५९ वेदपारायणविधिः

॥ वेदपारायणविधिः ॥ (बो. ध. सू. ३.९ ) अथातोऽनश्नन्पारायणविधिं व्याख्यास्यामः ॥ शुचिवासाः स्याच्चीरवासा वा ॥ हविष्यमन्नमिच्छेदपः फलानि वा ॥ ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य प्रोक्ष्य लक्षणमुल्लिख्याऽद्भिरभ्युक्ष्याऽग्निमुपसमाधाय सम्परिस्तीर्य ताभ्यो देवताभ्यो जुहुयात् ॥ अग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वयंभुव ऋग्भ्यो यजुर्भ्य सामभ्योऽथर्वभ्यश्श्रद्धायै प्रज्ञायै मेधायै श्रियै ह्रियै सवित्रे सावित्र्यै सदसस्पतयेऽनुमतये च हुत्वा वेदादिमारभेत सन्ततमधीयीत नाऽन्तरा ब्याहरेन्न वाऽन्तरा विरमेत् । अथाऽन्तरा व्याहरेदथाऽन्तरा विरमेत् त्रीन् प्राणानायम्य वृत्तान्तादेवाऽऽरभेत ॥ अप्रतिभायां यावता कालेन न वेद तावन्तं कालं तदधीयीत स यज्जानीयात् ॥ ऋक्तो यजुष्टस्स्सामत इति ॥ तद्ब्राह्मणं तच्छन्दसं तद्दैवतमधीयीत ॥ द्वादश वेदसंहिता अधीयीत यदनेनाऽनध्यायेऽधीयीत यद्गुरवः कोपिता यान्यकार्याणि भवन्ति ताभिः पुनीते शुद्धमस्य पूतं ब्रह्म भवति ॥ अत ऊर्ध्वं सञ्चयः ॥ अपरा द्वादश वेदसंहिता अधीत्य ताभिरुशनसो लोकमवाप्नोति ॥ अपरा द्वादश वेदसंहिता अधीत्य ताभिर्बृहस्पतेर्लोकमवाप्नोति ॥ अपरा द्वादश वेदसंहिता अधीत्य ताभिः प्रजापतेर्लोकमवाप्नोति ॥ अनश्नन्संहितासहस्रमधीत्य ब्रह्मभूतो विराजो ब्रह्म भवति ॥ संवत्सरं भैक्षं प्रयुञ्जानो दिव्यं चक्षुर्लभते ॥ षण्मासान्यावकभक्षश्चतुरो मासानुदकसक्तुभक्षा द्वौ मासी फलभक्षो मासमब्भक्षो द्वादशरात्रं वाऽप्राश्नन्क्षिप्रमन्तर्धीयते ज्ञातीन्पुनाति सप्ताऽवरान्सप्त पूर्वानात्मानं पञ्चदशं पङ्किञ्च पुनाति ॥ तामेतां देवनिश्श्रेयणीत्याचक्षते ॥ एतया वै देवा देवत्वमगच्छन्नृषय ऋपित्वम् ॥ तस्य ह वा एतस्य यज्ञस्य त्रिविध एवाऽऽरंभकालः प्रातस्सवने माध्यन्दिने सवने ब्राह्मे वाऽपररात्रे ॥ तं वा एतं प्रजापतिस्सप्त ऋषिभ्यः प्रोवाच सप्तर्षयो महाजज्ञवे महाजझुर्ब्राह्मणेभ्यो ब्राह्मणेभ्यः ॥

आ समाप्तेर्नाश्नीयात् ॥ यथाशक्ति वा ॥ अपः पयः फलान्योदनं हविष्यमात्रमल्पं भुञ्जीत ॥ नोपरि शयीत ॥ न मैथुनं चरेत् ॥ पतिताद्यैर्न सम्भाषेत ॥ नैतत्समीपेऽधीयीत

इति बोधायनः ॥

अत्र पुराणे कलशस्थापनं तत्र सविशेषं ब्रह्मपूजनञ्चोक्तम् -

तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते ।
कलशं सुदृढं तत्र सुनिर्णिक्तं विभूषितम् ॥
पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः ।
मृत्तिकां यवसम्मिश्रां वेदिमध्ये क्षिपेत्ततः ॥
पञ्चाशद्भिः कुशैः कार्यो ब्रह्मा पश्चान्मुखः स्थितः ।
वाग्यतः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः ॥
वत्सजान्वाकृतिं वेदमुत्तराग्रैः कुशैः कृतम् ।
ब्रह्मोपधाने दत्वा तं ततः स्वस्त्ययनं पठेत् ॥
प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्याण्यथोच्यते ।
यज्ञोपवीतनैवेद्यवस्त्रचन्दनकुङ्कुमैः ॥
स्रग्धूपदीपताम्बूलैरक्षतैश्च पितामहम् ।
ब्रह्मजज्ञानमिति वा गायत्र्या वा प्रपूजयेत् ॥
ततो गुरुञ्च सम्पूज्य यथापाठं पठेत्ततः

