५६ प्रकारान्तरेण वास्तु-राक्षोघ्नविधिः

प्रकारान्तरेण वास्तुराक्षोध्नविधिः ॥ नारदः -

अथ सौम्यायने कार्यं नववास्तुप्रवेशनम् ।
राज्ञां यात्रानिवृत्तौ वा यद्वा द्वन्द्वप्रवेशनम् ॥
विधाय पूर्वदिवसे वास्तुपूजाबलिक्रियाम् ॥

इति ॥ स च वास्तुपूजाबलिविधिर्नवागारप्रवेशादिषु विधियमानो राक्षोघ्नवास्तुहोमपूर्वकः कार्यः । तत्रायंक्रमः - अथ च नवागारं प्रवेक्ष्यञ्छुभेऽनुकूले दिने वस्त्रादिभिर्वर्धकिं सम्मान्य तत्कराद्गृहं परिगृह्य ततः सितत्रिसूत्र्याऽऽवेष्ट्य सदर्भपल्लवमालया परितः संवेष्ट्य सम्मृष्टसिक्तालङ्कृततोरणध्वजादिमण्डितद्वारस्याष्टमङ्गलजुष्टस्य तस्याऽन्तर्धान्यानि विकीर्य पूर्णकलशं निधाय राक्षोघ्नं प्रजप्य पार्ष्णिघातताळत्रयादिभिर्विघ्नकृद्भूतान्युत्सार्याऽऽग्नेय्यां दिशि राक्षोघ्नहोमं कुर्यात् । तद्विधानमुक्तं प्रयोगमञ्जर्य्याम् -

राक्षोघ्नमग्नेर्दिशि सम्प्रकुर्याद्धोमञ्च कृत्वाऽग्निमुखं यथावत् ।
द्वाभ्यान्तु पक्वं जुहुयाच्च दर्व्यां रक्षोहणं वाजिनमित्युभाभ्याम् ॥
भूयः कृणुष्वादिभिराज्यहोमं होतव्यमष्टादशभिश्च मन्त्रैः ।
तद्वद्विभिन्नैरथ पञ्चभिर्ये देवादिमन्त्रैर्जुहुयात्क्रमेण ॥
दुर्गाभिराज्यं त्वथ पञ्चभिश्च हुत्वा पुनर्व्याहृतिभिः क्रमेण ।
आज्येन हुत्वैवमभीष्टशस्त्रमन्त्रेण होतव्यमतः क्रमेण ॥
भूयोऽप्यपामार्गसमिद्भिराज्यैरन्नैस्तथाज्यैश्शतमाहुर्तानाम् ।
प्रत्येकमष्टोत्तरमित्यमेभिर्तुत्वा पुनस्स्विष्टकृतं यथावत् ॥
समाप्य होमं पुनराज्यशेषं तोयस्य शेष हुतभस्मयुक्तम् ।
युक्तं त्वपामार्गरसैर्गृहं तत्सम्प्रोक्षयेत्तेन निषिच्य पात्रे ॥
कृत्वा राक्षोनमेवं तमथ हुतवहं शर्वकोणे निधाय
प्रोद्दिष्टं शान्तिहोमं गृहकरणविधौ शान्तिदं सम्प्रकुर्यात् ।
पूर्वं संस्कृत्य वह्निं हुतवहमभितः स्थण्डिले पूर्वतोऽग्ने
र्व्रीहिव्रातैः प्रक्लप्ते वसनविरहिते तण्डुलं स्थडिण्ले च ॥
कृत्वा वास्तीर्य वस्त्रं पुनरपि च शमीपर्णदभैः पलाशैः
स्वास्तीर्णैस्तण्डुलाढ्यैर्घटमथ सलिलैः पूर्णमच्छं निधाय ।
शन्नोदेवीरितीमामृचमपि तु वदञ्च्छांतिमावाह्य तस्मिन्
गन्धाद्यैः पूज्यमेवं पुनरपि विधिवत्पूर्वमन्त्रेण शान्तिम् ॥
वास्तोष्पतति मन्त्राभ्यां द्वाभ्यां पक्वंतु होमयेत् ।
षड्भिराज्याहुतीर्तुत्वा वास्तोष्पत्या ध्रुवादिभिः ॥
पञ्चब्रह्मभिराज्येन शन्नोवर्गैश्च होमयेत् ।
शमीमयीश्च समिधो घृतमन्नं पुनर्घृतम् ॥
दूर्वांश्च पञ्चगव्याक्तान्प्रत्येकन्तु शतं शतम् ।
अष्टोत्तरशतं शन्नोमन्त्रेण जुहुयात्पुनः ॥
हुत्वा स्विष्टकृतं समाप्य च नमो रुद्राय मन्त्रेण त
च्छिष्टान्नेन बलिं कुशेषु विकिरेत्सर्वाशनस्याग्रतः ।
साज्यैश्शान्तिजलैश्च भस्मसहितैर्गव्याञ्चितैः प्रोक्षयेत्
त्वं विप्रस्त्वमिति ब्रुवन् गृहमथो पुण्याहमावाचयेत् ॥

