४५ दुर्गाकल्पः

॥ अथ दुर्गाकल्पः॥ ॥६८॥ (बो. गृ. शे. सू. ३. ३)

अथातो दुर्गाकल्पं व्याख्यास्यामः - यज्ञोपवीतं रक्तपद्मपुष्पं सम्भारानुपकल्प्य मासिमासि कृत्तिकापूर्वाह्णे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा प्रोक्ष्य शौचेन सुव्रतस्तिष्ठन् भगवतीमावाहयेत् - ‘जातवेदसे’ इति

ओमार्यां रौद्रीमावाहयामि’

इत्यावाह्य ‘तामग्निवर्णां’ इति कूर्चं दत्वा

अग्ने त्वं पारय

इति यज्ञोपवीतं दत्वाऽथैनां स्नापयति -

आपो हि ष्ठा मयोभुवः

इति तिसृभिः ‘हिरण्यवर्णाः’ इति चतसृभिः ‘पवमानः’ इत्येतेनानुवाकेन मार्जयित्वा

आर्यायै रौद्र्यै महाकाळ्यै महायोगिन्यै सुवर्णपुष्प्यै देवसङ्कीर्त्यै महायज्ञयै(क्ष्यै) महावैष्णव्यै महापृथिव्यै मनोगम्यै शङ्खधारिण्यै नमः

इत्येकादशनामधेयैर्गन्धपुष्पधूपदीपैः

अमुष्यै नमोऽमुष्यै नमः

इत्येतैरेवार्चयित्वा सावित्र्या

भगवत्यै दुर्गादेव्यै हविर्निवेदयामि

इति हविर्निवेद्य शेषमेकादशनामधेयैर्हुत्वा पञ्चदुर्गा जपेद्दश स्वस्ति जपेत्

जातो यदग्ने, वषट् ते विष्णो, वास्तोष्पते, एवा वन्दस्व, आ नो नियुद्भिः, हिरण्यवर्णाः, अभयं कृणोतु, अश्वावतीः, त्वं वरुणः, बृहस्पते युवमिन्द्रश्च, स्वस्ति न इन्द्रो वृद्धश्रवाः

इति जपित्वा

शं च मे मयश्च मे

इत्येतैरेकादशभिरनुवाकैश्च जपेत् । सावित्र्या

भगवत्यै दुर्गादेव्यै हविरुद्वासयामि’

इत्युद्वास्य शेषं ब्राह्मणेभ्यो दत्वा संवत्सरमुपासीत ॥ सर्वे कामास्सिध्यन्तीत्याह भगवान् बोधायनः ॥ ॥

प्रयोगः

अथ प्रयोगः ॥ मासिमासि कृत्तिकायां पूर्वाह्णे कर्ता प्रातः स्नानादि नित्यकर्म निर्वर्त्य शुचौ देशे गोमयेन गोचर्ममात्रं चतुरस्रं स्थण्डिलमुपलिप्याचम्य प्राणानायम्य देशकालौ संकीर्त्य

मम समस्तकामनासिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं दुर्गाराधनं करिष्ये

इति संकल्प्य गणपतिं सम्पूज्य “सविता प्रीयताम्” इति पुण्याहं वाचयित्वा देवयजनोलेखनाद्यग्निं प्रतिष्ठाप्य प्राणानायम्य देशकालौ संकीर्त्य मम॰ दुर्गाहोमं करिष्ये, बलवर्धनो नामाग्निः, सविता देवता, चरुर्हविः, उपहोमे -

आर्याद्येकादश नाममन्त्रैश्चरुणा, अग्निः स्विष्टकृत्

इत्यादि सङ्कल्प्यान्वाधायाग्रेणाग्निं व्रीहिभिर्यवैर्वा स्थण्डिलं कृत्वा मही द्यौरित्यादि विधिना कलशं प्रतिष्ठाप्य वरुणपूजांते -

जातवेदसे॰ दुरितात्यग्निः, ओंभूर्भुवः सुवः आर्यामावाहयामि, रौद्रीं॰, महाकालीं॰, महायोगिनीं॰, सुवर्णपुष्पीं॰, देवसङ्कीर्तिं॰, महायज्ञीं॰, महावैष्णवीं॰, महापृथिवीं॰, मनोगमीं॰ शङ्खधारिणीमावाहयामि

इत्यावाह्य “तामग्निवर्णां॰” इत्यासनं दत्वा पाद्यार्घ्यचमनांते

आपो हि ष्ठा॰, हिरण्यवर्णाः॰, पवमानः सुवर्जनः॰

इत्येतैर्मार्जयित्वा वस्त्रोपवस्त्रान्ते -

अग्ने त्वं पारया नव्यो॰ शंयोः

इति यज्ञोपवीतं दद्यात् ।

आर्यायै नमः, रौद्र्यै॰ महाकाळ्यै॰ महायोगिन्यै॰ सुवर्णपुष्प्यै॰ देवसङ्कीर्त्यै॰ महायज्ञयै॰ महावैष्णव्यै॰ महापृथिव्यै॰ मनोगम्यै॰, शंखधारिण्यै नमः

इत्येकादश नामधेयैर्गन्ध-रक्तपुष्प-धूप-दीपादिभिरभ्यर्च्य

सावित्र्या भगवत्यै दुर्गादेव्यै हविर्निवेदयामि

इति हविर्निवेदयेत् । देवस्य त्वेत्यादि सवित्रे हविर्निरुप्य प्रतिष्ठिताभिधारणान्ते सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायावशिष्टं हविर्मेक्षणेनोपहत्य आर्यायै स्वाहेत्याद्येकादश नाममन्त्रैर्हुत्वा स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाग्निं दर्भस्तम्बेषु सावित्र्या आर्याद्येकादशनाममन्त्रैश्च हुतशेषं निधायोत्तरपरिषेकादि होमशेषं समापयेत् । ततः ‘जातवेदसे॰’ इत्यादि पञ्चदुर्गामन्त्रान्,

स्वस्ति नो मिमीतां

इत्यादि दश स्वस्तिसूक्तमन्त्रान्,

जातो यदग्ने॰ वषट् ते विष्णो॰ वास्तोष्पते॰ एवा वन्दस्व॰ आ नो नियुद्भिः॰ हिरण्यवर्णाः॰ अभयं कृणोतु॰ अश्वावतीः॰ त्वं वरुणः॰ बृहस्पते युवमिन्द्रश्च॰ स्वस्ति न इन्द्रो वृद्धश्रवाः॰ अग्नाविष्णू॰ वाजश्च मे

इत्याद्येकादश चमकानुवाकांश्च जपित्वा सावित्र्या भगवत्यै दुर्गादेव्यै ‘हविरुद्वासयामि’ इत्युद्वास्य आवाहितदेवता उद्वास्य सपरिवारं यजमानं प्राङ्मुखमुपवेश्य कलशोदकेनाभिषिञ्चेत् ॥ ततो ब्राह्मणान्सम्पूज्य कलशदानं हविःशेषं यथाशक्ति दक्षिणां च दत्वा ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् । एवमेव संवत्सरं मासिमासि कुर्यात् । सर्वे कामाः सिध्यन्ति ॥