५८ सर्पबलिः

॥ अथ सर्पबलिः ॥ (बलिहरणानुकृतिः) (बो. गृ. सू. ३.१०) संवत्सरेसंवत्सरे षट्सुषट्सु मासेषु चतुर्षुचतुर्षु ऋतावृतौ मासिमासि वा वर्षास्वाश्रेषासु क्रियेत ॥ अपां समीपे वल्मीकाग्रेण वा पचनम् ॥ गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य चित्रास्सुमसनसस्सम्प्रकीर्य यवपिष्टानि व्रीहिपिष्टानि श्यामाकपिष्टानि वाऽऽज्येनेक्षुरसेन वा पक्त्वा पायसं घृतपक्वांश्च अपूपानोदनं धानास्सक्तून् करम्भान् लाजानित्युपकिरन्ति -

नमो अस्तु सर्पेभ्यः

इति तिसृभिरनुच्छन्दसम् ॥

सर्पेभ्यस्स्वाहाऽऽश्रेषाभ्यस्स्वाहा दन्दशूकेभ्यस्स्वाहा

इति त्रयस्स्वाहाकाराः उर्वरो गृहपतिरध्वर्युर्धृतराष्ट्र ऐरावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगरश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणस्तक्षको वैशालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होताऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्योऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्चेत्येतैरेव नामधेयैः,

समीची नामासि प्राची दिक्

इति षड्भिः पर्यायैः,

हेतयो नाम स्थ तेषां वः पुरो गृहाः

इति षड्भिः,

इदं सर्पेभ्यो हविरस्तु जुष्टं

इति चोपस्थानम् ॥ त्रिवृतान्नेन ब्राह्मणान्सम्पूज्य आशिषो वाचयित्वा ॥ व्याख्यातस्सर्पबलिर्व्याख्यातस्सर्पबलिः ॥

प्रयोगः

अथ प्रयोगः ॥ संवत्सरे संवत्सरे षट्सु षट्सु मासेषु चतुर्षु चतुर्षु ऋतावृतौ मासि मासि वर्षासु वा आश्लेषानक्षत्रे, कर्ता प्रातः कृतनित्यक्रियोऽपां समीपं वल्मीकमूलं वा गत्वा, शुद्धदेशे उपविश्य आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं सर्पबलिं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य, मातृकापूजनं नान्दीश्राद्धञ्च

विधाय, ‘सर्पाः प्रीयन्ताम्’ इति पुण्याहं वाचयेत् ॥ अथ गोमयेन गोमर्चमात्रं चतुरस्रं स्थण्डिलमुपलिप्य, गन्धोदकैर्दूर्वोदकैश्चाभ्युक्ष्य, विविधानि पुष्पाणि सम्प्रकीर्य, यवपिष्टानि श्यामाकपिष्टानि वाऽऽज्येनेक्षुरसेन पक्त्वा, पायसं घृतपक्वौश्चापूपानोदनं धानाः (भर्जितयवाः) सक्तूनि (भर्जितयवपिष्टानि) करम्भान् (आज्येन मिश्रितभर्जितयवसक्तून्) लौकिकाग्नौ पचन्ति । देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, प्राणानायम्य देशकालौ सङ्कीर्त्य,

मम॰सर्पबलिर्होमें करिष्ये, अपूर्वं तंत्रं, पचनो नामाऽऽग्निः, सर्पादयो देवताः, आज्यं हविः, सद्यो यक्ष्ये,

इत्याद्यन्वाधाय, परिसमूह्य पर्युक्ष्य परिस्तीर्याऽज्यं संस्कृत्य स्रुवं सम्मृज्य ‘जुषस्व नः’ इत्याद्यग्निमलंकृत्याऽऽज्येन चतस्रो व्याहृतीर्हुत्वाऽऽज्याहुतीर्जुहोति -

स॒र्पेभ्यः॒ स्वाहा॑ आ॒श्रे॒षाभ्याः॒॰ द॒न्द॒शूके॑भ्यः॰

इति (यथालिङ्गं त्यागः) ततो व्याहृतीर्मिन्दाहुती च हुत्वा होमशेषं समापयेत् ॥ ततः पूर्वोक्तयवपिष्टादीन्येकीकृत्याज्येन सम्मिश्र्य, पूर्वमुपलेपनादिना संस्कृतस्थाण्डिले प्रागग्रेषु दर्भेषु बलिमुपहरति -

नमो अस्तु सर्पेभ्यः

इति तिसृभिः प्रतिमन्त्रम् । अन्ते परिषिच्योपतिष्ठते -

जीर्वरो (उर्वरो) गृहपतिरध्वर्युर्धृतराष्ट्र ऐरावतो ब्रह्मदत्तस्तापसो होता पृथुश्रवा दूरेश्रवा उद्गाता ग्लावश्चाजगरश्च प्रस्तोता प्रतिहर्ता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालकिर्ब्राह्मणाच्छंस्युपनीतिस्तार्क्ष्यस्सदस्यश्शिखातिशिखौ नेष्टापोतारौ वारुणो होताऽच्छावाकश्चक्रः पिशङ्ग आग्नीध्रश्चाहिरो महेयस्सुब्रह्मण्योऽर्बुदो ग्रावस्तुत्साण्ड उन्नेता पशगो ध्रुवगोपः कौस्तुको धुरिमेजयश्च जनमेजयश्च

इति ॥ अथ दिश उपतिष्ठते - पश्चात्प्राङ्मुखस्तिष्ठन्

समीची नामासि॰ वां जम्भे दधामि

इत्युपस्थाय, उत्तरतो दक्षिणाभिमुखस्तिष्ठन् -

ओजस्विनी नामाऽसि॰

इति, पुरस्तात्प्रत्यङ्मुखः -

प्राची नामाऽसि॰,

दक्षिणत उदङ्मुखः –

अवस्थावा नामासि॰,

पश्चादूर्ध्वमुखः -

अधिपत्नी नामासि॰,

तत्रैवाऽधोमुखः -

वशिनी नामासि॰

इति ॥ एवमेव तत्तदभिमुखः -

हेतयो नाम स्थ

इत्यादि षड्भिरुपस्थानं कुर्यात् ॥ अन्ते ‘इदं सर्पेभ्यः’ इति चोपस्थानम् ॥ अथ त्रिवृतान्नेन ब्राह्मणान् सम्पूज्य ‘सर्पाः प्रीयन्ताम्’ इति पुण्याहं वाचयित्वाऽऽशिषो गृह्णीयात् ॥ ॥