अत्र केचित् - त्रिपञ्चाशद्वास्तुदेवताभ्योऽपि होमं कुर्वन्ति । तन्त्रराजे -

प्रत्येकन्तु हुनेत्कुण्डे चतुरश्रेन्द्रदिङ्मुखः ।
व्रीहिमुद्गयवक्षौद्रघृतदुग्धाप्लुतैः क्रमात् ॥
अष्टोत्तरशतश्चाष्टोत्तरं विंशतिमेव वा ।
प्रत्येक तैर्हुनेन्मन्त्रैर्द्रव्यैस्तद्वच्च पायसैः ॥
हुनेत्क्रमेण ताराद्यैस्स्वाहान्तैर्नामभिस्स्वकैः ॥
होमान्ते वास्तुदेशेऽथ पूजयेद्वास्तुदेवताः ।
बलिञ्च तेषां कुर्वीत पायसैर्व्यञ्जनान्वितैः ॥
ससितैर्मुद्गकदळीफलाऽपूपादिसंयुतम् ।
क्रमेण मन्त्रैस्ताराद्यैर्नमोन्तैर्नामभिस्स्वकैः ॥

वास्तुदेवतापूजार्थं गृहमध्ये स्थण्डिले मण्डलमेकाशीतिपदं कार्यम् -

एकाशीतिपदं लेख्यं वास्तुमध्ये तु पिष्टकैः ।
हस्तमात्रा लिखेद्रेखा दशपूर्वा दशोत्तराः ।
गृहमध्ये तण्डुलोपर्येकाशीतिपदं भवेत् ॥
मध्ये पदानां नवकं मार्जयित्वा प्रपूरयेत् ।
सितेन रजसा भूयस्ताद्दिक्षु चतसृष्वपि ॥
षट्कं सम्मार्ज्य रजसा रक्तेन परिपूरयेत् ।
कोणस्थान् श्यामरक्ताभ्यां तत्पार्श्वस्थान् सितेन च ॥
कृष्णरक्तसितश्यामपीतश्वेतासितारुणैः ॥
विचित्राणि ततस्तेषु पूजयेद्वास्तुदेवताः ॥
ब्रह्माणमर्चयेन्मध्ये दिक्षु प्रागादि तद्बहिः ।
आर्यकञ्च विवस्वन्तं क्रमान्मित्रं महीधरम् ॥
सावित्रस्सविता चेन्द्रस्तज्जयौ रुद्रतज्जयौ ।
आपाऽऽपवत्सावग्न्यादिकोणेष्वर्च्यास्तु युग्मशः ॥
तत्कोणपार्श्वकोष्ठेषु वह्न्यादीशान्तमर्चयेत् ।
शर्वं गुहञ्चार्यमणं जृम्भकं पिलिपिञ्चकम् ॥
चरकीञ्च विदारीञ्च पूतनाञ्च प्रदक्षिणम् ।
ईशादिपरितो बाह्येष्वष्टावष्टौ दिशांपतीन् ॥
ईशानाश्चाथ पर्जन्यो जयन्तश्शुक्रभास्करौ ।
सत्यौ भृशोऽन्तरिक्षञ्च पूर्वदिक्कोष्ठगा इमाः ॥
अग्निः पूषाऽथ वितथो यमोऽथ गृहरक्षकः ।
गन्धर्वो भृङ्गराजश्च मृगा दक्षिणदिग्गतः ॥
निर्ऋतिर्दौवारिकश्चैव सुग्रीवो वरुणस्तथा ।
पुष्पदताऽसुरौ शोषरोगौ प्रत्यग्दिगाश्रिताः ॥
वायुर्नागस्तथा मुख्यस्सोमो भल्लाट एव च ।
अर्गलाख्या दितिस्तद्वददितिस्सौम्य दिग्गताः ॥

प्रयोगः

अथ प्रयोगः ॥ कर्ता सपत्नीको दर्भेष्वासीनो दर्भान्धारयमाणः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

