५२ गृहप्रवेशे नक्षत्रम्

गृहप्रवेशे नक्षत्रम् ॥ विद्यामाधवीये -

शस्तास्स्थिराश्च मृदवश्च गृहप्रवेशे क्षिप्राश्चराश्च विदधत्युडवः प्रवासम् ।
श्रेष्ठो वृषस्स्थिरगृहाः सशुभाश्च सर्वे वर्ज्याश्चरा वरममीष्वपि वार्षभोंशः ॥

श्रीपतिः -

त्वाष्ट्रेऽथ पौष्णे शशिभे च मैत्रे स्वयम्भुवर्क्षे त्रिषु चोत्तरेषु ।
अक्षीणचन्द्रे गुरुवासरे च तिथावरिक्ते च गृहप्रवेशः ॥

श्रीपतिः -

शुभः प्रवेशो मृदुभिः स्थिरर्क्षैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा ।
उग्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥
कृत्तिकासु भवनं कृशानुना दह्यते प्रविशतामसंशयम् ॥

गुरुश्च -

शुभनामासु तारासु सर्वासु प्रविशेद्गृहम् ।
शुभांशे शुभवारेषु शुभदृष्टे स्थिरांशके ॥

श्रीपतिः -

रिक्ता तिथि सुतभानुवारौ निन्द्याश्च योगाः परिवर्जनीयाः ।
मेषः कुळीरो मकरस्तुला च त्याज्याः प्रवेशे हि तथा तदंशाः ॥

गुरुः -

वृषांशकोदये सर्वप्रवेशः शोभनस्सदा ।
चरोभये तु सर्वेषु वृषांशः स्यात्सुशोभनः ॥
मेषे भवेत्पुनर्यात्रा वृषे भुक्ते परां श्रियम् ।
श्रीसुखार्थं लभेद्युग्मे कुळीरे धननाशनम् ॥
रत्नभागप्रजाः सिंहे वध्वां हृद्यरतिः ।
तौलो व्याधिर्धनं कीटे चापे स्यात्सुखदुःखवान् ॥
ध्यानभाण्डहतिर्नक्रे कुम्भे कीर्तिश्च वाहनम् ।
मीने वृद्धिं परां गच्छेत्प्रवेशे नूतने फले ॥
अंशाद्यो ग्रहषड्वर्गो यात्रावदिह शोभनः ॥

ज्योतिषार्णवे -

ब्रह्मेन्द्वदितिपूर्वेषु पूर्वस्यावेशनं शुभम् ।
अर्यमादिचतुष्के तु दक्षिणस्यां विशेद्गृहम् ॥
मूलवैष्णवमैत्रेषु पश्चिमायां विशेद्गृहम् ।
अहिर्बुध्न्यश्रविष्ठाभ्यामुदग्गेहं विशेदिति ॥
दिवा प्रवेशः सम्पत्यै निशि वा शोमनो भवेत् ।
यदि सौम्याधिपस्सौम्यस्सुबली सौम्यवीक्षितः ॥

ज्योतिषार्णवे -

रात्रौ केचित्प्रशंसन्ति प्रवेशं सद्गृहोदये ।
रात्रौ चन्द्रबले कुर्थाद्दिया सूर्यबले सति ।
दिने वा निशि वा कुर्यात्प्रवेशं सुशुभोदये ।

विद्यामाधवीये -

गेहं न प्रविशेन्नवं घटवधूकर्किस्थिते भास्करे
श्रेष्ठो दक्षिणपृष्ठभागनिरतः शुक्रोऽत्र वज्र्योऽन्यगः ।
कर्तुस्तत्र शुभप्रदान्युपचयस्थानान्यथो नूतने
त्याज्यो निर्गमनादिकोऽत्र नवमो मासस्तथा वासरः ॥