५७ महान्यासविधिः

॥ अथ महान्यासविधिः ॥ (बो. गृ. शे. सू. ६.१) अथातः पञ्चाङ्गरुद्राणां न्यासपूर्वकं जपहोमार्चनाभिषेकविधिं व्याख्यास्यामः ॥ ‘या ते रुद्र’ इति शिखायाम् । ‘अस्मिन्महत्यर्णव’ इति शिरसि । ‘सहस्राणि सहस्रश’ इति ललाटे । ‘हँसश्शुचिषत्’ इति भुवोर्मध्ये । ‘त्र्यम्बकं यजामह’ इति नेत्रयोः । ‘नमः स्रुत्याय च’ इति कर्णयोः । ‘मा नस्तोक’ इति नासिकायाम् । ‘अवतत्य’ इति मुखे । नीलग्रीवौ द्वौ कण्ठे । ‘नमस्ते अस्त्वायुधाय’ इति बाह्वोः । ‘या ते हेतिर्’ इत्युपबाह्वोः । ‘ये तीर्थानि’ इति हस्तयोः । ‘सद्यो जातम्’ इत्यादि पञ्चाऽनुवाकान् पञ्चस्वङ्गुलीषु । ‘नमो वः किरिकेभ्य’ इति हृदये । ‘नमो गणेभ्य’ इति पृष्ठे । (नमस्तक्षभ्य इति कक्षयोः) ‘नमो हिरण्यबाहव’ इति पार्श्वयोः । ‘विज्यं धनुर्’ इति जठरे । ‘हिरण्यगर्भ’ इति नाभौ । ‘मीढुष्टम’ इति कट्याम् । ‘ये भूतानामधिपतय’ इति गुह्ये । (ये अन्नेष्वित्यण्डयोः) ‘सशिरा जातवेदा’ इत्यपाने । ‘मा नो महान्तम्’ इत्यूर्वोः । ‘एष ते रुद्रभाग’ इति जान्वोः । ‘सँसृष्टाजित्’ इति जङ्घयोः । ‘विश्वं भूतम्’ इति गुल्फयोः । ‘ये पथाम्’ इति पादयोः । ‘अध्यवोचदाधिवक्ता’ इति कवचम् । ‘नमो बिल्मिने च’ इत्युपकवचम् । ‘नमो अस्तु नीलग्रीवाय’ इति तृतीयं नेत्रम् । ‘प्रमुञ्च धन्वन’ इत्यस्त्रम् । (य एतावन्तश्चेति दिग्बन्धः ।) ‘ॐ नमो भगवते रुद्राय’ इति नमस्कारं न्यसेत् -

ओङ्कारं मूर्ध्नि विन्यस्य नकारं नासिकाग्रतः ।
मोकारन्तु ललाटे वै भकारं मुखमध्यतः ॥
गकारं कण्ठदेशे तु वकारं हृदि विन्यसेत् ।
तेकारं दक्षिणे हस्ते रुकारं वामहस्तके ॥
द्राकारं नाभिदेशे तु यकारं पादयोर्न्यसेत् ।
सद्यश्च पादयोर्न्यस्य वामं न्यस्योरुमध्यतः ॥
अघोरं हृदि विन्यस्य मुखे तत्पुरुषं न्यसेत् ॥
ईशानं मूर्ध्नि विन्यस्य हंसं मन्त्रं समारभेत् ।
हंस हंसेति यो ब्रूयाद्धंसो नाम सदाशिवः ।
एवं न्यासविधिं कृत्वा ततः सम्पुटमारभेत् ॥

त्रातारमिन्द्रं त्वन्नो अग्ने सुगन्नः पन्थामसुन्वन्तं तत्त्वा याम्यानो नियुद्भिर्वयँसोम तमीशानमस्मे रुद्राः स्योना पृथिवीत्येतत्सम्पुटमिन्द्रादीन् दिक्षु1 विन्यसेत् ।

आदौ प्रणवमुच्चार्य व्याहृतीः प्रणवं ततः ।
बीजं मन्त्रं समुच्चार्य मन्त्रान्ते बीजमुच्चरेत् ॥