भूखनन-दारुच्छेदन-पाषाणभेदनादिना जनितसमस्तदोषपरिहारार्थं, सकलभूत-प्रेत-पिशाचादिबाधानिवारणार्थं, मम सकुटुम्बस्य सपरिवारस्य समस्तसङ्कटनानाविधरोगक्लेशदुःखविघ्नोपशमनपूर्वकं अस्मिन्वास्तौ चिरकालसुखनिवाससिध्यर्थं, आयुरारोग्यपुत्रपौत्रधनधान्यसमृध्यर्थं राक्षोनहोमपूर्वकं वास्तुहोमं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य, मातृकापूजननान्दीसमाराधनपुण्याहवाचनानि कृत्वा, आचार्यादिऋत्विजो वृत्वाऽर्हयित्वाऽगारशुध्यर्थं ब्रह्मकूर्चहवनं कुर्यात् ॥ सायाह्नेनित्यकर्म निर्वर्त्य गणपतिं सम्पूज्य शिल्पिहस्ताद्गृहं स्वीकुर्यात्, तद्यथा - आदावष्टदलपद्मे व्रीहिभिर्यवैर्वा निर्मिते स्थण्डिले शिल्पिशस्त्राणि संस्थाप्य वस्त्रेणाच्छाद्य षोडशोपचारैः सम्पूज्य प्रार्थयेत् -

स्फ्यः स्वस्तिर्विधनः स्वस्तिः पशुर्वेदिः परशुर्नः स्वस्तिः । यज्ञिया यज्ञकृतः स्थ ते माऽस्मिन्यज्ञ उपह्वयध्वम् [[TODO: परिष्कार्यम्]]

इति ॥ पूजां समर्प्य शिल्पिनं प्रति यजमानः -

दार्वादिनिर्मितं गेहं दृढं सौम्यं त्वया कृतम् ।
देहि मे शिल्पिशार्दूल गृहमधीयकर्मणे

इति ॥ अथ शिल्पिः -

गृहमेधीयजं पुण्यं दशांशं देहि मे विभो ।
तद्गृहीत्वा मुदा गेहं प्रदास्यामि द्विजोत्तम ॥

पुनर्यजमानः -

गृहमेधीयजं पुण्यं न दास्यामि कदा च न ।
धनं रत्नादिकं तुभ्यं दास्याम्यालयकारक ॥

पुनः शिल्पिः -

कृच्छ्रेण निर्मितं गेहं दृढं सौम्यं मनोहरम् ।
गृहमेधीयकर्मार्थं दास्ये तेऽहं सुतोषतः

इति ॥ ततः शिल्पिनं वस्त्रताम्बूलादिना सन्तोष्य तद्धस्ताच्छ्रीसूक्तमुच्चरन् गृहं परिगृह्णीयात् ॥ ततः सप्तशुद्धिं कुर्यात् ॥

सप्तशुद्धिः -

खननं हरणं दाहः पूरण गोनिवासनम् ।
विप्रोच्छिष्टं पञ्चगव्यं सप्तैताः स्थानशुद्धयः ॥

खादिरं खनित्रं पञ्चोपचारैः सम्पूज्य

ॐ मावो रिषत्खनिता॰ तुरम्

इति खात्वा,

ॐ आ नो नियुद्भिः॰ सदा नः

इति मन्त्रेण तत्पांसु हृत्वा नैर्ऋत्यां दिशि निरस्याऽप उपस्पृश्य, दर्भादिभिः

अग्निनाग्निः समिध्यते॰ जुह्वास्यः

तद्गर्तं सन्दह्य, पूर्ववत्तद्भस्म नैर्ऋत्यां निरस्याऽप उपस्पृश्य, शुद्धमृत्तिकाभिः

पृष्टो दिवि पृष्टो॰ पातु नक्तम्

इति मन्त्रेण तद्गर्तं पूरयित्वा,

ॐ शन्नो देवीः॰ नः

इति जलमासिच्य,

ॐ ध्रुवा द्यौः॰मयम्

इति दृढीकुर्यात् ॥ अथ गोसूक्तं पठन्नवागारे सर्वत्र गां चारयित्वा सम्पूज्य ग्रासं दद्यात् ॥ ततो यथोपलब्धेनान्नेन

ॐ अहं मेघस्तनयन्॰ तपन्ति

इति मन्त्रेण ब्राह्मणान्सम्भोज्य

ॐ शुची वो हव्या॰ पावकाः

इति पञ्चगव्येन प्रोक्षेत् ॥ एवं स्थानशुद्धिं विधाय

रक्षोहाग्निः प्रीयताम्, वास्तोष्पतिः प्रीयताम्

इति पुण्याहं वाचयित्वा उदकशान्तिप्रतिसरबन्धौ कृत्वा गृहस्याऽऽग्नेय्यां दिशि राक्षोध्नहोमं कुर्यात् ॥

