॥ प्रसववैकृतजननशान्तिविधिः ॥
अकालप्रसवा नार्यः कालातीतप्रजास्तथा ।
विकृतप्रसवाश्चैव धूमप्रसवनास्तथा ॥
अमानुषांश्च खण्डांश्च अज्ञातव्यञ्जनांस्तथा ।
हीनाङ्गानधिकाङ्गांश्च जनयन्ति यदि स्त्रियः ॥
पशवः पक्षिणश्चैव तथैव च सरीसृपाः ।
विनाशं तस्य देशस्य कुलस्य च विनिर्दिशेत् ॥
निर्वासयेत्तान् नृपतिः स्वराष्ट्रात्स्त्रियश्च पूज्याश्च ततो द्विजेन्द्राः ।
चिकित्सनैर्ब्राह्मणतर्पणैश्च ततोऽस्य शान्तिं समुपैति पापात् ॥
शान्तिं तेषां प्रवक्ष्यामि सर्वारिष्टप्रशान्तये ।
पुण्याहं वाचयेदादौ आचार्यं वरयेत्ततः ॥
कलशस्थापनं कृत्वा होमस्थानं प्रकल्पयेत् ।
त्र्यम्बकेति मन्त्रेण समिदाज्यचरूस्तिलान् ॥
अष्टोत्तरसहस्रं तु शतमष्टोत्तरं तु वा ।
होमशेषं समाप्याथ अभिषेकं समारभेत् ॥
गोदानं कलशदानं कृत्वा ब्राह्मणभोजनम् ।
ऋत्विग्भ्यो दक्षिणां दत्वा स्वयं भुञ्जीत वाग्यतः ॥
प्रयोगः
अथ प्रयोगः ॥ शिशुजननाद्द्वादशेह्नि, कर्ता प्रातर्नित्यकर्म कृत्वाऽऽचमनादि देशकालकीर्तनान्ते
मम भार्याया अकालप्रसव (कालातीतप्रसव-अमानुषप्रसव-विकृतप्रसव-धूमप्रसव-खण्डप्रसव-अज्ञातव्यञ्जनप्रसव-हीनाङ्गप्रसव-अधिकाङ्गप्रसव इत्यादि) सूचित-कुलनाश-देशनाशादि सर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रसववैकृतशान्तिं करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य
मृत्युञ्जयः प्रीयताम्
इति पुण्याहं वाचयित्वाऽऽचार्यादिऋत्विग्वरणं कुर्यात् ॥ अथाऽऽचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य प्राणानायम्य यजमानस्य भार्यायाः॰ प्रसववैकृतशान्तिहोमं करिष्ये॰
वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे - त्र्यम्बकमन्त्रेण समिदाज्यचरुतिलद्रव्यैः प्रतिद्रव्यमष्टोत्तरसहस्राष्टोत्तशतान्यतमसङ्ख्याकाहुतिभिः, अग्निः स्विष्टकृत्
इत्याद्यन्वाधायाऽग्रेणाऽग्निं ‘मही द्यौर्’ इत्यादिना कलशं संस्थाप्य वस्त्रयुग्मेनावेष्ट्य, पूर्णपात्रे सौवर्णराजतताम्रान्यतमप्रतिमायां ‘त्र्यंबकं’ इति मन्त्रेण मृत्युञ्जयमावाह्य षोडशोपचारैः पूजयेत् । ततः सवित्रे चरुनिर्वापाद्यग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वाऽन्वाधानोक्तक्रमेणोपहुत्य स्विष्टकृदादि होमशेषं समापयेत् । आवाहितदेवतां पुनः सम्पूज्य
आपो हि ष्ठेत्यादिभिः, त्र्यम्बकमन्त्रेण, देवस्य त्वेत्यादिभिः
सकुदुम्बं यजमानमभिषिञ्चेत् । ततो यजमान आचार्यादीन्सम्पूज्य गोदानं, कलशदानं, यथाशक्ति दक्षिणादानञ्च कृत्वा, यावच्छक्ति ब्राह्मणान् सुवासिनीश्च भोजयेत् ॥