४४ वनस्पतिशान्तिः

॥ अथ वनस्पतिशान्तिः ॥ (बो. गृ. शे. सू. ५.७ )

क्रमुकपनसनाळिकेरकदळीष्वन्यस्मिन् पक्वे ब्राह्मणैर्बन्धुभिस्सहागत्य यजमानः क्रमुकादिवृक्षमध्ये अथ देवयजनोल्लेखनप्रभृत्याग्निमुखात् कृत्वाऽग्नेर्दक्षिणतो व्रीहीनवकीर्य

मेधां म इन्द्रः

इति श्रीदेवीं सरस्वतीमावाह्य प्रागाद्यष्टदिक्पालानावाह्य चतुरः प्रतिदिशं क्रमुकादिवृक्षानर्चयित्वा चतस्र ओषधीस्तेषां पार्श्वे निधाय

उच्छ्रयस्व वनस्पते

इति गोमयं क्रमुकमूले निधाय लाजैः पुष्पैरक्षतैस्सम्प्रकीर्य पूर्णपात्रं निधाय

क्षत्रस्य पते

इति क्षेत्रमभ्यर्च्य

या जाता ओषधयः, याते धामानि, या ओषधयस्सोमराज्ञीः, शतं वो अम्ब, अश्रवं हि भूरिदावत्तरावाम्

इति

वनस्पतिभ्यस्स्वाहा

इत्येतेनानुवाकेन हविराज्यचरून् हुत्वा जयादि प्रतिपद्यते । परिषेचनान्तं कृत्वा ब्राह्मणान्भोजयित्वा दक्षिणाभिस्सम्पूज्य स्वस्तिसूक्तेनाऽध्वर्युराशिषो वाचयित्वाऽऽचार्याय दक्षिणां ददातीत्याह भगवान् बोधायनः ॥ ॥

पद्यपुराणे -

अथातः सम्प्रवक्ष्यामि पूगानां वृक्षजातिनाम् ।
प्रथमे गर्भसंवृत्ते सीमन्तविधिमाचरेत् ॥
हेमन्ते शिशिरे ऊर्जे तथा कार्तिकमासिके ।
ब्राह्मणांश्च समाहूय पुण्याहं वाचयेत्ततः ॥
पञ्चगव्यं च संयोज्य पावमानानुवाककैः ।
क्षेत्रं सम्प्रोक्ष्य विधिवच्चूताश्वत्थैरलङ्कृतम् ॥
वृक्षाणां पुरतो भागे मण्डपं कारयेत्ततः ।
पुष्पमाल्यैरलङ्कृत्य वितानध्वजतोरणैः ॥
वृक्षाणाञ्च चतुर्णां हि समलङ्कारयेत्ततः ।
मिथुनद्वयं प्रकुर्वीत वृक्षेष्वपि चतसृषु ॥
सुवासिनीभिरलङ्कृत्य कुङ्कुमादिभिरर्चयेत् ।
तन्मूले स्थण्डिलोल्लिख्य कलशेषु चतुर्ष्वपि ॥
वृक्षगर्भगतं सोमं लक्ष्मीनारायणं पुनः ।
क्षेत्रपालादिदेवानां क्रमेणावाहयेत्ततः ॥
नवग्रहान् लोकपालान् कलशेषु पृथक्पृथक् ।
सर्वतोभद्रमालिख्य ब्रह्मादिदेवतास्तथा ॥
आवाहयित्वा विधिवद्गन्धपुष्पाक्षतादिभिः ।
सम्पूज्य विधिवद्भक्त्या नैवेद्यैर्विविधैः शुभैः ॥
सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
आचार्यं वरयेत्पश्चादेकविंशति ऋत्विजः ॥
रात्रौ जागरणं कृत्वा प्रभाते होममाचरेत् ।
उपलिप्ते शुचौ देशे विलिखेन्मण्डलं ततः ॥
ब्राह्मणान्सम्यगाहूय तत्र स्वस्त्यादि वाचयेत् ।
गोचर्ममात्रं संल्लिख्य गोमयेन विचक्षणः ॥
नान्दीश्राद्धं प्रकुर्वीत शाखोक्तविधिना ततः ॥
वृक्षगर्भगतं सोममभिषेकन्तु कारयेत् ॥
आपो हि ष्ठेति तिसृभिरिमा आपस्तृचेन च ॥
या ओषधीः सोमराज्ञीस्तिसृभिः सिञ्चयेदथ ॥
पूर्णगर्भगतं सोमं वस्त्रमाल्यैः समर्चयेत् ॥
दिग्विदिक्षु तथा देवान् दिक्पालसहितास्तथा ॥
स्थण्डिलेऽग्निं प्रतिष्ठाप्य अन्वाधानपुरःसरम् ।
त्रिराग्निं पवमानानुवाकेन च हुनेत् क्रमात् ।
या ओषधीः सोमराज्ञीस्तिसृभिश्च हुनेद्घृतम् ॥
याः फलिनीर्येति मन्त्रेण जुहुयाच्च फलेन तु ॥
सहस्रं त्रिसहस्रं वा पञ्चसाहस्रमेव वा ।
यथाशक्त्या च जुहुयाद्वित्तशाठ्यं न कारयेत् ॥
आदित्यादिग्रहान्सर्वान्समिदाज्यचरून् हुनेत् ।
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥
या ओषधीभ्यऋचा क्षेत्रादिपु बलिं हरेत् ॥
आरामोपवनोद्याने देवतायतने गृहे ।
स्नेहात्सञ्जातवृक्षेषु तृणगुल्मलतादिषु ॥
इत्थं कुर्यात्प्रयत्नेन पुगीसीमन्तमुच्यते ।
महाशान्तिं जपित्वादावाचार्याय प्रदापयेत् ॥
गोयुग्मञ्च सुवर्णादि वस्त्रालङ्कारदक्षिणाम् ।
ब्राह्मणान्भोजयेत्पश्चाद्दक्षिणाभिश्च तोषयेत् ॥
अक्षयं वाचयित्वाऽथ पूगीवृक्षफलस्य च ॥
आशिषञ्च प्रगृह्याऽथ ब्राह्मणांश्च विसर्जयेत् ।
एवं यः कुरुते तस्य पूगीफलमनन्तकम् ॥
नरकस्थाश्च पितरः स्वर्गलोकमवाप्नुयुः ।
सर्वान्कामानवाप्नोति कीर्तिमांश्च सुखी भवेत् ॥