राक्षोध्नहोमः ॥ आचम्य प्राणानायम्य देशकालौ संकीर्त्य स्थण्डिलोल्लेखनादि लौकिकाग्निं प्रतिष्ठाप्य ॥ भूखननदारुच्छेदनपाषाणभेदनादिभिर्जनितसमस्तदोषपरिहारार्थं भूतप्रेतपिशाचरक्षोबाधानिवारणार्थं राक्षोघ्नहोमं करिष्ये, राक्षोन्नहोमः कर्म, आघारमापूर्विकं वा तन्त्रं, पञ्चदश चतस्रो वा सामिधेन्यः, अग्नीषोमावाज्यभागौ, वरदो नामाऽग्निः, रक्षोहाग्निर्देवता, चरुर्हविः, उपहोमे - ‘कृणुष्व पाजः॰’ इत्यष्टादशमन्त्रैः, ‘ये देवाः पुरस्सदः॰’ इत्यादिपञ्चमन्त्रैः, ‘जातवेदसे॰’ इत्यादि पञ्चदुर्गामन्त्रैः, भूरादिव्याहृतिभिश्चाज्येन मन्त्रसङ्ख्या, अपामार्गसमिदाज्यचर्वाज्यैरघोरास्त्रेण प्रत्येकं १०८ सङ्ख्याकाहुतिभिर्यक्ष्ये, ‘अग्निः स्विष्टकृत्’ इत्यादि सङ्कल्प्याऽन्वादध्यात् ॥ निर्वापकाले -

ॐ देवस्य त्वा॰ अग्नये रक्षाघ्ने जुष्टं निर्वपामि

इति निरुप्य

ॐ देवस्य त्वा॰ अग्नये रक्षाघ्ने वो जुष्टं प्रोक्षामि

इति प्रोक्ष्य प्रतिष्ठिताभिधारणान्तं कुर्यात् ॥ अथाचार्यो देशकालौ सङ्कीर्त्य

भूखनन॰ परिहारार्थं राक्षोघ्नहोमाङ्गतया विहितं कलशस्थापनपूर्वकदेवताऽऽवाहनं पूजनञ्च करिष्ये,

इति सङ्कल्प्य । अग्नेरशिान्यभागेऽदलपद्मं विलिख्य शरीरशुध्यर्थं भूशुध्यादिन्यासान्विधाय कशलपूजनं शङ्खाराधनञ्च कृत्वा

यत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः ।
स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ॥
भूतप्रेतपिशाचाद्या अपक्रामन्तु राक्षसाः ।
स्थानादस्माद्व्रजन्त्वन्यत्स्वीकरोमि भुवन्त्विमाम्

इति गौरसर्षपान् विकीर्य भूमौ प्रादेशं कृत्वा,

देवा आयान्तु, यातुधाना अपयान्तु, विष्णो देवयजनं रक्षस्व

भद्रं कर्णेभिः॰, स्वस्ति न इन्द्रः॰

इति मन्त्रद्वयं पठेत् ॥ अथ ‘मही द्यौः’ इत्यादि विधिवत् कलशं प्रतिष्ठाप्य वरुणं सम्पूज्य

रक्षोहणं वाजिनं॰, विज्योतिषा॰

इति द्वाभ्यां रक्षोहणमग्निमावाह्य षोडशोपचारैरभ्यर्चयेत् । तत ऋत्विजो राक्षोघ्नमन्त्राञ्जपेयुः ॥ ‘जुषस्व नः’ इत्याद्यग्निमुखान्तं कृत्वा पक्काज्जुहोति -

रक्षोहणं वाजिनं॰ विज्योतिषा॰

इति द्वाभ्यां (रक्षोघ्नेऽग्नय इदं) ॥ ततः स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति - ‘कृणुष्व पाजः॰’ इत्याद्यष्टादशमन्त्रैः (सर्वत्र, अग्नये रक्षोघ्न इदं॰)

ॐ ये देवाः पुरःसदोऽग्निनेत्रा रक्षोहणस्ते नः पान्तु तेनोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा समूढँ रक्षः सन्दग्धँ रक्षं इदमहँ रक्षोऽभिसन्दहाम्यग्नये रक्षोघ्ने स्वाहा, (अग्नये रक्षोघ्न इदं॰) ॥१॥ ये देवा दक्षिणसदो यमनेत्रा रक्षोहणस्ते नः॰ रक्षोऽभिसन्दहामि यमाय रक्षोध्ने स्वाहा, (यमाय रक्षोघ्न इदं॰)॥२॥ ये देवाः पश्चात्सदः सवितृनेत्रा रक्षोहणस्ते नः॰ सन्दहामि सवित्रे रक्षोघ्ने स्वाहा, (सवित्रे रक्षोघ्न इदं॰) ॥३॥ ये देवा उत्तरसदो वरुणनेत्रा रक्षोहणस्ते नः॰ सन्दहामि वरुणाय रक्षोघ्ने स्वाहा, (वरुणाय रक्षोध्न इदं॰) ॥४॥ ये देवा उपरिषदो बृहस्पति नेत्रा रक्षोहणस्ते नः॰ सन्दहामि बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा, (बृहस्पतये दुवस्वते रक्षोघ्न इदं॰) ॥५॥ [[TODO: परिष्कार्यम्]]

