४६ अभिवृद्धिकल्पः

॥ अथाभिवृद्धिकल्पः ॥ (बो. गृ. शे. सू. ३. १२)

अथातोऽभिवृद्धिकल्पं व्याख्यास्यामः - ग्रामस्य देवतायतनस्य गृहस्य वा सारतमक्षेत्रेषु वा भूतिमिच्छन्पूर्वपक्षे स्थिरराशौ स्थिरमुहूर्ते ब्रह्मस्थाने इन्द्रस्येशानस्य वा दिशि जानुदघ्नमवटं खात्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य सैकतेनावकीर्य मध्ये पद्मपत्रं लिखित्वा कुशाग्रेण पञ्चगव्येन

आपो हि ष्ठा, हिरण्यवर्णाः, पवमानः

इत्येतेनानुवाकेन व्याहृतीभिश्च प्रोक्ष्य सुमनसोऽवकीर्याऽऽशिषो वाचयित्वा मध्यपत्रे श्रिये चासनानि कल्पयित्वा (इन्दस्याग्नेर्यमस्य निर्ऋतेर्वरुणस्य वायोस्सोमस्येशानस्य च कल्पयित्वा गन्धोदकेनावोक्ष्य पश्चिमे भागे गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्योद्धत्यावोक्ष्य मध्ये) सैकतेन स्थण्डिलं कृत्वाग्निमुपसमाधाय सम्परिस्तीर्य परिधानात्प्रभृत्याऽऽग्निमुखात्कृत्वा मध्येऽग्नौ मनसा पद्मासनं ध्यात्वा श्रियमावाहयति - ‘गन्धद्वारां’ इत्येतयर्चागन्धादिभिरन्वाराध्य बिल्वसमिद्भिश्श्रीसूक्तेन हुत्वा पक्वाज्जुहोति -

वास्तोष्पते, वास्तोष्पते

इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति - ‘ब्रह्म जज्ञानम्’ इति षड्भिरनुच्छन्दसम् ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निं पुष्करपर्णेषु हुतशेषं निदधाति - ‘यत्पर्यपश्यत्’ इति ॥ पुष्करपर्णं प्रक्षाळ्य पञ्चगव्येन मथितेन पूरयित्वा गन्धादिभिस्सम्पूज्य श्रीसूक्तेन स्वक्षेत्राणि प्रोक्षतीत्याह भगवान् बोधायनः ॥ ॥

प्रयोगः

अथ प्रयोगः ॥ शुक्लपक्षे स्थिरराशौ स्थिरमुहूर्तादियुते शुभदिवसे प्रातः स्नानादि नित्यकर्म कृत्वा ग्रामस्य, देवालयस्य, गृहस्य, क्षेत्रस्य वा पूर्वस्यामीशान्यां वा दिशि जानुदघ्नं गर्तं खात्वा गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य सिकताभिः सुशोभितं कृत्वा मध्येऽष्टदळपद्मं विलिख्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

ममास्मिन् गृहे धन-धान्य-पशु-पुत्रा (क्षेत्रे फलमूलौषध्या) द्यभिवृध्यर्थं श्रीपरमेश्वरप्रीत्यर्थमभिवृद्धिहोमं करिष्ये

इति संकल्प्य गणपतिं सम्पूज्य दर्भमुष्टिना पञ्चगव्येन ‘आपो हि ष्ठा॰’ इति तिसृभिः, ‘हिरण्यवर्णा॰’ इति चतसृभिः, ‘पवमानः सुवर्जन॰’ इत्येतेनानुवाकेन व्याहृतिभिश्च गर्तदेशं प्रोक्ष्य पुष्पाणि संप्रकीर्य

वास्तोष्पतिः प्रीयताम्, श्रीश्च प्रीयताम्

इति पुण्याहं वाचयित्वाष्टदळपद्मे व्रीह्यादिभिर्निर्मिते स्थण्डिले मध्ये - श्रियै, परितः पूर्वाद्यष्टदिक्षु क्रमेण - इंद्राय, अग्नये, यमाय, निर्ऋतये, वरुणाय, वायवे, सोमाय, ईशानाय च प्रत्येकं दर्भद्वयेनासनं प्रकल्प्य गन्धोदकेनावोक्ष्याऽऽसनकल्पनक्रमेणावाह्य - श्रीसूक्तेन षोडशोपचारैरभ्यर्चयेत् ॥ पश्चिमभागे गोमयेन गोचर्ममात्रं स्थण्डिलं कृत्वा देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य प्राणानायम्य देशकालौ संकीर्त्य मम॰ अभिवृद्धिहोमं करिष्ये॰ आघारवत्तन्त्रं, पञ्चदश दारुरिध्मः॰ बलवर्धनो नामाग्निः, वास्तोष्पतिर्देवता, चरुर्हविः, उपहोमे - ‘ब्रह्म जज्ञानम्’ इत्यादि षडृचेन ब्रह्मसूक्तेनाज्येन ‘आग्निः स्विष्टकृत्’ इत्याद्यन्वाधाय पात्रासादने बैल्वमिध्ममिति विशेषः । वास्तोष्पतये चरुं निरुप्य प्रतिष्ठिताभिघारणान्तेऽग्निं परिषिच्य इध्माधाने क्रमेण श्रीसूक्तस्यैकैकं मन्त्रं पठन्नेकैकमिध्ममभ्यादध्यात् । ततः अग्निमुखान्तं कृत्वा

वास्तोष्पते प्रतिजानीहि॰ वास्तोष्पते शग्मया॰

इति द्वाभ्यां पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायान्वाधानोक्तक्रमेणोपहुत्य स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाग्रेणाग्निं पुष्करपर्णेषु -

यत्पर्यपश्यत्सरिरस्य मध्ये । उर्वीमपश्यज्जगतः प्रतिष्ठाम् । तत्पुष्करस्यायतनाद्धि जातम् । पर्णं पृथिव्याः प्रथनँ हरामि [[TODO: परिष्कार्यम्]]

इति हुतशेषं निधायोत्तरपरिषेकादि होमशेषं समापयेत् । प्रक्षाळिते पुष्करपर्णे मथितं पञ्चगव्यं पूरयित्वा तेन गृहं (क्षेत्रं) सर्वतः प्रोक्षेत् ॥ आवाहितदेवताः पुनः सम्पूज्योद्वास्य ब्राह्मणान्सम्पूज्य यथाशक्ति दक्षिणां दद्यात् । ग्रामाभिवृध्यर्थं देवालयाभिवृध्यर्थं चैवमेव कुर्यात् ॥