प्रयोगः

अथ प्रयोगः ॥ क्रमुक-पनस-नाळिकेर-कदळीनां वृक्षाणामन्यास्मिन्फालते - आपूर्यमाणपक्षे शुभेऽहनि पुण्यनक्षत्रे, सपत्नीको यजमानः प्रातर्नित्यकर्म कृत्वा, ब्राह्मणैर्बन्धुभिः सह मङ्गलघोषपुरस्सरं क्रमुकादिक्षेत्रं गत्वा, क्षेत्रमध्ये मण्डपं कारयित्वा माल्यध्वजतोरणादिभिरलङ्कृत्य, मण्डपमध्ये गोमयेन गोचर्ममात्रं चतुरश्रं स्थाण्डिलमुपलिप्य, दर्भेष्वासीनो दर्भान्धारयमाणः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

ममाऽस्मिन् क्रमुकक्षेत्रे क्रमुकादिफलातिशयप्राप्त्यर्थं, समस्तपितॄणां स्वर्निवाससिध्यर्थं, पुत्र-पौत्र-धन-धान्य-कीर्ति-सुखादि समस्तकामनासिध्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं वनस्पतिशान्तिं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य, मातृकापूजनं नान्दीश्राद्धञ्च विधाय

सविता सोमश्च प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्यादीन्वृणुयात् । अथाऽऽचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, यजमानस्याऽस्मिन् क्रमुक्क्षेत्रे॰ वनस्पतिहोमं करिष्ये॰

बलवर्धनो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे - या जाता ओषधयः॰, या ते धामानि॰, या ओषधयः सोमराज्ञीः॰, शतं वो अम्ब॰, अश्रवँ भूरि दावत्तरावां॰

इति पञ्चभिः सोममन्त्रैः, “वनस्पतिभ्यः स्वाहा”, इत्येतेनाऽनुवाकेन च हविराज्यचरुद्रव्यैः प्रतिमन्त्रं प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, “अग्निः स्विष्टकृत्”, इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्नेर्दक्षिणतो व्रीहिमये स्थाण्डिले कलशं प्रतिष्ठाप्य वरुणपूजान्तं कृत्वा