इति ॥ ततः पञ्चदुर्गामन्त्रैः (सर्वत्र, दुर्गाया इदं॰) भूरादिव्याहृतिभिश्चाज्येन हुत्वाऽघोरास्त्रेणाऽपामार्गसमिदाज्यचर्वाज्यैः प्रत्येकं १०८ वारं हुत्वा स्विष्टकृदादिहोमशेषं समायाऽऽज्यशेषमुदकशेषमपामार्गरसं हुतभस्म च सम्मिश्र्य पलाशशाखयाऽपामार्गशाखयाऽश्वत्थशाखया दर्भमुष्टिना वा राक्षोघ्नमन्त्रैर्गृहं परितः प्रोक्षेत् ॥

अथ वास्तुहोमः ॥ गृहस्येशान्यदिग्भागे स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्याग्रेणाऽग्निं1 - अष्टदलपमद्वयं विलिख्य तत्र प्राग्दशमुदग्दशं वा द्विगुणं वस्त्रमास्तीर्य व्रीहितण्डुलान्निक्षिप्य, शमीपर्ण-पलाश-दर्भराच्छाद्य, तत्र क्रमेण तण्डुलपूर्णं जलपूर्णमेवं कलशद्वयं प्रतिष्ठाप्य, तयोर्दूर्वाशमीपलाशपर्णानि निक्षिप्य, प्रत्येकं वस्त्रद्वयेनावेष्ट्य, वरुणमावाह्य, सम्पूज्य, तदुपरि वास्तुप्रतिमां विन्यस्य

शन्नो देवीः

इति मन्त्रेण वास्तोष्पतिमावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ तदुत्तरे एकाशीतिपदात्मकं वास्तुमण्डलं विलिखेत् ॥ तद्यथा - पश्चादारभ्य प्रागायतोदक्संस्था अङ्गुद्वयान्तराला दशरेखा लिखित्वा, दक्षिणमारभ्योदगायताः प्राक्संस्था अङ्गुलद्वयान्तराला दशरेखा विलिखेत् ॥ एवं एकाशीतिपदात्मकं वास्तुमण्डलं विलिख्य प्राग्दशमुदग्दशं वा द्विगुणं वस्त्रमास्तीर्य, व्रीहितण्डुलान्निक्षिप्य तदुपरि (त्रिपञ्चाशत्कलशान्प्रतिष्ठाप्य) ‘मही द्यौः’ इति वरुणं सम्पूज्य क्रमेणावाहयेत् ॥ मध्ये नवपदे - ॐ भूर्भुवस्सुवः ब्रह्मणे नमः ब्रह्माणमावाहयामि ॥१॥ एवमेव - तत्पूर्वषट्पदे - आर्यकाय॰ आर्यकं॰ ॥२॥ दक्षिणषट्पदे - विवस्वते॰ विवस्वन्तं॰ ॥३॥ पश्चिमषट्पदे - मित्राय॰ मित्रं॰ ॥४॥ उत्तरषट्पदे - महीधराय॰ महीधरं॰ ॥५॥ ततो ब्रह्मण आग्नेय्यामेकपदे - सावित्राय॰ सावित्रं॰ ॥६॥ तदाग्नेय्यां - सवित्रे॰ सवितारं॰ ॥७॥ ब्रह्मणो नैर्ऋत्यामेकपदे - इन्द्राय॰ इन्द्रं॰ ॥८॥ तन्नैर्ऋत्यामेकपदे - इन्द्रजयाय॰ इन्द्रजयं॰ ॥९॥ ब्रह्मणो वायव्यैकपदे - रुद्राय॰ रुद्रं॰ ॥१०॥ तद्वायव्यामेकपदे - रुद्रजयाय॰ रुद्रजयं॰ ॥११॥ ब्रह्मण ईशान्यामेकपदे - आपाय॰ आपं॰ ॥१२॥ तदीशान्यामेकपदे - आपवत्साय॰ आपवत्सं॰॥१३॥ सावित्रस्य पुरस्तादेकपदे - शर्वाय॰ शर्वं॰ ॥१४॥ सावित्रस्य दक्षिणैकपदे - गुहाय॰ गुहं॰ ॥१५॥ इन्द्रस्य दक्षिणैकपदे - अर्यम्णे॰ अर्यमणं॰ ॥१६॥ इन्द्रस्य पश्चिमैकपदे - जृम्भकाय॰ जृम्भकं॰ ॥१७॥ रुद्रस्य पश्चादेकपदे - पिलिपिञ्छकाय॰ पिलिपिञ्छकं॰ ॥१८॥ रुद्रस्योत्तरैकपदे - चरक्यै॰ चरकीं॰ ॥१९॥ आपस्योत्तरैकपदे - विदार्यै॰ विदारीं॰ ॥२०॥ आपस्य पुरस्तादेकपदे - पूतनायै॰ पूतनां॰ ॥२१॥ बाह्ये ईशान्यादि परितः प्रादक्षिण्येनैकैकपदे कमेणावाहयेत् - ईशानाय॰ ईशानं॰ ॥२२॥ पर्जन्याय॰ पर्जन्यं॰ ॥२३॥ जयन्ताय॰ जयन्तंं ॥२४॥ शक्राय॰ शक्रं॰ ॥२५॥ भास्कराय॰ भास्करं॰ ॥२६॥ सत्याय॰ सत्यं॰ ॥२७॥ भृशाय॰ भृशं॰ ॥२८॥ अन्तरिक्षाय॰ अन्तरिक्षं॰ ॥२९॥ अग्नये॰ अग्निं॰ ॥३०॥ पूष्णे॰ पूषणं॰ ॥३१॥ वितथाय॰ वितथं॰ ॥३२॥ यमाय॰ यमं॰ ॥३३॥ गृहरक्षकाय॰ गृहरक्षकं॰ ॥३४॥ गन्धर्वाय॰ गन्धर्वं॰ ॥३५॥ भृङ्गराजाय॰ भृङ्गराजं॰ ॥३६॥ मृगाय॰ मृगं॰ ॥३७॥ निर्ऋतये॰ निरृतिं॰ ॥३८॥ दौवारिकाय॰ दौवारिकं॰ ॥३९॥ सुग्रीवाय॰ सुग्रीवं॰ ॥४०॥ वरुणाय॰ वरुणं॰ ॥४१॥ पुष्पदन्ताय॰ पुष्पदन्तं॰ ॥४२॥ असुराय॰ असुरं॰ ॥४३॥ शोषाय॰ शोषं॰ ॥४४॥ रोगाय॰ रोगं॰ ॥४५॥ वायवे॰ वायुं॰ ॥४६॥ नागाय॰ नागं॰ ॥१७॥ मुख्याय॰ मुख्यं॰ ॥४८॥ सोमाय॰ सोमं॰ ॥४९॥ भल्लाटाय॰ भलाटं॰ ॥५०॥ अर्गलाय॰ अर्गलं॰ ॥५१॥ दित्यै॰ दितिं॰ ॥५२॥ अदित्यै॰ अदितिं॰ ॥५३॥

