॥ वास्तुशान्तिविधिः ॥ (बो. गृ. सू. ३.५) प्रहुतानुकृतिर्वास्तुशमनम् । यच्चागारं कारयित्वा प्रथममध्यवस्येत्तद्वास्तोष्पतीयेन शमयित्वाऽध्यवस्येत् ॥ तदु हैके यजुषा स्थूणा उच्छ्रयन्ति यजुषा वंशान् यजुषा छदींषि यजुषाऽम्भृणं यजुषा तल्पदेशं यजुषा वास्तुमध्यं यजुषाऽग्निनिधानम् । स यद्यु हैवं कुर्याद्यथा यजुषोच्छ्रियन्ते सदस्यर्क्सामयजूंष्यथर्वणान्याङ्गिरसानि मिथुनीसम्भवन्तीति तद्यदध्यवस्येद्यथा मिथुनीसम्भवन्तावध्यवस्येत्तादृक्तद्यद्यजुष्कृतं स्यात् ॥ आधयो व्याधयो ग्रहा उपसर्गाश्चापहन्युः ॥