वास्तुशान्तिप्रयोगः ॥ कर्ता आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
मम सकुटुम्बस्यसपरिवारस्य आधिव्याधिग्रहोपसर्गनिरसनद्वारा अपमृत्युकालमृत्व्यादिसमस्तमृत्युध्रुवमृत्युपरिहारार्थं समस्तघोरोपशमनार्थं अस्मिन्वास्तौ चिरकालसुखनिवासनिरतिशयसुखायुरारोग्यपुत्रपौत्राद्यनवच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मीकीर्तिलाभविद्याविजयविविधश्रेयःसम्पदादिसदभीष्टप्रमुखचतुर्विधपुरुषार्थसिध्यर्थं वास्तुशान्तिं करिष्ये,
इति सङ्कल्प्य, द्वारदेशमलङ्कृत्य वास्तुमध्यं मिमायाऽम्भृणं पूरयित्वा तल्पदेशं कल्पयित्वा ॥ गणपतिं संपूज्य मातृकापूजनपूर्वकनान्दीसमाराधनं कृत्वा पुण्याहं वाचयित्वा गृहस्येशानदिग्भागे गृह्याग्निमुपसमाधाय समस्तघोरोपशमनार्थं वास्तुशान्तिहोमं करिष्ये, वास्तुशान्तिहोमः कर्म, आघारमापूर्विकं वा तन्त्रं, पञ्चदश चतस्रो वा सामिधेन्यः, अग्नीषोमावाज्यभागौ, वरदो नामाग्निः, वास्तोष्पतिर्देवता, चरुर्हविः, उपहोमे -
वास्तोष्पते ध्रुवास्थूणामित्यादि षण्मन्त्रैराज्येन मन्त्रसङ्ख्यया, अग्निः स्विष्टकृत्
इत्यादि सङ्कल्प्यान्वाधाय, निर्वापकाले -
देवस्य त्वा॰ वास्तोष्पतये जुष्टं निर्वपामि
इति निरुप्य,
देवस्य त्वा॰ वास्तोष्पतये वो जुष्टं प्रोक्षामि
इति प्रोक्ष्य, प्रतिष्ठिताभिघारणान्तं विधाय, ईशान्यां कलशं प्रतिष्ठाप्य वरुणपूजान्तं कृत्वा
वास्तोष्पते प्रतिजानीहि॰, वास्तोष्पते शग्मया॰
इति मन्त्राभ्यां वास्तोष्पतिमावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ ततोऽग्निमुखान्तं कृत्वा पक्वाज्जुहोति -
ॐ वास्तोष्पते प्रतिजानीह्यस्मान्स्वावेशो अनमीवो भवा नः । यत्वेमहे प्रतितन्नो जुषस्व शन्न एधि द्विपदे शञ्चतुष्पदों ३ वास्तोष्पते शग्मया सँसदाते सक्षीम हिरण्मया गातुमत्या । आ वः क्षेम उत योगे वरन्नो यूयं पातः स्वस्तिभिः सदा नः स्वाहा [[TODO: परिष्कार्यम्]]
(वास्तोष्पतय इदं॰) ॥ अथाऽऽज्याहुतीरुपजुहोति -
ॐ वास्तोष्पते ध्रुवा स्थूणाँसत्रसोम्यानाम् । द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा स्वाहा ॥ (वास्तोष्पतय इदं॰) ॥ १ ॥ ॐ गृह्यं भयं यच्चेद्द्विपात्सु यदु चेञ्चतुष्पात्सु भयं यदस्ति । अग्निर्यविष्ठ्यः प्रणुदतु तद्भयँ शन्नः प्रजाभ्यः शमु नः पशुभ्यः स्वाहा ॥ अग्नये यविष्ठ्याय॰ ॥ २ ॥ ॐ अक्षिस्पन्देऽङ्गचले च यद्भयं यद्वशिते यदु चेद्दुरुक्ते । अग्निर्यविष्ठ्यः॰ ॥ ३ ॥ ॐ दुःस्वप्ने पापस्वप्ने च यद्भयँ स्वप्नाशने यदमेध्यदर्शने । अग्निर्यविष्ठ्यः॰ ॥ (अग्नये यविष्ठ्यायेदं॰) ॥ ४ ॥ ॐ वास्तोष्पते प्र तरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व स्वाहा ॥ ५ ॥ ॐ अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः स्वाहा ॥ (सर्वत्र, वास्तोष्पतय इदं॰) ॥ ६ ॥ [[TODO: परिष्कार्यम्]]
स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाग्निं दर्भस्तम्बेषु हुतशेषं निदधति -
“ॐ नमो रुद्राय वास्तोष्पतये । आर्यने विद्रवणे । उद्याने यत्परायणे । आवर्तने विवर्तने । यो गौपायति तँ हुवे [[TODO: परिष्कार्यम्]]
इति ॥ अथोत्तरपरिषेकादिहोमशेषं समाप्य, स्थालीसङ्क्षालनमाज्यशेषं प्रणीताजलं कलशजलञ्च स्थाल्यां समानीयौदुम्बरशाखया पलाशशाखया शमीशाखया दर्भमुष्टिना वा
ॐ त्वं विप्रस्त्वं कविस्त्वं विश्वारूपाणि धारयन् । अपजन्यं भयं नुद
इति मन्त्रेण सर्वतः पर्युक्षन् त्रिः प्रदक्षिणमगारं पर्येति ॥ ततोऽगारं प्रविशेत् ॥