इत्यावाह्य षोडशोपचारपूजां कुर्यात् ॥ ततः प्राणानायम्य देशकालो सङ्कीर्त्य, सपरिवारस्य यजमानस्य सर्वसङ्कटनानाविधरोगक्लेशबन्धुजनक्षयदुःखरक्षोविध्नोपशमनसम्पदारोग्यपुत्रपौत्रादिधनधान्यसमृद्धिचिरजीवनस्वनिवाससिद्धिद्वाराऽस्मिन्वास्तौ शुभतासिध्यर्थं (ग्रहमखपूर्वकं) वास्तुहोमं करिष्ये॰ वरदो नामाऽग्निः, वास्तोष्पतिर्देवता, चरुर्हविः उपहोमे -

वास्तोष्पते ध्रुवा स्थूणां॰

इत्यादि षण्मन्त्रैः ‘सद्योजातम्’ इत्यादि पञ्चमन्त्रैः शन्नसूक्तेन चाऽऽज्येन, ‘शन्नो देवीः॰’ इति मन्त्रेण शमीसमिदाज्यचर्वाज्यपञ्चगव्याप्लुताभिः, प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, ब्रह्मादित्रिपञ्चाशद्देवतानामन्त्रैर्मध्वाज्यदुग्धाप्लुतव्रीहिमुद्गयवैः पायसेन च प्रतिद्रव्यमष्टोत्तरशताष्टाविंशत्यष्टान्यतमसङ्ख्याकाहुतिभिर्यक्ष्ये, ‘अग्निः स्विष्टकृत्’ इत्यादि सङ्कल्प्यान्वाधाय, वास्तोष्पतये चरुं निरुप्य प्रोक्ष्याऽग्निमुखान्तं कृत्वा पक्काज्जुहोति -

वास्तोष्पते प्रतिजानीहि॰ वास्तोष्पते शग्मया॰

इति द्वाभ्यां (वास्तोष्पतय इदं॰)। स्विष्टकृतमवदायान्तःपरिधौ निधायाऽथाज्याहुतीरुपजुहोति -

