४८ साक्षोघ्नविधिः

॥ राक्षोघ्नविधिः ॥ (बो. गृ. शे. सू. ४.५.५)

यदपामार्गहोमो भवति रक्षसामपहत्यै

इति ब्राह्मणम् ॥ सर्वस्य भेषजोऽपामार्गहोमः । व्याहृतीभिस्तिलहोमो रक्षोघ्नः पापनाशनश्च ॥

प्रयोगः

अथ प्रयोगः ॥ कर्ता आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

मम समस्तरक्षोबाधानिवारणार्थं समस्तपापक्षयार्थं राक्षोघ्नहोमं करिष्ये,

इति सङ्कल्प्य, गणेशं सम्पूज्य रक्षोहाग्निः प्रीयतामिति पुण्याहं वाचयित्वा, स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, राक्षोघ्नहोमं करिष्ये, राक्षोघ्नहोमः कर्म॰ वरदो नामाग्निः, रक्षोहाग्निर्देवता, चरुर्हविः, उपहोमे -

यदपामार्गः सपत्नहा॰

इति मन्त्रेण अपामार्गसमिद्भिः १०८ सङ्ख्याकाहुतिभिः, समस्तव्याहृतिभिराज्याक्ततिलैः १०८ सङ्ख्याकाहुतिभिः ‘आग्निः स्विष्टकृत्’ इत्याधन्वादध्यात् ॥ निर्वापकाले -

देवस्य त्वा॰ अग्नये रक्षोघ्ने जुष्टं निर्वपामि

इति निरुप्य

देवस्य त्वा॰ अग्नये रक्षोध्ने वो जुष्टं प्रोक्षामि

इति प्रोक्ष्य प्रतिष्ठिताभिधारणान्तं कृत्वा, ईशान्यां दिशि कलशं प्रतिष्ठाप्य वरुणं सम्पूज्य, तत्र रक्षोहणमग्निमावाहयति -

रक्षोहणं॰, विज्योतिषा॰

इति द्वाभ्याम् । षोडशोपचारैः सम्पूज्याऽग्निमुखान्तं कृत्वा पक्वाज्जुहोति -

रक्षोहणं॰ नक्तो३म् विज्योतिषा॰ विनिक्षे स्वाहा

(अग्नये रक्षोन इदं॰)॥ ततोऽपामार्गसमिद्भिरष्टोत्तरशतं जुहोत्येतेन मन्त्रेण -

यदपामार्गः सपत्नहा सहस्राणां पुष्टिवर्धनाय । यन्मे शिरसि पापं केशेषु निहितं ललाटे पृष्ठे जठरे च यद्विश्वं सर्वस्य भेषजोऽपामार्गोऽवलुम्पतु स्वाहा

इति ॥ (अग्नये रक्षोध्न इदं॰) । ततोऽष्टोत्तरशतवारमाज्याक्ततिलैः समस्तव्याहृतीभिर्तुत्वा स्विष्टकृदादि होमशेषं समापयेत् ॥