ततः षोडशधा विभक्तेन विभूरसीत्यनुवाकेन षोडशाङ्गरौद्रीकरणं कुर्यात् ।

शिखायां मस्तके मूर्ध्नि ललाटेऽक्ष्णोश्च कर्णयोः ।
मुखे कण्ठे च बाह्वोश्च हृदि नाभौ कटौ तथा ॥
ऊर्वोर्जान्वोर्जङ्घयोश्च पादयोः षोडश न्यसेत् ।

अथ त्वगस्थिगतैरित्याद्युक्त्वा मनो ज्योतिरबोध्यग्निः (अग्निर्मूर्धा) मूर्धानं मर्माणि ते जातवेदा इति गुह्यनाभि (हृदय) कण्ठमुखशिरांस्यभिमन्त्र्यात्मरक्षा कर्तव्या । शिवसङ्कल्पँहृदयम् (येनेदं येन कर्माणि येन कर्माण्यपसो यत्प्रज्ञानँसुषारथिर्यस्मिन्नृचो यदत्र षष्ठं यज्जाग्रतो येनेदं येनद्यौर्ये मनो हृदयमचिन्त्यमेका च ये पञ्च वेदाहमेतं यस्यैतं धीराः परात्परतरं चैव परात्परतरं ब्रह्म या वेदादिषु यो वै देवं प्रयतः प्रणवो योऽसौ गोभिर्जुष्टं मा नो महान्तं मा नस्तोके गन्धद्वारां विश्वतश्वक्षुरुत त्र्यम्बकँऋतँसत्यं ब्रह्म जज्ञानं यः प्राणतो य आत्मदा कद्रुद्राय कैलास चतुरो वेदान्य इदँशिवसङ्कल्पँषट्त्रिँशत्) पुरुषसूक्तँशिरः । उत्तरनारायणँशिखा । अप्रतिरथं कवचम् । (यावन्तो गृह्या इति नेत्रम्) शतरुद्रीयमित्यस्त्रम् । (अथ पञ्चाङ्गं सकृज्जपित्वा) हिरण्यगर्भो यः प्राणतो ब्रह्म जज्ञानं मही द्यौरुपश्वासयाग्ने नय या ते अग्न इमं यमप्रस्तरमित्यष्टाङ्गं प्रणमेत् ।

उरसा शिरसा दृष्ट्या मनसा वचसा तथा ।
पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाङ्ग उच्यते ।

