॥ अष्टमीप्रदोषविधिः ॥ (बो. गृ. सू. ३. ८)
अथातोऽर्धमासेऽर्धमासेऽष्टम्यां ब्राह्मणा ब्रह्मचारिणश्चाऽहरुपवसन्ति ॥ अथ प्रदोषे
रुद्रं विरूपाक्षं सपत्नीकं ससुतं सगणं सपार्षत्कमावाहयामि
इत्यावाह्य गन्ध-पुष्प-धूप-दीपैरभ्यर्च्य, प्रतिपुरुषं पैष्टिकान्दीपानेकातिरिक्तांश्चतस्रोऽष्टौ वा देवस्यायतने प्रतिदिशं प्रद्योतयति -
उद्दीप्यस्व जातवेदः, मा नो हिँ सीत्
इति द्वाभ्यां
हव्यवाहमभिमातिषाहं, स्विष्टमग्ने आभि
इति द्वाभ्याञ्च ॥ अथोपसमिद्धमग्निं कृत्वा यदशनीयस्य जुहोति -
इमा रुद्राय स्थिरधन्वने गिरः
इति षड्भिरनुच्छन्दसं,
मा नो महान्तं, मा नस्तोके
इति द्वाभ्यां
वास्तोष्पते, वास्तोष्पते
इति द्वाभ्यां
आर्द्रया रुद्रः, हेती रुद्रस्य
इति द्वाभ्यां
द्वादश सम्पद्यन्ते द्वादश मासास्संवत्सरस्संवत्सर एव प्रतितिष्ठति
इति ब्राह्मणम् ॥ समिधो वाऽभ्यादधातीति ॥ विज्ञायते -
वैष्णवा वै वनस्पतयः विष्णोस्सायुज्यं सलोकतामाप्नोति ॥
स्तुतिभिस्तुन्वन्ति ब्रह्म वै ब्रह्मा ब्रह्मणस्सायुज्यं सलोकतामाप्नोति ॥ सर्वं पाप्मानं तरति तरति ब्रह्महत्यामप पुनर्मृत्युं जयतीत्याह भगवान् बोधायनः ॥ ॥
प्रयोगः
अथ प्रयोगः ॥ अर्धमासेऽर्धमासेऽष्टम्यां गृहे स्थिताः सर्वे ब्राह्मणा ब्रह्मचारिणस्स्त्रियश्चोपोष्य, सायं नित्यकर्म कृत्वा प्रदोषकाले कर्ता आचम्य प्राणानायम्य देशकालौ संकीर्त्य,
मम सकुटुम्बस्य सपरिवारस्य ब्रह्महत्यादि सकलपापनिवृत्तिद्वाराऽपमृत्युपरिहारार्थं, ब्रह्मसायुज्यविष्णुसायुज्यप्राप्त्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं, अष्टमीप्रदोषहोमं करिष्ये,
इति सङ्कल्प्य, गणपतिं सम्पूज्य ‘ईशानः प्रीयताम्’ इति पुण्याहं वाचयित्वाऽऽचार्यं वृणुयात् । अथाऽऽचार्यः स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य, प्राणानायम्य देशकालौ सङ्कीर्त्य - यजमानस्य॰ प्रदोषहोमं करिष्ये॰ बलवर्धनो नामाऽग्निः, ईशानो देवता, चरुर्हविः, उपहोमे - ‘इमा रुद्राय॰’ इत्यादि षण्मन्त्रैः
मा नो महान्तं॰, मा नस्तोके॰, वास्तोष्पते प्रति जानीहि॰, वास्तोष्पते शग्मया॰, आर्द्रया रुद्रः॰, हेती रुद्रस्य॰,
इत्येतैर्मन्त्रैश्चान्नेन, ‘अग्निः स्विष्टकृत्’, इत्याद्यन्वाधायाऽग्रेणाऽग्निं विधिवत्कलशं प्रतिष्ठाप्य, वरुणं सम्पूज्य, प्रतिमां विन्यस्य
आर्द्रया रुद्रः॰, हेती रुद्रस्य॰
इति मन्त्राभ्यां
रुद्रं विरूपाक्षं सपत्नीकं ससुतं सगणं सपार्षत्कमावाहयामि
इति रुद्रमावाह्य
स्वागतं पुनरागमनम्
इति स्वागतेनाऽभिनन्दयति ॥
