्तरायणे गुरुशुक्रोदये माघ-फाल्गुन-चैत्र-वैशाखेषु शुक्लपक्षे शुभे ऋक्षे शुभवारतिथिलग्नके स्कन्धपर्णाङ्कुराऽन्विते विद्युता दावाग्निना वाऽनभिहतेऽश्वत्थोद्यापनं कुर्यात् ॥ तत्रादौ कनककुण्डले कनकसूत्रे कनकमौञ्जीं होमद्रव्याणि सर्वसम्भारान्यथासम्भवं सम्भृत्याऽश्वत्थस्य चतुरस्रां वेदिकां विधायाऽश्वत्थमूले वर्तुलं चतुरस्रं वाऽऽलवालं वा कृत्वा, तत्र तुलसीं प्लक्षशाखां शमीञ्च रोपयित्वाऽश्वत्थवेदिकायां चतुरस्त्रं समन्ताच्चतुर्द्वारं चतुर्हस्तमधिकं वाऽश्वत्थात् पूर्वे पश्चिमे उत्तरे वोक्तलक्षणं मण्डपं कृत्वा, स्वगृहे ज्योतिर्विदादिष्टे मुहूर्ते प्रधानसङ्कल्पं कुर्यात् ॥ तिथ्यादि सङ्कीर्त्य

ममाऽऽत्मनः पुण्याऽतिशयाऽऽयुष्य-पुत्र-पौत्र-पशु-वित्त-धन-धान्य-विद्या-कुलाऽभिवृद्धि- कुलकोटिसहितस्वर्लोकप्राप्त्याद्यैहिकाऽऽमुष्मिकफलप्राप्त्यर्थं दशपूर्वान्दशपरानात्मना सहैकविंशतिपुरुषानुद्धर्तुं, विष्णुपदप्राप्त्यर्थं, तथा चाऽश्वत्थस्य ब्रह्मत्वशान्त्यभीष्टफलदातृत्वाद्यनेकगुणसम्पत्यर्थं, यथाज्ञानेन यथामीलितोपचारद्रव्यैर्देशकालाद्यनुसारतः एकाहाद्यधिवासप्रकारेणाऽश्वत्थोद्यापनाख्यं करिष्ये

(पुत्रकामश्चेत् –

ममेह जन्मनि जन्मान्तरे वा नानानिमित्तोपार्जितसन्ततिप्रतिबन्धकाऽदृष्टनिरसनपूर्वकसत्पुत्राऽवाप्तये

इति ) इति सङ्कल्प्य गणेशपूजनं कृत्वा मातृकापूजनं नान्दीश्राद्धं विधाय

लक्ष्मीनारायणः प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्यादीन्वृत्वा मधुपर्केणाऽर्हयेत् ॥

ततः सर्त्विक्सपत्नीको यजमानः पूर्णकलशहस्तः “भद्रं कर्णेभिः" इत्यादि मन्त्रेण मङ्गलतूर्यघोषेण सहाश्वत्थप्रादाक्षिण्येन मण्डपपश्चिमद्वारमागत्य तत्र धरां सम्पूज्य मण्डपं प्रविश्य कलशमश्वत्थसमीपे निधाय, निर्ऋतिवरुणयोर्मध्ये उपविशेत् ॥ तत आचार्यः -

अश्वत्थोद्यापनकर्माणि वृतोऽहं आचार्यकर्म करिष्ये

इति सङ्कल्प्य, शरीरशुध्यर्थं भूतशुध्यादि पौरुषजपं न्यासांश्च कृत्वा,

यदत्र संस्थित॰

इति सर्षपलाजान्विकीर्य, साधितपञ्चगव्येन कुशैः सर्वत्र

शुची वो हव्या॰, आपो हि ष्ठा॰, उत्तरनारायणेन च प्रोक्ष्य भद्रं कर्णेभिः॰, स्वरित न इन्द्रः॰

