४१ पञ्चमारिष्टजननशान्तिविधिः

॥ पञ्चमारिष्टजननशान्तिविधिः ॥ अथातो पञ्चमारिष्टजननशान्तिं व्याख्यास्यामः -

जातस्य पञ्चमे लग्ने सूर्यादिग्रहसंस्थिते ।
पित्रादीनामरिष्टन्तु कुर्वन्ति च यथाक्रमम् ॥
रविश्च पितरं हन्ति मातरं च शशी तथा ।
भ्रातरं भूमिपुत्रस्तु मातुलं चन्द्रजस्तथा ॥
गुरुर्मातामहं तद्वद् भृगुस्तद्वत्पितामहम् ।
शनी राहुः शिशुं हन्ति शिखी भ्रातरमेव च ॥
तद्दोषपरिहारार्थं शान्तिं वक्ष्याम्यशेषतः ।
जातस्य द्वादशाहे वा जन्मर्क्षे वा शुभ दिने ॥
पुण्याहवाचनं कृत्वा आचार्यं वरयेत्ततः ।
गृहस्यैशानदिग्भागे गोमयेनोपलेपयेत् ॥
व्रीहींस्तत्र विनिक्षिप्य यथावित्तानुसारतः ।
तस्योपरि न्यसेत्कुम्भमव्रणं तन्तुवेष्टितम् ॥
आजिघ्रेति हि मन्त्रेण कलशस्थापनं भवेत् ।
शुद्धोदकेन सम्पूर्य नदीरावाहयेत्ततः ॥
पञ्चगव्यं पञ्चरत्नं पञ्चत्वक्पञ्चपल्लवान् ।
सर्वौषधीः सर्वमृदस्तत्तन्मन्त्रेण निक्षिपेत् ॥
तत्तद्वर्णमयं वस्त्रं कुम्भोपरि निधाय च ।
प्रधानस्यार्धमानेन अधिप्रत्यधिदेवते ॥
अधिप्रत्यधिदेवौ च दक्षिणोत्तरपार्श्वयोः ।
ग्रहयज्ञोक्तविधिना आवाहनपुरःसरम् ॥
उपचारैः षोडशभिस्तत्तन्मन्त्रैर्वथाविधि ।
श्रीसूक्तं रुद्रसूक्तञ्च ग्रहमन्त्रान् स्पृशञ्जपेत् ॥
अष्टोत्तरशतं कुर्यादष्टाविंशतिमेव वा ।
ततो होमं प्रकुर्वीत आचार्यो ब्राह्मणैः सह ॥
स्वगृह्योक्तविधानेन कुर्यादग्निमुखं ततः ।
तत्तत्समिद्भिश्चर्वाज्यैरष्टोत्तरशतं हुनेत् ॥
अष्टोत्तरसहस्रं वा अष्टाविंशतिमेव वा ।
होमशेषं समाप्याथ अभिषेकन्तु कारयेत् ॥
मातापित्रोः शिशोश्चैव आचार्यो ब्राह्मणैः सह ।
ग्रहमन्त्रैर्हिरण्याद्यैः पावमानीभिरेव च ॥
श्रीसूक्तेन पुराणोक्तैरभिषेकन्तु कारयेत् ।
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ॥
आचार्यं पूजयेत्पश्चात्प्रतिमां वस्त्रसंयुताम् ।
दद्यात्सदक्षिणां गाञ्च आचार्याय प्रदापयेत् ॥
ऋत्विजोऽपि यथाशक्ति दक्षिणाभिः प्रतोषयेत् ।
ब्राह्मणान्भोजयेत्पश्चात्स्वयं भुञ्जीत बन्धुभिः ॥
एवं शान्तिं प्रकुर्वीत तस्य दोषो विनश्यति ।
सर्वारिष्टविनाशः स्याद्वेदोक्तायुर्भविष्यति ॥