भगवतोऽयं कूर्चो दर्भमयस्त्रिवृद्धरितः सुवर्णस्तं जुषस्व, भगवते महादेवाय विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपार्षत्कायैतदासनमुपक्लृप्तमत्रास्तां भगवान् महादेवो विरूपाक्षः सपत्नीकः ससुतः सगणः सपार्फत्कः
इति कूर्चं दद्यात् । अथ गायत्र्याऽद्भिः प्रक्षाळिते
ॐ यो रुद्रो अग्नौ॰
इत्यभिमन्त्रिते पात्रे तिरः पवित्रमप आनीय गन्धादिभिरभ्यर्च्य पुनस्तेनैव मन्त्रेणाऽभिमन्त्र्य तासामेकदेशं पात्रान्तरेणादाय पाद्यं ददाति -
इमा आपः शिवाः शिवतमाः पूताः पूततमा मेध्या मेध्यतमा अमृता अमृतरसाः पाद्यास्ता जुषन्तां प्रतिगृह्यतां प्रतिगृह्णातु भगवान्महादेवो विरूपाक्षः॰ महादेवाय॰ नमः
पाद्यं॰ ।
इमा आपः॰ अमृतरसा अर्घ्यास्ता जुषन्तां॰ नमः
अर्घ्यं॰ ।
इमा आपः॰ अमृतरसा आचमनीयास्ता जुषन्तां॰ नमः
आचमनीयं॰ । अथैनं स्नापयति -
आपो हि ष्ठा॰
इति तिसृभिः,
हिरण्यवर्णाः शुचयः॰
इति चतसृभिः,
पवमानः सुवर्जनः॰
इत्येतेनाऽनुवाकेन, ‘ब्रह्म जज्ञानं॰’ ‘कदुद्राय॰’ ‘यो रुद्रो अग्नौ॰’ ‘कया नश्चित्र॰’ इत्यृचेन,
आपो वा इदँ सर्वं॰
इति मन्त्रेण च । व्याहृतीभिः प्रदक्षिणं परिषिच्य, ततः पवित्रं पादमूले निधायाऽद्भिस्तर्पयति -
ॐ भवं देवं तर्पयामि । शर्वं देवं॰ । ईशानं देवं॰ । पशुपतिं देवं॰ । रुद्रं देवं॰ । उग्रं देवं॰ । भीमं देवं॰ । महान्तं देवं तर्पयामि ॥ ॐ भवस्य देवस्य पत्नीं॰ । शर्वस्य देवस्य पत्नीं॰ । ईशानस्य देवस्य पत्नीं॰ । पशुपतेर्देवस्य पत्नीं॰ । रुद्रस्य देवस्य पत्नीं॰ । उग्रस्य देवस्य पत्नीं॰ । भीमस्य देवस्य पत्नीं॰ । महतो देवस्य पत्नीं॰ ॥ भवस्य देवस्य सुतं॰ । शर्वस्य देवस्य सुतं॰ । ईशानस्य॰ । पशुपतेर्देवस्य॰ । रुद्रस्य॰ । उग्रस्य॰ । भीमस्य॰ । महतो देवस्य सुतं तर्पयामि
इति तर्पयित्वा,
ॐ नमो भगवते रुद्राय, महादेवाय विरूपाक्षाय सपत्नीकाय ससुताय सगणाय सपार्षत्काय नमः
वस्त्र॰ ॥ आचमनीयं॰,
ॐ नमो भगवते त्र्यम्बकाय, महादेवाय॰ नमः
उपवीतं॰ ॥ आचमनीयं,
इमे गन्धाः शुभा दिव्याः सर्वगन्धैरलङ्कृताः । पूता ब्रह्मपवित्रेण पूताः सूर्यस्य रश्मिभिः, महादेवाय॰ नमः
गन्धं॰ ॥
यो रुदो अग्नौ॰ महादेवाय॰ नमः
अक्षतान्॰ ॥
यो रुद्रो॰, इमे पुष्पाः शुभा दिव्या सर्वपुष्पैरलङ्कृताः । पूता ब्रह्म॰ रश्मिभिः, महादेवाय॰ नमः
पुष्पाणि॰ ॥
ॐ भवाय देवाय नमः । शर्वाय देवाय॰ । ईशानाय देवाय॰ । पशुपतये देवाय॰ । रुद्राय देवाय॰ । उग्राय देवाय॰ । भीमाय देवाय॰ । महते देवाय॰ । भवस्य देवस्य पत्न्यै॰ । शर्वस्य देवस्य पत्न्यै॰ । ईशानस्य॰ । पशुपतेर्देवस्य॰ । रुद्रस्य॰ । उग्रस्य॰ । भीमस्य॰ । महतो देवस्य पत्न्यै॰ । भवस्य देवस्य सुताय॰ । शर्वस्य॰ । ईशानस्य॰ । पशुपतेर्देवस्य॰ । रुद्रस्य॰ । उग्रस्य॰ । भीमस्य॰ । महतो देवस्य सुताय नमः