अथात्मानमित्यादिना ध्यात्वा द्विजः सम्यक्ततो यजनमारभेत् ॥

महान्यासक्रमः ॥

ॐ या ते रुद्र॰ चाकशीहि ॥ शिखायै नमः ॥ १ ॥ अस्मिन्महत्यर्णवे॰ तेषाँ॰ धन्वानि तन्मसि ॥ शिरसे नमः ॥ २ ॥ सहस्राणि सहस्रशो॰ तेषोँ॰ तन्मसि ॥ ललाटाय नमः ॥ ३ ॥ हँ साः॰ ऋतं बृहत् ॥ भ्रुवोर्मध्याय नमः ॥ ४ ॥ त्र्यम्बकं॰ मामृतात् ॥ नेत्राभ्यां नमः ॥ ५ ॥ नमः स्रुत्याय च पथ्याय च ॥ कर्णाभ्यां नमः ॥ ६ ॥ मा नस्तोके॰ नमसा विधेम ते ॥ नासिकायै नमः ॥ ७ ॥ अवतत्य धनुः॰ सुमना भव ॥ मुखाय नमः ॥ ८ ॥ नीलग्रीवाः शितिकण्ठाश्शर्वा॰ तेषाँ॰ ॥ कण्ठाय नमः ॥ ९ ॥ नीलग्रीवाः शितिकण्ठा दिवँ तेषाँ॰ ॥ उपकण्ठाय नमः ॥ १० ॥ नमस्ते अस्त्वायुधाया॰ धन्वने ॥ बाहुभ्यां नमः ॥ ११ ॥ या ते हेतिः॰ परिब्भुज ॥ उपबाहुभ्यां नमः ॥ १२ ॥ ये तीर्थानि॰ तेषाँ॰ ॥ हस्ताभ्यां नमः ॥ १३ ॥ सद्यो जातं॰ भवोद्भवाय नमः ॥ अङ्गुष्ठाभ्यां नमः ॥ (१) ॥ वामदेवाय नमो॰ मनोन्मनाय नमः ॥ तर्जनीभ्यां नमः ॥ (२) ॥ अघोरेभ्योऽथ॰ रुद्ररूपेभ्यः ॥ मध्यमाभ्यां नमः ॥ (३) ॥ तत्पुरुषाय॰ प्रचोदयात् ॥ अनामिकाभ्यां नमः ॥ (४) ॥ ईशानः सर्वविद्यानां॰ सदाशिवोम् ॥ कनिष्ठिकाभ्यां नमः ॥ १४ ॥ नमो वः किरिकेभ्यो देवानाँ हृदयेभ्यः ॥ हृदयाय नमः ॥ १५ ॥ नमो गणेभ्यो गणपतिभ्यश्च वो नमः ॥ पृष्ठाय नमः ॥ १६ ॥ (नमस्तक्षभ्यो रथकारेभ्यश्च वो नमः ॥ कक्षाभ्यां नमः ) ॥ नमो हिरण्यबाहवे सेनान्ये दिशाञ्च पतये नमः ॥ पार्श्वाभ्यां नमः ॥ १७ ॥ विज्यं धनुः॰ निषङ्गथिः ॥ जठराय नमः ॥ १८ ॥ हिरण्यगर्भः समवर्तताग्रे॰ हविषा विधेम ॥ नाभ्यै नमः ॥ १९ ॥ मीढुष्टम॰ बिभ्रदागहि ॥ कट्यै नमः ॥ २० ॥ ये भूतानामधिपतयो॰ तेषाँ॰ ॥ गुह्याय नमः ॥ २१ ॥ (ये अन्नेषु॰ तेषाँ॰ ॥ अण्डाभ्यां नमः ॥) स शिरा जातवेदाः । अक्षरं परमं पदम् । वेदानाँ शिर उत्तमम् । जातवेदसे शिरसी माता । ब्रह्मभूर्भुवस्सुवरोम् ॥ अपानाय नमः ॥ २२ ॥ मा नो महान्तमुत॰ रुद्र रीरिषः ॥ ऊरुभ्यां नमः ॥ २३ ॥ एष ते रुद्र भागः॰ कृत्तिवासाः ॥ जानुभ्यां नमः ॥ २४ ॥ सँ सृष्टजित्सोम॰ बाधमानः ॥ जङ्घाभ्यां नमः ॥ २५ ॥ विश्वं भूतं भुवनं चित्रं॰ रुद्राय नमो अस्तु ॥ गुल्फाभ्यां नमः ॥ २६ ॥ ये पाथां॰ तेषाँ॰ ॥ पादाभ्यां नमः ॥ २७ ॥ अध्यवोचदधिवक्ता॰ यातुधान्यः ॥ कवचाय नमः ॥ २८ ॥ नमो बिल्मिने च कवचिने च ॥ उपकवचाय नमः ॥ २९ ॥ नमो अस्तु नीलग्रीवाय॰ तेभ्योऽकरं नमः ॥ तृतीयनेत्राय नमः ॥ ३० ॥ प्रमुञ्च॰ भगवो वप ॥ अस्त्राय नमः ॥ ३१ ॥ (य एतावन्तश्च॰ तेषाँ॰ ॥ दिग्बन्धाय नमः) ॥ (१) ॥ ॐ मूर्ध्ने नमः ॥ १ ॥ नं नासिकाग्राय॰ ॥ २ ॥ मों ललाटाय॰ ॥ ३ ॥ भं मुखमध्याय॰ ॥ ४ ॥ गं कण्ठाय नमः ॥ ५ ॥ वं हृदयाय॰ ॥ ६ ॥ तें दक्षिणहस्ताय॰ ॥ ७ ॥ रुं वामहस्ताय॰ ॥ ८ ॥ द्रां नाभ्यै॰ ॥ ९ ॥ यं पादाभ्यां॰ ॥ १० ॥ (२)॥ ॥ [[TODO: परिष्कार्यम्]]

