५१ गृहप्रवेशकालः

अथ गृहप्रवेशकालः॥ नारदः -

प्रवेशो मध्यमो ज्ञेयः सौम्यकार्तिकमासयोः ।
माघफाल्गुनवैशाखज्येष्ठमासेषु शोभनः

इति ॥ रत्नकोशे–

पुष्ये धनिष्ठामृगवारुणेषु स्वायम्भुवे च त्रिषु चोत्तरेषु ।
अक्षीणचन्द्रे शुभदो नृपस्य तिथावरिक्ते च गृहप्रवेशः

इति ॥ ज्योतिर्ग्रन्थेऽपि -

यज्ञो गृहप्रवेशश्च प्रतिष्ठादेवभूभुजाम् ।
पुण्यानि यानि कर्माणि न स्युः सुप्ते जगत्पतौ

इति ॥