नवागारप्रवेशः ॥ एवं वास्तुशान्तिं विधाय कृतशुक्लवस्त्रपरिधानो यजमानः शुभे मुहूर्ते गृहद्वार्युपविश्य देहल्यां गणपतिं लक्ष्मी क्षेत्रपालं गृहवास्तुं च सम्पूज्य द्विजवरानग्रतः कृत्वा, पत्न्या दध्यक्षतयुक्तं गन्धपुष्पाम्रपल्लवफलोपेतं जलपूर्णकुम्भं केनचिदन्येन धान्यमूतकं वस्त्राणि द्रव्यञ्च ग्राहयित्वा स्वयं गृहदेवतापात्रं गृहीत्वा दीपकलशहस्ताभिः सुवासिनीभिः सहितः
स्वस्ति नो मिमीतां
इत्यादि स्वस्तिमन्त्रपठनपरैर्द्विजैः सह मङ्गलवाद्यघोषपुरस्सरं गृहं प्रविशेत् -
भद्रान्गृहान् सुमनसः॰ संविशानि
इति ॥ तत आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
कृतनूतनागारप्रवेशाङ्गगणपतिपूजनं पुण्याहवाचनं करिष्ये
इति सङ्कल्प्य, गणेशं सम्पूज्य
प्रजापतिः प्रीयताम्
इति पुण्याहं वाचयित्वा
शिवं वास्तु शिवं वास्तु
इति त्रिर्वाचयेत् ॥ साङ्गतासिध्यर्थ ब्राह्मणान् भोजयित्वा यथाशक्ति दक्षिणान् दद्यात् ॥
प्रकारान्तरेण वास्तुकरणम् ॥ वास्तुशास्त्रानुसारेण सुमुहूर्ते भूमिं परीक्ष्य गृहं निर्माय, तत्र पूर्वस्यां दिशि स्नानगृहमाग्नेय्यां पाकशालां, दक्षिणस्यां शयनागारं, नैर्ऋत्यामायुधागारं, सूतिकागृहञ्च, प्रतीच्यां भोजनशालां, वायव्यां धनधान्यागारमुदीच्यां देवमन्दिरमीशान्यां कूपदेशं, कल्पयित्वा, स्नानपाकशालाभ्यन्तरे दधिमन्थनस्थानं, पाकशयनागाराभ्यन्तरे घृतनिधानस्थानं, शयनायुधागाराभ्यन्तरे मलविसर्जनस्थानमायुधागारभोजनशालाभ्यन्तरे रोदनस्थान, धनधान्यागारदेवमन्दिराभ्यन्तरे भोगस्थानं, देवागारकूपस्थानयोर्मध्ये औषधालयञ्च कल्पयित्वा, ज्योतिर्विदादिष्टे सुदिने वास्तुशांतिः कार्या ॥