इति ॥

प्रयोगः

अथ प्रयोगः ॥ उदगयन आपूर्यमाणपक्ष आत्मानुकूलदेवनक्षत्रे कर्ता स्नानादिनित्यकर्म निर्वर्त्य ग्रामात्प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य, गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य, दर्भेष्वासीनो दर्भान्धारयमाणः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

मम बाल्याद्यवस्थासु मनोवाक्कायकर्मभिः कृताऽनृतवाद-शूद्रान्नभोजन-शूद्रस्त्रीसेवन-अयाज्ययाजन-निषिद्धप्रतिग्रह-ब्राह्मणताडन-हनन-निन्दा-प्राणिहिंसन-सुवर्णस्तेय-पतितसंयोग-गुरुतल्पगमन-रजस्वलागमन-सुरापान-असोमपाने त्यादि सकलपापक्षयद्वारा आग्निष्टोमादि क्रत्वनुष्ठानफलप्राप्त्यर्थं, शान्ति-पुष्टि-तुष्टि-धन-धान्याद्यभिवृध्यर्थ, श्रीपरमेश्वरमीत्यर्थं स्वर्गकामः स्वशाखात्मकवेदपारायणं करिष्ये

(पुत्रादि कामनायां पुत्रकामनासिध्यर्थं इत्यादि यथायथमूहः) इति सङ्कल्प्य, गणपतिपूजनं मातृकापूजनं नान्दीश्राद्धं

सविता प्रीयताम्

इति पुण्याहवाचनं कुर्यात् ॥

अमुकप्रवरान्विताऽमुकगोत्रोत्पन्नाऽमुकशर्माहं अमुकप्रवरान्वितामुकगोत्रोत्पन्नममुकशाखाध्यायिनममुकशर्माणं ब्राह्मणं वेदपारायणार्थं आचार्यं त्वामहं वृणे

इति ऋत्विग्वरणं मधुपर्कञ्च कुर्यात् ॥ अथाचार्यो देवयजनोल्लेखनप्रभृत्याग्निं प्रतिष्ठाप्य, प्राणानायम्य देशकालो सङ्कीर्त्य

यजमानेन वृतोऽहं श्रीपरमेश्वरप्रीत्यर्थं वेदपारायणहोमं करिष्ये॰ बलवर्धनो नामाऽग्निः, (यजमानकर्तृके पारायणे गृह्याग्निमेव बलवर्धननामाऽयमग्निः इति ध्यायेत् ) सविता देवता, चरुर्हविः, आग्निः स्विष्टकृत्

इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽथ निवीती - अग्रेणाऽग्निं पञ्चकोष्ठेष्वक्षतपुञ्जेषूदगग्रान्कूर्चान्निधायोदगपवर्गं क्रमेण –

सप्त ते अग्ने॰ घृतेन

ॐ भूर्भुवस्सुवः प्रजापतिं काण्डर्षिमावाहयामि, एवमेव - सोमं काण्डर्षिं॰, अग्निं काण्डर्षिं॰, विश्वान्देवान्काण्डर्षिं॰, स्वयम्भुवं काण्डर्षिमावाहयामि

इत्यावाह्य गन्धादिभिरभ्यर्च्य

ॐ प्रजापतिं काण्डर्षि तर्पयामि तर्पयामि, एवमेव - सोमं॰, अग्निं॰, विश्वान्देवान्॰, स्वयंभुवं॰

इति द्विर्द्विस्तर्पयित्वा, उपवीती - सवित्रे चरुनिर्वापाद्यग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति -

याज्ञिकीभ्यो देवताभ्यः स्वाहा, साँहितीभ्यो॰, वारुणीभ्यो॰,

इत्यायेकोनविंशत्याहुतीर्तुत्वा,

अग्नये स्वाहा, सोमाय॰, प्रजापतये॰, विश्वेभ्यो देवेभ्यः॰, स्वयम्भुवे॰, ऋग्भ्यः॰, यजुर्भ्यं॰, सामभ्यः॰, अथर्वभ्यः॰, श्रद्धायै॰, प्रज्ञायै॰, मेधायै॰, श्रियै॰, ह्रियै॰, सवित्रे॰, सावित्र्यै॰, सदसस्पतये॰, अनुमतये॰,

इत्यष्टादशाज्याहुतीश्च हुत्वा (यथालिङ्गं त्यागः) स्विष्टकृदादि होमशेषं समाप्य,

ॐ अग्निं तर्पयामि, सोमं॰, प्रजापतिं॰, विश्वान्देवान्॰, स्वयम्भुवं॰, ऋचस्त॰, यजूंषि॰, सामानि॰, अथर्वणस्त॰, श्रद्धां॰, प्रज्ञां॰, मेधां॰, श्रियं॰, ह्रियं॰, सवितारं॰, सावित्रीं॰, सदसस्पतिं॰, अनुमतिं॰,

