४३ सर्वशान्त्युपयोगिकालः

॥ सर्वशान्त्युपयोगिकालः ॥

मुख्यकालं प्रवक्ष्यामि शान्तिहोमस्य यत्नतः ।
जातस्य द्वादशाहे तु जन्मर्क्षे वा शुभे दिने ॥

जननाद्द्वादशाहे शान्तिकरणे शान्त्युक्तनक्षत्र-आहुति-वह्निचक्रावलोकनादि नावश्यकम् । कालान्तरे त्वावश्यकम् ॥

शुक्लादितस्तिथिः सैका वारयुक्ताऽब्धिशेषिता ।
खे गुणे भुवि वा सोऽग्नेर्द्व्येकयोः स्यादधो दिवि ॥

भूमावग्निः शुभः ॥

होमाहुतिः सूर्यभतस्त्रिभं त्रिभं गण्यं मुहुस्तत्र च चन्द्रभावधि ।
सूर्यज्ञशुक्रार्कजचन्द्रभूमिजा जीवस्तमः केतुरसत्यसन्मुखे ॥
सूर्यनक्षत्राच्चन्द्रनक्षत्रपर्यन्तं त्रिकं त्रिकं गण्यम् ।

तत्र सूर्यनक्षत्रान्नक्षत्रत्रयं सूर्यस्य, ततो नक्षत्रत्रयं बुधस्य, ततो नक्षत्रत्रयं शुक्रस्य, एवं गणिते सति शुभग्रहस्य नक्षत्रञ्चेत्तद्दिने होमादिकं कर्तव्यम् । अशुभग्रहे न कर्तव्यम् । संस्कारादि नित्यकर्मसु निमित्ताऽव्यवहितनैमित्तिकेषु रोगातुरे च वह्निचक्राद्यलोकनं नावश्यकम् ॥

अग्नेः स्थापनवेलायां पूर्णाहुत्यामथाऽपि वा । आहुतिर्वह्निवासश्च विलोक्यौ शान्तिकर्मणि ॥

उत्तरात्रय-रोहिणी-श्रवण-धनिष्ठा-शतभिषा-पुनर्वसू-स्वाती-मघा-अश्विनी-हस्त-तिष्य- अनूराधा-रेवतीनक्षत्रेषु गुरुशुक्रास्त-मलमासरहिते शुभवारतिथ्यादौ शान्तिः कार्या । रोगातुरे निमित्तान्तराऽव्यवहितनैमित्तिके गुरुशुक्रास्तमलमासादि दोषो नास्ति ॥ ॥