इति पठित्वा

‘देवा आयान्तु, यातुधाना अपयान्तु, विष्णो देवयजनं रक्षस्व

इति भूमौ प्रादेशं कुर्यात् ॥ यथोक्तमण्डपाऽकरणे साधारणमण्डपे प्राग्द्वारे-अमन्त्रकं चूतपल्लवतोरणं दक्षिणे-प्लक्षपल्लवतोरणं, पश्चिमे-वटपल्लवतोरणं, उत्तरे-अशोकपल्लवतोरणञ्च बध्वा, तथैव प्रागादि चतुर्द्वारेषु-श्वेत-कृष्ण-हरित-रक्तपताका, अश्वत्थशिरसि महान्तं चित्रध्वजं च बध्नीयात् । अथ प्रागादिद्वारचतुष्टये वेदादिक्रमेण द्वौद्बावेकमेकं वा ब्राह्मणं जपार्थं वृत्वाऽश्वत्थस्य तैलहरिद्रारोपणादि लौकिकं कुर्यात् ॥ ततः आग्नेय्यां पृथक्स्थाण्डिले-राक्षोघ्नहोमं विधाय, ईशान्यां प्रधानकुण्डे स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, सग्रहमखस्य वास्तुहोमस्यान्वाधानं कृत्वा, ग्रहवेद्यां-ग्रहान्सम्पूज्य, तदुत्तरे अष्टदलपद्मे-वास्तोष्पतिं, वास्तुमण्डले-ब्रह्मादि त्रिपञ्चाशद्देवता आवाह्य सम्पूजयेत् ॥ ततो ग्रहवास्तुहोमान्ते पृथगग्नौ कूष्माण्डहोमं कृत्वा, ततः पृथग्घव्यवाहसंज्ञकेऽग्नावग्नेः षोडशसंस्कारसिद्धये प्रत्येकं चतुर्व्याहृतिभिराज्यं हुत्वा, तस्मात्कुण्डात् “अग्निनाग्निः॰" इत्यग्निमुद्धृत्य व्याहृत्या स्वे स्वे कुण्डे निक्षिपेयुः ॥ मुख्याचार्यः स्वर्णसूच्याऽश्वत्थे लक्ष्मीनारायणौ लिखेत् । अश्वत्थोपरि चित्रध्वजं पताकाञ्च बध्वा विधिवत्सर्वौषधि कलशं प्रतिष्ठाप्य, तेन “या ओषधीः॰” इति स्नापयित्वा, पिष्टकेन भूषयित्वा,

वनस्पते शतवल्शो विरोह सहस्रवल्शा वि वयँ रुहेम । यन्त्वा यँ स्वधितिस्तेतिजानः प्रणिनाय महते सौभगाय [[TODO: परिष्कार्यम्]]

इति मन्त्रेण गन्धादिभिः सम्पूज्य, गुग्गुलुधूपं दत्वा महानैवेद्यमग्रतो निधाय, सुवर्णशलाकया नेत्रोन्मीलनं कृत्वा, दधिमधुनाऽञ्जनेनाङ्क्त्वा वेद्यां पीठे धान्यराशौ विधिवत्कलशं प्रतिष्ठाप्य, तत्र सुवर्णप्रतिमायां

वनस्पते शतवल्शः॰

इति मन्त्रेण

लक्ष्मीनारायणाभ्यां नमः लक्ष्मीनारायणौ आवाहयामि

इत्यावाह्य, पुरुषसूक्तेन षोडशोपचारैरभ्यर्चयेत् ॥ ततोऽश्वत्थपरितः पीठसमन्तो वाऽष्टौ कलशान्संस्थाप्य, तत्र पूर्वकलशे

आपो हि ष्ठा

इति नवर्चेन शुद्धोदकं, आग्नेयकलशे -

आ नो भद्रा

इति दशर्चेन गन्धोदकं, दक्षिणकलशे -

स्वस्ति नो मिमीतां

इति पञ्चमन्त्रेण क्षीरोदकं, निर्ऋतिकलशे -

शन्न इन्द्राग्नी

इति पञ्चदशर्चेन पञ्चगव्यं, पश्चिमकलशे -

एतोन्विन्द्रं

इत्यृचेन हरिद्रोदकं, वायव्यकलशे -

समुद्र ज्येष्ठा

इति चतसृभिः सर्वोषध्युदकं, उत्तरकलशे -

या आपो दिव्या

इति मन्त्रेण कुशोदकं, ईशान्यकलशे -

प्रसुव आपः

इति नवर्चेन कुशोदकञ्च प्रपूर्य, ‘मही द्यौः’ इत्यादि वरुणं संपूज्य तेषु कलशेषु पूर्वादिक्रमेण इन्द्रादीन् तत्तन्मन्त्रैरावाह्य पूजयेत् ॥ सुवर्णशलाकां सूचीञ्च ताम्रपात्र्यां निधायाऽधिवासयेत् ॥ ततो यूपं वेद्यामुत्तरतः संस्थाप्य कुङ्कुमधूपदीपादिभिरभ्यर्च्य वस्त्रयुग्मेनाच्छाद्य नैवेद्यं समर्प्य