सद्यो जातं॰ भवोद्भ वाय नमः ॥ पादाभ्यां॰ ॥ १ ॥ वामदेवाय॰ मनोन्मनाय नमः । ऊरुमध्याय॰ ॥ २ ॥ अघोरेभ्यो॰ रुद्ररूपेभ्यः ॥ हृदयाय॰ ॥ ३ ॥ तत्पुरुषाय॰ प्रचोदयात् ॥ मुखाय॰ ॥ ४ ॥ ईशानः॰ सदाशिवोम् ॥ मर्ध्ने॰ ॥ ५ ॥ (३)॥ ॥ [[TODO: परिष्कार्यम्]]

अस्य श्रीहंसगायत्रीमन्त्रस्य । आत्मा ऋषिः । (अव्यक्त) गायत्री छन्दः। परमात्मा देवता । हंसगायत्रीप्रसादसिध्यर्थे जपे विनियोगः ॥ हं सां अगुष्ठाभ्यां नमः । हं सीं तर्जनीभ्यां नमः । हं सूं मध्यमाभ्यां॰ । हं सैं अनामिकाभ्यां॰ । हं सौं कनिष्ठिकाभ्यां॰ । हं सः करतलकरपृष्ठाभ्यां॰ । हं सां हृदयाय नमः । हं सीं शिरसे स्वाहा । हं सूं शिखायै वषट् । हं सैं कवचाय हुम् । हं सौं नेत्रत्रयाय वौषट् । हं सः अस्त्राय फट् । भूर्भुवः सुवरोमिति दिग्बन्धः ॥

गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरापहारम् ।
पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम्

इति ध्यात्वा । हंसः2 सोऽहं सोऽहं हंसः ॥

हंसहसाय विद्महे परमहंसाय धीमहि । तन्नो हंसः प्रचोदयात् ॥ [[TODO: परिष्कार्यम्]]

इति जपेत् ॥ ॥ अथ सम्पुटीकरणम् ॥ ॐ भूर्भुवस्सुवः । ॐ ॐ त्रातारमिन्द्रं॰ मघवा धात्विन्द्रः ॥ ॐ पूर्वदिग्भागे (ललाटस्थाने) इन्द्राय नमः ॥१॥ ॐ भूर्भुवस्सुवः । ॐ नं त्वन्नो अग्ने वरुणस्य विद्वान्देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाँसि प्रमुमुग्ध्यस्मत् ॥ नं आग्नेयदिग्भागे (नेत्रस्थाने) अग्नये नमः ॥२॥ ॐ भूर्भुवस्सुवः । ॐ मों अप पाप्मानं भरणीर्भरन्तु । तद्यमो राजा भगवान् विचष्टाम् ॥ लोकस्य राजा महतो महान् हि । सुगन्नः पन्थामभयं कृणोतु ॥ यस्मिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यषिञ्चन्त देवाः ॥ तदस्य चित्रँ हविषा यजाम । अप पाप्मानं भरणीर्भरन्तु ॥ मों दक्षिणदिग्भाग (कर्णस्थाने) यमाय नमः ॥३॥ ॐ भूर्भुवस्सुवः । ॐ भं असुन्वन्त॰ निर्ऋते तुभ्य॑मस्तु । भं निर्ऋतिदिग्भागे (मुखस्थाने) निर्ऋतये नमः ॥४॥ ॐ भूर्भुवस्सुवः ॥ ॐ गं तत्वा यामि॰ आयुः प्रमोषीः ॥ गं पश्चिमदिग्भागे (बाहुस्थाने) वरुणाय नमः ॥५॥ ॐ भूर्भुवस्सुवः । ॐ वं आनो नियुद्भिः॰ सदा नः । वं वायव्यदिग्भागे (नासिकास्थाने) वायवे नमः ॥६॥ ॐ भूर्भुवस्सुवः । ॐ तें वयँसोम व्रते तव । मनस्तनूषु बिभ्रतः । प्रजावन्तो अशीमहि ॥ तें उत्तरदिग्भागे (हृदयस्थाने) सोमाय नमः ॥ ॐ भूर्भुवस्सुवः । ॐ रुं तमीशानं जगतस्तस्थुषस्पतिं धियं जिन्वमवसे हूमहे वयम् । पूषानो यथा वेधसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥ रुं ईशानदिग्भागे (नाभिस्थाने) ईशानाय नमः ॥८॥ ॐ भूर्भुवस्सुवः । ॐ द्रां अस्मे रुद्रां॰ अस्माँ अवन्तु देवाः ॥ द्रां ऊर्ध्वदिग्भागे (मूर्ध्निस्थाने) ब्रह्मणे नमः ॥९॥ ॐ भूर्भुवस्सुवः । ॐ यं स्योना पृथिवि॰ सप्रथाः ॥ यं अधोभागे (पादस्थाने) पृथिव्यै नमः ॥१०॥ [[TODO: परिष्कार्यम्]]