इत्येतैर्नाममन्त्रैः पुष्पैराराध्य,
ॐ यो रुद्रो॰ वनस्पति रसो धूपो धूपेभ्यो धूप उत्तमः । आघ्रेयः॰ महादेवाय॰ नमः
धूपं॰ ॥
ॐ यो रुद्रो॰ ज्योतिः शुक्रश्च तेजश्च देवानां सततं प्रियः । भास्वरः सर्वभूतानां दीपोऽयं प्रतिगृह्यताम् ॥ महादेवाय॰ नमः
इति दीपं॰ ॥ देवस्य पुरतश्चतुरस्रमण्डले नैवेद्यं निधाय
ॐ देवस्य त्वा॰ महादेवाय॰ नमः नैवेद्यार्थे॰ निवेदयामि स्वाहा
नैवेद्यमुद्रां प्रदर्श्य
अमृतोपस्तरणमसि स्वाहा
इत्यपो दत्वा
ॐ प्राणाय स्वाहा
इत्यादिभिः पञ्चमुद्राः प्रदर्शयेत् ॥
ॐ त्र्यम्बकं महादेवाय॰ नमः
पानीयं॰ । ‘अङ्गुष्ठमात्रः॰’ नैवेद्यं विसर्जयामि ॥
अमृतापिधानमसि स्वाहा
इत्यपो दत्वा,
ॐ त्र्यंबकं॰ महादेवाय॰ नमः
आचमनीयं॰ ॥
पूगीफल॰ गृह्यताम्
महादेवाय॰ नमः ताम्बूलं॰ ॥
हिरण्यगर्भः समवर्तताऽग्रे॰ महादेवाय॰ नमः
दक्षिणां॰ ॥
सद्योजातं॰ महादेवाय॰ नमः
मङ्गळनीराजनं॰ ॥
ॐ वामदेवाय॰ महादेवाय॰ नमः
मन्त्रपुष्पं॰ ॥
ॐ अघोरेभ्यः॰ महादेवाय॰ नमः
प्रदक्षिणां॰ ॥
ॐ तत्पुरुषाय॰ महादेवाय॰ नमः
नमस्कारं॰ ॥
ॐ ईशानः सर्व॰ महादेवाय॰ नमः
प्रार्थनां॰ ॥ ततः प्रतिपुरुषं (स्व-पत्नी-पुत्र-दुहितृ-पौत्रसङ्ख्याकान्) पिष्टमयानेकाधिकान्दीपान्कृत्वा कलशस्य परितश्चतुर्दिक्षु
उद्दीप्यस्व॰, मा नो हिँ सीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आ गहि श्रिया मा परिपातय ॥ हव्यवाहं॰, स्विष्टमग्ने॰ [[TODO: परिष्कार्यम्]]
इति चतुर्मन्त्रैः प्रद्योतयति ॥ अथ ‘देवस्य त्वा’ इत्यादि ईशानाय चरुं निरुप्य प्रोक्ष्याज्यसंस्काराद्यग्निमुखान्ते -
आर्द्रया रुद्रः॰, हेती रुद्रस्य॰
इति द्वाभ्यां पक्वं हुत्वा, (ईशानायेदं॰) स्विष्टकृतमवदायान्तःपरिधौ निधायाऽवशिष्टचरूं मेक्षणेनोपहत्यान्वाधानोक्तक्रमेण जुहुयात् ॥ (सर्वत्र, रुद्रायेद॰) ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निमर्कपर्णेषु हुतशेषं निदधाति - ‘यो रुद्रो अग्नौ॰’ इति ॥ उत्तरपरिषेकादि होमशेषं समाप्य, आवाहितदेवताः पुनः सम्पूज्य, ऋग्यजुसामाथर्वभिरन्यैरार्षैः स्तोत्रैश्च स्तुन्वन्ति ॥ ततः
प्रयातु भगवान्महादेवः -
ईशानः सर्वलोकानां सर्वलोकनमस्कृतः ।
अनेन हविषा तृप्तः पुनरागमनं प्रति
इत्युद्वास्य, ब्राह्मणान् सम्पूज्याऽऽचार्याय गोदानं कलशदानमन्येभ्यो यथाशक्ति दक्षिणाञ्च दद्यात् ॥