ऊर्ध्व ऊ षु ण॰

इत्यधिवासयेत् ॥ ततोऽश्वत्थं पुरुषसूक्तेनाऽथर्वशिरसा पञ्चामृतादिभिरभिषिच्य, षोडशोपचारैः सम्पूजयेत् ॥ अथ पूर्वादिदिक्षु चत्वारि स्थाण्डिलानि विधाय, तेषु होमार्थं चतुर आचार्यान्वृत्वा ते स्वगृह्यविधिनाऽग्नीन्स्थापयेयुः ॥ मुख्यकुण्डपश्चिमत आचार्य उपविश्य, प्राणानायम्य देशकालौ सङ्कीर्त्य श्रीपरमेश्वरप्रीत्यर्थमश्वत्थोद्यापनाङ्गम् अधिवासहोमं करिष्ये॰ बलवर्धनो नामाऽग्निः, लक्ष्मीनारायणो देवता, चरुर्हविः उपहोमे - ‘वनस्पते शतवल्शः’ इति मन्त्रेण न्यग्रोधोदुम्बराश्वत्थपलाशापामार्गसमित्तिलपायसद्रव्यैः प्रतिद्रव्यं शतसंख्याकाहुतिभिः, विष्णुसूक्तेनप्रत्यृचं चरुणा, पुरुषसूक्तेन प्रत्यृचमाज्येन, सहस्राणि सहस्रधा इति मन्त्रेण पूर्वोक्तन्यग्रोधादिसप्तद्रव्यैः प्रतिद्रव्यं अष्टाविंशत्यष्टाविंशतिसङ्ख्याकाहुतिभिः, ब्रह्मादिमण्डलदेवतास्तैरेव द्रव्यैः मन्त्रसंख्यया, ‘अग्निः स्विष्टकृत्’ इत्याद्यन्वाध्यात् ॥ पूर्वकुण्डे - ‘बलवर्धनो नामाग्निः’ इत्यादि उपहोमे - ‘वनस्पते शतवल्शः’ इति मन्त्रेण न्यग्रोधादि सप्तद्रव्यैः प्रतिद्रव्यं शतसङ्ख्याकाहुतिभिः,

त्रातारमिन्द्रं॰, अग्निर्दा द्रविणं॰

इति द्वाभ्यां तैरेव द्रव्यैः प्रतिमन्त्रं प्रतिद्रव्यं २८ सङ्ख्याकाहुतिभिः ॥ दक्षिणकुण्डे - ‘बलवर्धनो नामाऽग्निः’ इत्यादि पूर्वकुण्डवत् । तत्र

त्रतारमिन्द्रं॰, अग्निर्दा

इत्यत्र

यमो दधम पृथिविं॰, असुन्वन्तमयजमानं॰

इति मन्त्रद्वयं, पश्चिमकुण्डे -

सधमादो॰, आ नो नियुद्भिः॰

इति मन्त्रद्वयं, उत्तरकुण्डे - ‘सोमो धेनुं॰’ इति मन्त्रं योज्यम्, अन्यत्सर्व पूर्वकुण्डवत् ॥ ‘आग्निः स्विष्टकृत्’ इत्यादि सङ्कल्प्यान्वाधायाऽग्निमुखान्तं कृत्वा, विष्णुगायत्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायाऽन्वाधानोक्तक्रमेण तत्तत्कुण्डे उपहुत्य, स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा इन्द्रादिभ्यः क्षेत्रपालाय च बलिं दत्वोत्तरपरिषेकादि होमशेषं समाप्य, सर्वे आचार्याः यजमानेन सह उत्तरदिनावधि अग्निं रक्षेयुः ॥ पुराणादिना रात्रिं नयेयुः ॥