अथ षोडशाङ्गरौद्रीकरणम् ॥

ॐ अं विभूरसि प्रवाहणो रौद्रेणानीकेन पाहि माऽग्ने पिपृहि मा मा मा हिँसीः ॥ अं शिखायै नमः ॥१॥ ॐ आं वह्निरसि हव्यवाहनो रौद्रेणा॰ हिँसीः ॥ आं शिरसे नमः ॥२॥ ॐ इं श्वात्रोऽसि प्रचेता रौद्रेणा॰ हिँसीः ॥ इं मूर्ध्ने नमः ॥३॥ ॐ ईं तुथोऽसि विश्ववेदा रौद्रेणा॰ हिँसीः ॥ ईं ललाटाय नमः ॥४॥ ॐ उं उशिगसि कवी रौद्रेणा॰ हिँसीः ॥ उं नेत्राभ्यां नमः ॥५॥ ॐ ऊं अङ्घारिरसि बम्भारी रौद्रेणा॰ हिँसीः ॥ ऊं कर्णाभ्यां नमः ॥६॥ ॐ ऋं अवस्युरसि दुवस्वान्रौद्रेणा॰ हिँसीः ॥ ऋं मुखाय नमः ॥७॥ ॠं शुन्ध्यूरसि मार्जालीयो रौद्रेणा॰ हिँसीः ॥ ॠं कण्ठाय नमः ॥८॥ ॐ लृं सम्राडसि कृशानू रौद्रेणा॰ हिँसीः ॥ लृं बाहुभ्यां नमः ॥९॥ ॐ लॄं परिषद्योऽसि पर्वमानो॰ हिँसीः॥ लॄं हृदयाय नमः ॥१०॥ ॐ एं प्रतक्वासि नभस्वान् रौद्रेणा॰ हिँसीः ॥ एं नाभ्यै नमः ॥११॥ ॐ ऐं असम्मृष्टोऽसि हव्यसूदो रौद्रेणा॰ हिँसीः ॥ ऐं कट्यै नमः ॥१२॥ ॐ ओं ऋतधामासि सुवर्ज्योती रौद्रेणा॰ हिँसीः ॥ ओमूरुभ्यां नमः ॥१३॥ ॐ औं ब्रह्मज्योतिरसि सुवर्धामा रौद्रेणा॰ हिँसीः ॥ औं जानुभ्यां नमः ॥१४॥ ॐ अं अजोऽस्येकपाद्रौद्रेणा॰ हिँसीः ॥ अं जङ्घाभ्यां नमः ॥१५॥ ॐ अः अहिरसि बुध्नियो रौद्रेणा॰ हिँसीः ॥ अः पादाभ्यां नमः ॥१६॥ ॥ [[TODO: परिष्कार्यम्]]

त्वगस्थिगतैस्सर्वपापैः प्रमुच्यते सर्वभूतेष्वपराजितो भवति ततो भूतप्रेतपिशाचब्रह्मराक्षसयक्षयमदूतशाकिनीडाकिनीसर्पश्वपदतस्करज्वराग्रुपद्रवजोपघाताः सर्वे ज्वलन्तं पश्यन्तु माँ रक्षन्तु (मम यजमानँ रक्षन्तु।) ॥ ॥