मेधाम्म इन्द्रो॰ पुष्करस्रजा

इति श्रीदेवीं सरस्वती, ततः प्रागाद्यष्टदिक्षु तण्डुलस्थण्डिलेषु अष्टौ कलशान्प्रतिष्ठाप्य क्रमेण इन्द्रादिदिक्पालांश्चावाह्य षोडशोपचारैः पूजयेत् ॥ अथ परितः पूर्वादि चतुर्दिक्षु प्रतिदिशं चतुर्षु फलितेषु पूगवृक्षेषु

या ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीमनु । तासान्त्वमस्युत्तमा प्र णो जीवातवे सुव [[TODO: परिष्कार्यम्]]

इति मन्त्रेण सोममावाह्य वस्त्र-गन्ध-पुष्प-माल्य-धूप-दीपादिभिः समर्चयेत् ॥ ततः सुवासिन्यो गन्धमाल्यादिभिरलङ्कुर्युः ॥ अथ वृक्षपार्श्वे चतस्र ओषधीर्निधाय, वृक्षमूले -

उच्छ्रयस्व वनस्पते । वर्ष्मन्पृथिव्या अधि ॥ सुमिती मीयमानः । वर्चोधा यज्ञाहसे [[TODO: परिष्कार्यम्]]

इति गोमयं निदध्यात् ॥ अथ लाजैः पुष्पैरक्षतैः सम्प्रकीर्य ‘क्षेत्रस्य पतिना’ इति मन्त्रेण भूमिं गन्धादिभिः सम्पूज्याथ सवित्रे चरुनिर्वापाद्यग्निमुखान्ते सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायान्वाधानोक्तमन्त्रेणोपहोमं कुर्यात् -

या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा । मन्दामि बधूणामहँशतं धामानि सप्त च स्वाहा ॥१॥ या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्वोषधीष्वप्सु ॥ तेभिर्नो विश्वैः सुमना अहेडन् । राजन्त्सोम प्रति हव्या गृभाय स्वाहा ॥२॥ या ओषधयः सोम॰ जीवातवे सुव स्वाहा ॥३॥ शतं वो अम्ब धामानि सहस्रमुत वो रुहः । अथां शतक्रत्वो यूयमिमम्मे अगदं कृत स्वाहा ॥४॥ अश्रवँ हि भूरिदावत्तरावां वि जामातुरुत वा धा स्यालात् । अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमै जनयामि नव्य स्वाहा ॥५॥ (सर्वत्र, सोमायेदं॰) वनस्पतिभ्यः स्वाहा । मूलेभ्यः॰ । तूलेभ्यः॰ । स्कन्धोभ्यः॰ । शाखाभ्यः॰ । पर्णेभ्यः॰ । पुष्पेभ्यः॰ । फलेभ्यः॰ । गृहीतेभ्यः॰। अगृहीतेभ्यः॰ । अवपन्नेभ्यः॰ । शयानेभ्यः॰। शिष्टाय॰ । अतिशिष्टाय॰ । परिशिष्टाय॰ । सँशिष्टाय॰। उच्छिष्टाय॰। रिक्ताय॰ । अरिक्ताय॰ । प्ररिक्ताया॰। सँ रिक्ताय॰ । उद्रिक्ताय॰ । सर्वस्मै स्वाहा । [[TODO: परिष्कार्यम्]]

(सर्वत्र, यथालिङ्गं त्यागः) स्विष्टकदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्रेणाऽग्निं –

तत्सवितुः॰ या ओषधीः॰

इति द्वाभ्यां सवित्रे सोमाय च बलिं दत्वोत्तरपरिषेकादि होमशेषं समापयेत् । आवाहितदेवताः पुनः सम्पूज्य कलशदानादि कुर्यात् ॥ ततो ब्राह्मणान्भोजयित्वा यथाशक्ति दक्षिणां दद्यात् । अथाचार्यः

स्वस्ति नो मिमीतां

इति दशर्चेन स्वस्तिसूक्तेनाऽऽशिषो दद्यात् ॥ ॥