प्रातर्नित्यकर्म निर्वर्त्याऽऽचार्यः घटीस्थापनं कृत्वा, पूर्वस्थापिताष्टकलशोदकैः

पवमानः सुवर्जनः

इत्येतेनाऽनुवाकेन अश्वत्थनारायणं त्रिरभिषिच्य गन्धादिभिः पूजयेत् ॥ अथाचार्यः कुण्डस्य पश्चिमत उपविश्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

अस्याऽश्वत्थस्य ब्रह्मत्वप्रसन्नताशान्त्यभीष्टदातृत्वादिसिद्धये पुंसवन-सीमन्तोन्नयन-विष्णुबलि-जातकर्म-नामकरणोपनिष्क्रमणाऽन्नप्राशन-कर्णवेधन-चौलसंस्कारान् व्याहृतिद्वारा करिष्ये

इति सङ्कल्प्य, व्यस्ताभिस्समस्ताभिर्व्याहृतिभिः प्रतिमन्त्रं प्रतिसंस्कारमष्टवारमाज्येन जुहुयात् । प्रतिसंस्कारहोमान्ते

वनस्पते शतवल्शः॰

इति मन्त्रेणाऽश्वत्थं स्पृशेत् । कर्णवेधनसंस्कारेऽधिवासितसूच्या कर्णवेधं कुर्यात् ॥

अस्याऽश्वत्थस्य द्विजत्वसिध्यर्थं उपनयनं करिष्ये॰ जातवेदा नामाऽग्निः, सविता देवता, चर्रुहविः, अग्निः स्विष्टकृत्,

इत्याद्यन्वाधाय, प्राकृतपात्रैः सह दण्डमजिनं, वस्त्रं, मेखलां समिधञ्चाऽऽसादयेत् ॥

अश्वत्थे वो निषदनं॰

इति प्रदक्षिणमश्वत्थं परिसमुह्य, गन्धादिभिरभ्यर्च्य, आचमनं दत्वा, ‘यज्ञोपवीतं॰’ इति मन्त्रेण यज्ञोपवीतं प्रतिमुञ्चति । सर्वत्र आचार्य एव मन्त्रान्पठेत् । पुनराचमनं दद्यात् । अथ चरुनिर्वापाद्यग्निमुखान्तं कृत्वा, याज्ञिकीं समिधमाज्येनाङ्क्त्वाऽभ्याधापयति –

आयुर्दा देव जरसं॰

इति ।

या अकृन्तन्नवयन्या॰, परिधत्त धत्त॰, जरां गच्छ, सि॰, परीदं वासः॰

इति यथालाभं वासः परिधाप्य,

इयं दुरुक्तात्॰

इति मेखलाः त्रिः परिव्ययति ।

ऋतस्य गोप्त्री॰

इति तामनुमन्त्र्य

प्राणानां ग्रन्थिरसि॰

इति नाभिदेशे ग्रन्थिं करोति ।

मित्रस्य चक्षुः॰

इत्यजिनं प्रतिमुच्य,

सोमोऽसि सोमपं मा कुरु

इति दण्डं प्रयच्छति

त्वं अश्वत्थोऽसि

इति नाम दत्वोपनयेत्

देवस्य त्वा॰ उपनये

इति ॥ आचार्यः सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय,

क्षेत्रियै त्वा

इत्यादि षण्मन्त्रैर्व्याहृतिभिश्चोपहुत्य, स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निं पलाशपर्णेषु हुतशेषं निदधाति -

नमो अस्तु नीलग्रीवाय॰

इति । सप्रणवां सव्याहृतिकां सशिरस्कां गायत्रीं अश्वत्थं स्पृष्ट्वा उपदेशवत्पठेत् । ततः पक्वादुपादाय

शरीरं मे विचर्षणं॰

इति मन्त्रेणाऽश्वत्थाय निवेदयेत् ॥ ततो महानाम्नी-महाव्रत-गोदान-समावर्तन-विवाहेषु प्रतिसंस्कारं पूर्ववद्व्याहृतिभिरष्टवारमाज्येन हुत्वाऽश्वत्थं करेण स्पृशेत् ॥ ततः ‘आयुष्यम्’ इति सूक्तेन कुण्डले बध्वा, शलाकया नेत्राञ्जनं कार्यम् । ततोऽश्वत्थमूलस्थतुलस्या हस्तान्मालां गृहीत्वा, यजमानकरे दत्वा मध्येऽन्तःपटं धृत्वा मङ्गलाष्टकं पठित्वा, पटमुन्नमय्य, मालामश्वत्थमूले समर्प्य, ‘भद्रं कर्णेभिः’ इत्यादि पठेयुः । ततो होमशेषं समाप्याश्वत्थोत्तरतः

ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे [[TODO: परिष्कार्यम्]]

इति यूपं रोपयित्वा, तुलस्या सहाऽश्वत्थस्य सुवासिनीभिस्तैलहरिद्रारोपणं मङ्गलस्नानञ्च कारयित्वा, कर्मसाद्गुण्याऽवाप्तये लक्ष्मीनारायणप्रीतये च दुकूलवस्त्रादिनानाद्रव्यपूरितं वंशपात्रदानं कार्यम् ॥ तत्रादौ पूजनम् -

ब्रह्मविष्णुशिवादीनां स्थानं त्वं वृक्षराट् स्वयम् ।
अङ्गैः सर्वैरहो स्वामिन् स्थातव्यन्तु त्वया विभो ॥

इत्यावाहनं समर्पयामि ॥

मूलानि ब्राह्मणा यस्य ऋगाद्याश्चाङ्गपल्लवाः ।
फलानि यज्ञशाखाश्च वाङ्मयो मे दयां कुरु ॥

आसनं॰ ॥

सर्वतीर्थमयो यस्मात्सर्वदेवमयो यतः ।
सर्वतीर्थाम्बुभिस्तस्मात्पाद्यमाधत्स्व वृक्षराट् ॥

पाद्यं॰ ॥

आपो धर्मस्य यद्बीजमापो धर्मः सनातनः ।
अद्भ्यः पवित्रं नास्त्यन्यदपामर्घ्यं गृहाण मे ॥

अर्घ्यं॰ ॥

शुध्यन्ति द्रव्यमात्राणि गङ्गातोयेन नित्यशः ।
अतः सर्वाणि गात्राणि स्नापये यज्ञवृक्षराट् ॥

स्नानं॰ ॥

सर्वभूताधिवासाय सर्वदेवमयाय च ।
सर्वलज्जानिरासार्थं वाससी कल्पयाम्यहम् ॥

वस्त्रं॰ ॥

यतो गन्धवती भूमिर्भूमिरूपा हि पादपाः ।
राजा त्वं पादपानाञ्च चन्दनं प्रतिगृह्यताम् ॥

गन्धं॰ ॥

वृक्षराज नमस्तुभ्यं यज्ञराज नमोऽस्तु ते ।
यज्ञाङ्गरूप यज्ञेश वृक्षाश्वत्थ नमोऽस्तुते ॥

पुष्पं॰ ॥

निर्यासं वृक्षराजानां धूपार्थं कल्पयाम्यहम् ।
धर्मरूपेण वर्तन्ते वृक्षाश्वत्थाय ते नमः ॥

धूपं॰ ॥

चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ।
आर्तिक्यं कल्पये भक्त्या परीगृह्णीष्व वृक्षराट् ॥

दीपं॰ ॥

अन्नाद्भवन्ति भूतानि यज्ञश्चाऽन्नात्प्रवर्तते ।
अश्वत्थ यज्ञरूपोऽसि नैवेद्यं तेऽर्पयाम्यहम् ॥

नैवेद्यं॰ ॥ (पायसं लड्डुकांश्चापयेत्) फलताम्बूलदक्षिणाः समर्प्य नमस्कारप्रदक्षिणापुष्पाञ्जल्यन्ते प्रार्थयेत् -

अश्वत्थोऽसि जगन्नाथ पुरा देवैर्विनिर्मितः ।
पापात्सन्त्राहि नो देव पुण्यं देहि महाफलम् ॥
क्षीरोदधिसमुद्भूते तुलसि हरिवल्लभे ।
अश्वत्थोद्यापनफलं देहि मह्यं सदाशिवे ॥

प्रार्थनां॰ ॥ पूजां समर्प्याऽऽचार्यादीन् सम्पूज्याचार्याय गोदानं, कलशदानमन्येभ्य ऋत्विग्भ्यो दशदानं यथाशक्ति दक्षिणां च दत्वा ब्राह्मणान् यावच्छक्ति सम्भोज्याऽऽशिषो गृह्णीयात् ॥