इत्यष्टादशमन्त्रैस्तर्पयेत् ॥ ततो हस्तायामविस्तारायां हस्तोछ्रायायां यवसम्मिश्रमृत्तिकायां वेद्यां - सुप्रक्षालितं पुष्पपल्लवमालाचन्दनकुङ्कमादिविभूषितं सुदृढं कुम्भं ‘मही द्यौः’ इत्यादि विधिना संस्थाप्य वस्त्रयुग्मेनावेष्ट्योत्तराग्रकुशकृतं वत्सजान्वाकृतिवेदं ब्रह्मणः शिर उपधानत्वेन कलशे परिकल्प्य, स्वस्तिसूक्तं पठेत् ॥ तत उर्ध्वाग्रं पञ्चाशत्कुशनिर्मितं कूर्चं निधाय, “ब्रह्म जज्ञानं॰” इति मन्त्रेण ‘वेदात्मनाय॰’ इति ब्रह्मगायत्र्या वा सरस्वतीसहितं ब्रह्माणमावाहा,

नर्य प्रजां मे गोपाय॰

इति प्रतिष्ठाप्य षोडशोपचारैः पूजयेत् ॥ ततो गुरुं प्रणम्य, दर्भासनोपविष्टो दर्भपाणिराचम्य प्राणानायम्य, सव्याहृतिकां गायत्री पच्छोऽर्धर्चशोऽनवानमुक्त्वा, वाग्यतः प्रणवोच्चारपूर्वकं ‘इषे त्वा॰’ इत्यादिकं वेदपारायणमारभते । प्रश्नान्तेऽनुवाकान्ते वा विरमेत् ॥ प्रत्यहं प्रहरद्वयपर्यन्तं यावत्पारायणं भवति तावत्कर्तव्यम् । अति त्वरायां सार्धप्रहरद्वयपर्यन्तम् ॥ आरण्यप्रपाठकेषु मध्ये विरामेऽपि तत्तत्प्रपाठकस्योत्तरां शान्तिं कुर्यात् । द्वितीये दिने पूर्वां शातिं कृत्वा कृतान्तादारभेत् । कर्मसमाप्त्यन्तं ब्रह्मचर्यमधःशयनं स्वल्पं हविष्याशनञ्च कार्यम् । शक्तौ सत्यामुपोषणम् । ब्रह्मपूजनञ्च प्रत्यहम् । पारायणसमाप्तिपर्यन्तं पतित-रजस्वलादिसम्भाषणं तत्समक्षमध्ययनञ्च न कुर्यात् ॥ ऋत्विक्कर्तृके पारायणकारयित्राऽप्येते नियमाः पालनीयाः॥

पारायणासमाप्तौ कर्ता स्नानादिचतुष्टयं विधायापां समीपे शुचौ देशे उपविश्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

वेदपारायणसाङ्गतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदपारायणोत्सर्जनं करिष्ये,

इति सङ्कल्प्य गणपतिं सम्पूज्य

सविता प्रीयताम्

इति पुण्याहं वाचयित्वा, संस्कारकाण्डोक्तप्रकारेणोत्सर्जनोक्तदेवर्षिपितॄन् पूजयेत् ॥ तत्पश्चिमे भागे - स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य,

वेदपारायणोत्सर्जनहोमं करिष्ये॰ बलवर्धनो नामाऽग्निः, सविता देवता, चरुर्हविः, अग्निः स्विष्टकृत्

इत्याद्यन्वाधायाऽग्रेणाग्निं पूर्ववत्पञ्चकाण्डर्षीन्संपूज्य, सवित्रे चरुनिर्वापाद्यग्निमुखान्ते सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय,

याज्ञिकीभ्यो देवताभ्यः स्वाहा

इत्याद्येकोनविंशत्याहुतीर्तुत्वा, स्विष्टकृदादिहोमशेषं समापयेत् ॥ अथ दूर्वारोपणोदधावूर्मिनिष्पादनाजिधावनञ्च वर्जयित्वा विधिवत्स्नानं कुर्यात् । अथाऽऽचार्यः सपरिवारं यजमानं प्राङ्मुखमुपवेश्य, कलशोदकेन

आपो हि ष्ठा॰

इत्यादिभिः प्रोक्षयेत् ॥ यजमानः - आचार्यं सम्पूज्य, कलशदान-गोदान-हिरण्यदान-वस्त्रदानादि कृत्वाऽपूपैः सक्तुभिरोदनेनाऽन्यैश्च व्यञ्जनैर्ब्राह्मणान्भोजयित्वा, भूयसीं दक्षिणां दत्वाऽऽशिषो गृह्णीयात् ॥