प्रयोगः

अथ प्रयोगः ॥ जननाद्द्वादशाहे जन्मनक्षत्रेऽन्यस्मिन् वा शुभदिने कर्ता प्रातः स्नानादि नित्यकर्म कृत्वा सपत्नीक आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

अस्य शिशोर्जन्मकाले पञ्चमलग्नस्थितसूर्यग्रहसूचितपित्ररिष्ट (चन्द्रग्रहसूचितमात्ररिष्ट कुजग्रहसूचितभ्रात्ररिष्ट इत्यादि) निवृत्त्या वेदोक्तपरिपूर्णाऽऽयुष्याभिवृध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां पञ्चमारिष्टजननशान्तिं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य

आदित्यादिनवग्रहदेवताःप्रीयन्तां,आदित्यः प्रयिताम्

इति पुण्याहं वाचयित्वाऽऽचार्यादिऋत्विजो वरयेत् ॥ अथाऽऽचार्यो गृहस्येशानदिग्भागे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य, देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

यजमानस्याऽस्य शिशोः॰ सग्रहमखां पञ्चमारिष्टजननशान्तिहोमं करिष्ये॰ ग्रहान्वाधानान्ते - कपिलो नामाग्निः, आदित्यो देवता, चरुर्हविः, उपहोमे - आदित्यं अर्कसमिच्चर्वाज्यद्रव्यैः प्रतिद्रव्यमष्टोत्तरसहस्रसङ्ख्याकाहुतिभिः अधिदेवताप्रत्यधिदेवतयोस्तैरेव द्रव्यैरष्टाविंशतिसंख्याकाहुतिभिः स्विष्टकृतः अर्यमादयो देवता

इत्याद्यन्वाधायाऽग्रेणाऽग्निं व्रीहिमये स्थण्डिले ग्रहानावाह्य सम्पूज्य, तदुत्तरतः स्थण्डिलान्तरे व्रीहीन्निक्षिप्य, तत्र नवमव्रणं सुदृढं कुम्भं प्रतिष्ठाप्य, शद्धोदकेन सम्पूर्य, कुम्भे पञ्चगव्यं पञ्चरत्नं पञ्चत्वचः पञ्चपल्लवान् सर्वौषधीः सप्तमृदस्तत्तन्मन्त्रेण निक्षिप्य, वरुणपूजान्तं कृत्वा रक्तवर्णमयं (तत्तद्ग्रहवर्णमयं) वस्त्रं कुम्भोपरि निधाय, पूर्णपात्रे - निष्कमात्रसुवर्णनिर्मितामादित्यप्रतिमां संस्थाप्याऽऽदित्यमावाह्य दक्षिणतोऽधिदेवतामग्निमुत्तरतः प्रत्यधिदेवतामीश्वरञ्च क्रमेणाऽऽवाह्य ग्रहमखोक्तक्रमेण पूजयेत् । अथर्त्विजः कुम्भमन्वारभ्य श्रीसूक्तं रुद्रसूक्तं ग्रहमन्त्रांश्चाष्टोत्तरशतवारं जपेयुः ॥ ततोऽन्वाधानोक्तक्रमेण होमं कृत्वा स्विष्टकृदादि होमशेषं समापयेत् । ततो मातापित्रोः शिशोश्च ग्रहमन्त्रैः आपो हि ष्ठा॰ हिरण्यवर्णाः॰ पवमानानुवाकेन श्रीसूक्तेन पुराणमन्त्रैः कलशोदकेनाभिषेकः । यजमानः शुक्लाम्बरधरः शुक्लमाल्यानुलेपन आचार्यादीन् सम्पूज्य, प्रतिमावस्त्रयुतं कलशं गाञ्चाचार्याय दत्वा ऋत्विग्भ्योऽपि यथाशक्ति दक्षिणाञ्च दत्वा यावच्छक्ति ब्राह्मणान् सम्भोजयेत् ॥ ॥