अगारकरणप्रयोगः॥ कर्ता कृतनित्यक्रियो दर्भेष्वासीनो दर्भान्धारयमाण आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
ममाऽस्मिन्नागारे चिरकालसुखनिवाससिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं अगारकरणं करिष्ये,
इति सङ्कल्प्य ॥ तदङ्गगणपतिपूजन, मातृकापूजन, नान्दीसमाराधन, स्वस्तिपुण्याहवाचनानि कुर्यात् ॥ पुण्याहे - अगारकर्मणः पुण्याहमित्याद्यूहः, वास्तोष्पतिः प्रीयतामिति च ॥ ततः
देवस्य॑ त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामाददे [[TODO: परिष्कार्यम्]]
इत्यभ्रिमादाय ॥ “अभ्रि॑रसि॒ नारि॑रसि" इत्यभिमन्त्र्य ॥
परिलिखितँ रक्षः परिलिखिता अरातय इदमहँ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यञ्च वयं द्विष्म इदमस्य ग्रीवा अपि कृन्तामि [[TODO: परिष्कार्यम्]]
इति त्रिः प्रदक्षिणमवटं परिलिखति सकृन्मन्त्रेण द्विस्तूष्णीम् ॥ एवं प्रत्यवटं यावद्भिरवटं प्रयोजनं तावतः खात्वा, अवटपांसूञ्छालाया अभ्यन्तरं प्रकिरति ॥
दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑
इति स्थूणाः प्रोक्षति ॥
शुन्ध॑तां लो॒कः पि॑तृ॒षद॑नः
इत्यपोऽवटेऽवनयति ॥
उद्दिवँ॑ स्तभा॒नाऽन्तरि॑क्षं पृण पृथि॒वीं दृँ॑ह
इति स्थूणा उच्छ्रयति ॥
द्यु॒ता॒नस्त्वा॑ मारु॒तो मि॑नोतु मि॒त्रावरु॑णयोर्ध्रु॒वेण॒ धर्म॑णा
इत्येताः प्राचीनकर्णा अवटे निदधाति ॥
ब्र॒ह्मवनिं॑ त्वा क्षत्र॒वनिँ॑ सुप्रजा॒वनिँ॑ रायस्पोष॒वनिं॒ पर्यू॑हामि [[TODO: परिष्कार्यम्]]
इत्येताः प्रदक्षिणं पुरीषेण पर्यूहति ॥
ब्रह्म॑ दृँह क्ष॒त्रं दृँ॑ह प्रजां दृँ॑ह रा॒यस्पोषं॑ दृँह
इति दण्डेन संहन्ति ॥ अन्यूनमनतिरिक्तं परिन्यस्य जलमासिञ्चेत् ॥ अवटानां क्रम एवोच्छ्रयाणानां क्रमः ॥
ऋतेन स्थूणावधिरोह वँशोर्ध्वो विराजन्नपसेध शत्रून् । अथाऽस्मभ्यँ सह वीराँ, रयिन्दाः
इति प्राचीनकर्णासु तासु स्थूणासु वंशानारोपयति ॥ “इन्द्र॑स्य॒ सदो॑ऽसि" इति मध्यमं छदिर्निदधाति ॥ “विश्वज॒नस्य॑ छा॒या" इतीतराणि छदींषि निदधाति ॥ “ऐ॒न्द्रम॒सीन्द्रा॑य त्वा" इति सिद्धमगारमभिमृशति ॥
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ [[TODO: परिष्कार्यम्]]
इत्यम्भृणं निधाय जलं पूरयेत् ॥ अनेन अगारकरणकर्मणा श्रीपरमेश्वरः प्रीयताम् ॥