मनो ज्योतिर्जुषतामाज्यं विच्छिन्नं यज्ञँ समिम दधातु । बृहस्पतिस्तनुतामिमं नो विश्वे देवा इह मादयन्ताम् ॥ गुह्याय नमः ॥१॥ अबोध्यग्निः॰ नाकमच्छ ॥ नाभ्यै नमः ॥२॥ (अग्निर्मूर्धा॰जिन्वति ॥ हृदयाय नमः) मूर्धानं दिवो॰ जनयन्त देवाः ॥ कण्ठाय नमः ॥३॥ मर्माणि ते वर्मभिश्छादयामि सोमस्त्वा राजामृतेनाऽभिवस्ताम् । उरोर्वरीयो वरिवस्ते अस्तु जयन्तन्त्वामनुमदन्तु देवाः ॥ मुखाय नमः ॥४॥ जातवेदा यदि वा पावकोऽसि । वैश्वानरो यदि वा वैद्युतोऽसि । शं प्रजाभ्यो यजमानाय लोकम् । ऊर्जं पुष्टिं दददभ्याऽववृत्स्व ॥ शिरसे नमः ॥५॥(६) [[TODO: परिष्कार्यम्]]

अथ शिवसङ्कल्पः ॥

येनेदं भूतं भुवनं भविष्यत् पारगृहीतममृतेन सर्वम् । येन यज्ञस्त्रायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥१॥ येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारु यन्ति । यत्सम्मितं मनस्सञ्चरन्ति तन्मे मनः॰ ॥२॥ येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति वितथेषु धीराः । यदपूर्वं यक्षमन्तं प्रजानां तन्मे॰ ॥३॥ यत्प्रज्ञानमुत चेतो धृतिश्च यज्योतिरन्तरमृतं प्रजासु । यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे॰ ॥४॥ सुषारथिरश्वानि वयं मनुष्यान्मे नियुते पशुभिर्वाजिनीवान् । हृत्प्रविष्टं यदचरं यविष्ठं तन्मे॰ ॥५॥ यस्मिन्नृचस्साम यजूँषि यस्मिन्प्रतिष्ठा रशनाभाविभाराः । यस्मिँश्चित्तँ सर्वमोतं प्रजानां तन्मे॰ ॥६॥ यदत्र षष्ठं त्रिशतँ सुवीर्यं यज्ञस्य गृह्यं नव नावमाय्यम् । दश पञ्च त्रिँशतं यत्परं तन्मे॰ ॥७॥ यज्जाग्रतो दूरमुदैतु सर्वं तत्सुप्तस्य तथैवेति । दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे॰ ॥८॥ येनेदं विश्वं जगतो बभूव ये देवा विमहसो जातवेदाः । तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदु चन्द्रमास्तन्मे॰ ॥९॥ येन द्यौः पृथिवी चान्तरिक्षञ्च ये पर्वताः प्रदिशो दिशश्च । येनेदं जगद्व्याप्तं प्रजानां तन्मे॰ ॥१०॥ ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः । ये श्रोत्रे चक्षुषी सञ्चरन्तं तन्मे॰ ॥११॥ अचिन्त्यं चाप्रमेयञ्च व्यक्ताऽव्यक्तपरञ्च यत् । सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे॰ ॥१२॥ एका च (दश च) शतञ्च सहस्रञ्चायुतञ्च नियुतञ्च प्रयुतञ्चार्बुदञ्च न्यर्बुदञ्च समुद्रश्च मध्यञ्चाऽन्त्यश्च परार्धश्च तन्मे॰ ॥१३॥ ये पञ्चपञ्चादशशतँसहस्रमयुतन्न्यर्बुदञ्च । ये अग्निचित्तेष्टकास्तँं शरीरं तन्मे॰ ॥१४॥ वेदाहमेतं पुरुषं महान्तम् । आदित्यवर्णं तमसः परस्तात् । यस्य योनिं परिपश्यन्ति धीरास्तन्मे॰ ॥१५॥ यस्यैतं धीराः पुनन्ति कवयो ब्रह्मार्णमेतं त्वावृणतमिन्दुम् । स्थावरं जङ्गमं द्यौराकाशं तन्मे॰ ॥