अथ वास्तुनिर्माणकालः ॥ नारदः -
सौम्यफाल्गुनवैशाखमाघश्रावणकार्तिकाः ।
मासाः स्युर्गेहनिर्माणे पुत्रारोग्यधनप्रदाः
इति ॥ सौम्यो मार्गशीर्षः॥
आदित्यभौमवर्जन्तु वाराः सर्वे शुभावहाः।
चन्द्रादित्यबलं लब्ध्वा लग्ने शुभनिरीक्षिते ॥
स्तम्भोच्छ्रयादि कर्तव्यमन्यत्तु परिवर्जयेत्
इति ॥ गार्ग्यः -
त्र्युत्तरामृगरोहिण्यः पुष्यमैत्रकस्त्रयम् ।
धनिष्ठाद्वितयं पौष्णं गृहारम्भे प्रशस्यते
इति ॥