वास्तोष्पते ध्रुवा स्थूणां॰

इत्यादिषण्मन्त्रैः, ‘सद्योजातम्’ इत्यादि पञ्चमन्त्रैः,

ॐ शन्न इन्द्राग्नी भवतामवोभिः शन्न इन्द्रावरुणा रातहव्या । शमिन्द्रासोमा सुविताय शं योः शन्न इन्द्रापूषणा वाजसातौ स्वाहा ॥१॥ (सर्वत्र, विश्वेभ्यो देवेभ्य इदं॰) शन्नो भगः शमु नः शंसो अस्तु शन्नः पुरन्धिः शमु सन्तु रायः । शन्नः सत्यस्य सुयमस्य शंसः शन्नो अर्यमा पुरुजातो अस्तु स्वाहा ॥२॥ शन्नो धाता शमु धर्ता नो अस्तु शन्न उरूची भवतु स्वधाभिः । शं रोदसी बृहती शन्नो अद्रिः शन्नो देवानां सुहवानि सन्तु स्वाहा ॥३॥ शन्नो अग्निर्ज्योतिरनीको अस्तु शन्नो मित्रावरुणावश्विना शम् । शन्नः सुकृता सुकृतानि सन्तु शन्न इषिरो अभि वातु वातः स्वाहा ॥४॥ शन्नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु । शन्न ओषधीर्वनिनो भवन्तु शन्नो रजसस्पतिरस्तु जिष्णुः स्वाहा ॥५॥ शन्न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः । शन्नो रुद्रो रुद्रेभिर्जलाषः शन्नस्त्वष्टा ग्निभिरिह शृणोतु स्वाहा ॥६॥ शन्नः सोमो भवतु ब्रह्म शन्नः शन्नो ग्रावाणः शमु सन्तु यज्ञाः । शन्नः स्वरणां मितयो भवन्तु शन्नः प्रस्वः शम्वस्तु वेदिः स्वाहा ॥७॥ शन्नः सूर्य उरुचक्षा उदेतु शन्नश्चतस्रः प्रदिशो भवन्तु । शन्नः पर्वता ध्रुवयो भवन्तु शम्नः सिन्धवः शर्मु सन्त्वापः स्वाहा ॥८॥ शन्नो अदितिर्भवतु व्रतेभिः शन्नो भवन्तु मरुतः स्वर्काः । शन्नो विष्णुः शमु पूषा नो अस्तु शन्नो भवित्रं शम्वस्तु वायुः स्वाहा ॥९॥ शन्नो देवः सविता त्रायमाणः शन्नो भवन्तूषसो विभातीः । शन्नः पर्जन्यो भवतु प्रजाभ्यः शन्नः क्षेत्रस्य पतिरस्तु शम्भुः स्वाहा ॥ १०॥ शन्नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु । शमभिषाचः शमु रातिषाचः शन्नो दिव्याः पार्थिवाः शन्नो अप्याः स्वाहा ॥११॥ शन्नः सत्यस्य पतयो भवन्तु शन्नो अर्वन्तः शमु सन्तु गावः । शन्न ऋभवः सुकृतः सुहस्ताः शन्नो भवन्तु पितरो हवेषु स्वाहा ॥१२॥ शन्नो अजएकपाद्देवो अस्तु शन्नोऽहिर्बुध्न्य शं समुद्रः । शन्नो अपान्नपात्पेरुरस्तु शन्नः पृश्निर्भवतु देवगोपा स्वाहा ॥१३॥ आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः । शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः स्वाहा ॥१४॥ ये देवानां यज्ञिया यज्ञियानां मनोर्घजत्रा अमृता ऋतज्ञाः । ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः स्वाहा ॥१५॥ [[TODO: परिष्कार्यम्]]

इति शन्नसूक्तेन च हुत्वा, ‘शन्नो देवीः॰’ इति मन्त्रेण शमीसमिदाज्यचर्वाज्यपञ्चगव्याप्लुतदूर्वाभिः, तथा ब्रह्मादित्रिपञ्चाशद्देवतानाममन्त्रैः मध्वाज्यदुग्धाप्लुतव्रीहिमुद्गयवैः पायसेन च हुत्वा स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निं दर्भस्तम्वेषु हुतशेषं निदधाति –

ॐ नमो रुद्राय वास्तोष्पतये॰

इति ॥ ततो ब्रह्मादित्रिपञ्चाशद्देवताभ्यस्तत्तन्नाममन्त्रैः कदलीदुग्धाऽपूपतिलादिमिश्रपायसेन (सग्रहमखपक्षे - ग्रहदेवताभ्यः) दिक्पालक्षेत्रपालदेवताभ्यश्च सदीपबलीन्दद्यात् ॥ ततो वास्तुदेवताः प्रार्थयेत् -