१६॥ परात्परतरञ्चैव तत्पराच्चैव यत्परम् । यत्परात्परतो ज्ञेयं तन्मे॰ ॥१७॥ परात्परतरं ब्रह्मतत्परात्परतो हरिः । यत्परात्परतोऽधीशं तन्मे॰ ॥१८॥ या वेदादिषु गायत्री सर्वव्यापि महेश्वरी । ऋग्यजुस्सामाऽथर्वैश्च तन्मे॰ ॥१९॥ यो वै देवं महादेवं प्रयतः प्रणवः शुचिः । यः सर्वः सर्ववेदैश्च तन्मे॰ ॥२०॥ प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम् । ओङ्कारं प्रणवात्मानं तन्मे॰ ॥२१॥ योऽसौ सर्वेषु वेदेषु पठ्यते ह्ययमाश्वरः । अकार्यो निर्गुणो ह्यात्मा तन्मे॰ ॥२२॥ गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । प्रजया पशुभिः पुष्कराक्षं तन्मे॰ ॥२३॥ मा नो महान्तमुत॰ रीरिषस्तन्मे॰ ॥२४॥ मा नस्तोके॰ नमसा विधेम ते तन्मे॰ ॥२५॥ गन्धद्वारा॰ श्रियं तन्मे॰ ॥२६॥ विश्वतश्चक्षुरुतः॰ देव एकस्तन्मे॰ ॥२७॥ त्र्यम्बकं॰ मामृतात्तन्मे॰ ॥२८॥ ऋतँ सत्यं॰ वै नमो नमस्तन्मे॰ ॥२९॥ ब्रह्म जज्ञानं॰ योनिमसतश्च विवस्तन्मे॰ ॥३०॥ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम तन्मे॰ ॥३१॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य॑ देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे॰ ॥३२॥ कद्रुद्राय॰ हृदे । सर्वोह्येष रुद्रः॰ अस्तु तन्मे॰ ॥३३॥ कैलासशिखरे॰ मोदन्ति तन्मे॰ ॥३४॥ चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः । इतिहासपुराणानि तन्मे॰ ॥३५॥ य इदँ शिवसङ्कल्पँ सदा ध्यायन्ति ब्राह्मणाः । ते परं मोक्षं गमिष्यन्ति तन्मे मनशिवसङ्कल्पमस्तु ॥३६॥ हृदयाय नमः॥ सहस्रशीर्षा पुरुषः॰ साध्यास्सन्ति देवाः ॥ शिरसे स्वाहा ॥ अद्भयस्सम्भूतः॰ सर्वम्मनिषाणा ॥ शिखायै वषट् ॥ ॥ आशुश्शिशानो॰ विश्वाहा शर्म यच्छतु ॥ कवचाय हुम् ॥ यावन्तो गृह्यास्मस्तेभ्यः कर्मकरं पशूनाँशर्मासि शर्म यजमानस्य शर्म मे यच्छैक एव रुद्रो न द्वितीयाय तस्थ आखुस्ते रुद्र पशुस्तं जुषस्वैष ते रुद्र भागस्सह स्वस्राऽम्बिकया तं जुषस्व भेषजं गवेऽश्वाय पुरुषाय भेषजमथो अस्मभ्यं भेषजँ सुभैषजं यथासति । सुगं मेषाय मेष्या अवाम्ब रुद्र मंदिमह्यव देव त्र्यम्बकम् । यथा नश्श्रेयसः करद्यथा नो वस्यसः करद्यथा नः पशुमतः करद्यथा नो व्यवसायात् ॥ त्र्यम्बकं॰ मामृतात् ॥ एष ते रुद्र॰कृत्तिवासाः ॥ नेत्रत्रयाय वौषट् ॥ ॥ त्वमग्ने रुद्रो॰पासि नुत्मना ॥ देवा देवेषु श्रयध्वम् । प्रथमा द्वितीयेषु श्रयध्वम् । द्वितीयास्तृतीयेषु श्रयध्वम् । तृतीयाश्चतुर्थेषु श्रयध्वम् । चतुर्थाः पञ्चमेष श्रयध्वम् । पञ्चमाष्षष्ठेषु श्रयध्वम् ॥१॥ षष्ठास्सप्तमेषु श्रयध्वम् । सप्तमा अष्टमेषु श्रयध्वम् । अष्टमा नवमेषु श्रयध्वम् । नवमा देशमेषु श्रयध्वम् । दशमा एकादशेषु श्रयध्वम् । एकादशा द्वादशेषु श्रयध्वम् । द्वादशास्त्रयोदशेषु श्रयध्वम् । त्रयोदशाश्चतुर्दशेषु श्रयध्वम् । चतुर्दशाः पञ्चदशेषु श्रयध्वम् । पञ्चदशाष्षोडशेषु श्रयध्वम् ॥२॥ षोडशास्सप्तदशेषु श्रयध्वम् । सप्तदशा अष्टादशेषु श्रयध्वम् । अष्टादशा एकान्नविँशेषु श्रयध्वम् । एकान्नविँशा विँशेषु श्रयध्वम् । विँशा एकविँशेषु श्रयध्वम् । एकविँशा द्वाविँशेषु श्रयध्वम् । द्वाविँशास्त्रयोविँशेषु श्रयध्वम् । त्रयोविँशाश्चतुर्विँशेषु श्रयध्वम् । चतुर्विँशाः पञ्चविँशेषु श्रयध्वम् । पञ्चविँशाष्षड्विँशेषु श्रयध्वम् ॥३॥ षड्विँशासप्तविँशेषु श्रयध्वम् । सप्तविँशा अष्टाविँशेषु श्रयध्वम् । अष्टाविँशा एकान्नत्रिँशेषु श्रयध्वम् । एकान्नत्रिँशास्त्रिँशेषु श्रयध्वम् । त्रिँशा एकत्रिँशेषु श्रयध्वम् । एकत्रिँशा द्वात्रिँशेषु श्रयध्वम् । द्वात्रिँशास्त्रयस्त्रिँशेषु श्रयध्वम् । देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिँशाः । उत्तरे भवत । उत्तर वर्त्मान उत्तर सत्वानः । यत्काम इदं जुहोमि । तन्मे समृध्यताम् । वयँ स्याम पतयो रयीणाम् । भूर्भुवस्सुवस्स्वाहा ॥ अस्त्राय फट् ॥ (‘सद्योजातं’ इत्यादि ‘सदाशिवोम्’ इति पञ्चाङ्गं सकृज्जपेत्) ॥ ॥ हिरण्यगर्भः समवर्तताऽग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ उरसा नमः ॥१॥ यः प्राणतो॰ हविषा विधेम ॥ शिरसा नमः ॥२॥ ब्रह्म जज्ञानं॰ मसतश्च विवः ॥ दृष्ट्या नमः ॥३॥ मही द्यौः॰ भरीमभिः ॥ मनसा नमः ॥४॥ उपश्वासय॰ शत्रून् ॥ वचसा नमः ॥५॥ अग्ने नय॰ उक्तिं विधेम । पद्भ्यां नमः ॥६॥ या ते अग्ने रुद्रिया तनूस्तयां नः पाहि तस्यास्ते स्वाहा ॥ कराभ्यां नमः ॥ इमं यम प्रस्तरमाहि॰ मादयस्व ॥ कर्णाभ्यां नमः ॥ ॥ [[TODO: परिष्कार्यम्]]

अथात्मानं शिवात्मानं श्रीरुद्ररूपं ध्यायेत् -

शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ।
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयञ्च वरेण्यमभयप्रदम् ॥
कमण्डल्वक्षसूत्राभ्यामन्वितं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटं शिखामध्योदधारिणम् ॥
वृषस्कन्धसमारूढमुमादेहार्धधारिणम् ।
अमृतेनाऽप्लुतं हृष्टं दिव्यभोगसमन्वितम् ॥
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं तं शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजस्सम्यक्ततो यजनमारभेत् ॥ ॥


  1. अत्र पुनः -

    ‘ललाटे नेत्रयोः कर्णे मुखे बाह्वोश्च नासयोः ।
    हृदि नाभौ मूर्ध्नि पदोर्दशाङ्गेषु न्यसेत्क्रमात्’

    इत्यङ्गेषु च विन्यासे दशाङ्गरौद्रीकरणं भवतीत्यप्युक्तम् ॥ ↩︎

  2. अन्यत्र ‘हंसहंसः परमहंसः सोऽहं हंसः सोऽहं हंसः एवमादिपाठ उपलभ्यते । ↩︎