वास्तुपुरुष नमस्तेऽस्तु भूशय्यानिरत प्रभो ।
मद्गृहे धनधान्यादिसमृद्धिं कुरु सर्वदा ॥१॥
पूजितोऽसि मया वास्तो होमाद्यैरर्चनैः शुभैः ।
प्रसीद पाहि विश्वेश देहि मे गृहजं सुखम् ॥२॥
दैविकं मानुषं यद्यत्साध्वसं समुपस्थितम् ।
अपनुद्य च तत्सर्वं त्वन्नः शान्तिं कुरु प्रभो ॥३॥
भयं प्रवर्तते यद्यद्द्विपदाञ्च चतुष्पदाम् ।
रक्षोभूतपिशाचेभ्यस्तन्नुइस्व ददस्व शम् ॥४॥
राजाऽरितस्कराऽग्न्यम्बुशस्त्रशृङ्गविषादिभिः ।
भयं यद्यत्समायाति तन्नुदस्व ददस्व शम् ॥५॥
मारीमसूरिकाराजयक्ष्मादिभ्यो महद्भयम् ।
कदाचिन्न प्रबाध्येत श्रीः सन्तिष्ठतु मद्गृहे ॥६॥
कदाचित्कलहोऽलक्ष्मीरनृतं पौरुषन्त्वधन् ।
गृहे मे न प्रवर्तेत विजयः श्रीश्च तिष्ठतु ॥७॥
शान्तिं पुष्टिञ्च तुष्टिञ्च वृद्धिमायुर्यशः श्रियम् ।
धनधान्यसुखारोग्यं ददस्व सततं मम ॥८॥
नियन्ता जगतो ब्रह्मा वास्तुरूपेण संस्थितः ।
दद्याच्च सुखमारोग्यं धनं धान्यं यशः श्रियम् ॥९॥
वसन्तु मद्गृहे नित्यं ब्रह्माद्या वास्तुदेवताः ।
ताः सर्वा वरदाः प्रीता शं कुर्वन्तु सदा मम ॥१०॥

इति ॥ उत्तरपरिषेकादि होमशेषं समाप्य स्थालीसङ्क्षाळनमाज्यशेषमुदकशेषं पंचगव्यं हुतभस्म च पात्र्यां समानीयौदुम्बरशाखया पलाशशाखया शमीशाखया दर्भमुष्टिना वा गृहं सर्वतः पर्युक्षन्त्रिः प्रदक्षिणं पर्येति -

त्वं विप्रस्त्वं कविस्त्वं विश्वा रूपाणि धारयन् ।
अपजन्यं भयं नुद

इति ॥ तत आचार्यादयः सपत्नीकं यजमानं सुरभिमत्याऽब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमानीभिर्व्याहृतीभिः ‘सुरास्त्वां०’ इत्यादि पौराणमन्त्रैश्च शान्तिकलशेनाभिषिच्य सर्वौषधीननुलिप्य स्नापयेयुः ॥ ततश्चूतपल्लवाश्वत्थपल्लवालङ्कृतां दर्भरुज्जुमादाय राक्षोनसूक्तेन पवमानसूक्तेन च गृहमीशान्यादारभ्येशानपर्यन्तं वेश्येत् ॥ ॥ खादिराऽर्जुनशाल-युगपत्र-रक्तचन्दन-पलाश-रक्तशाल-विशालाऽन्यतमवृक्षनिर्मितं चतुर्विंशति-त्रयोविंशति-विंशति-षोडशान्यतमाङ्गुलप्रमाणं शङ्कुं गन्धादिभिरभ्यर्च्य वास्तौ कुक्षिस्थाने ईशान्यदेशे वाऽवटं खात्वा संस्थाप्य दृढीकृत्य पुनर्गन्धादिभिः सम्पूज्य प्रार्थयेत् -

सशैलसागरां पृथ्वीं यथावहसि मूर्धनि ।
तथा मां वह कल्याण सम्पत्सन्ततिभिः सह

इति ॥ ततः शुभे मुहूर्ते पूर्वोक्तप्रकारेण नवागारप्रवेशं कृत्वा आचार्यादीन्सम्पूज्य सवत्सामलङ्कृतां गां वासोयुगञ्चाचार्याय ब्रह्मणेऽनड्वाहं सदस्यायाश्वं वासोयुगञ्चान्येभ्यो ऋत्विग्भ्यः ब्रह्मादिप्रीतये काञ्चनं ब्रह्मपीतये धेनुं यथाशक्ति दक्षिणाश्च दत्वा ब्राह्मणान् भोजयित्वाऽऽशिषो गृह्णीयात् ॥


  1. सग्रहमखे-ग्रहमण्डलं, तदुत्तरतः पश्चिमपूर्वक्रमेणाष्टदलपद्मयुगलं, तदुत्तरतः एकाशीतिपदात्मकं वास्तुमण्डलञ्च विलिखेत् ॥ ↩︎