४० त्रिकप्रसवशान्तिविधिः

॥ त्रिकप्रसवशान्तिविधिः ॥ (बो. गृ. शे. सू. ६.१३ )

अथातस्त्रिकासवशान्तिं व्याख्यास्यामः -

सुतत्रये सुता चेत्स्यात्तत्त्रये वा सुतो यदि ।
मातापित्रोः कुलस्याऽपि तदाऽरिष्टं महद्भयम् ।
ज्येष्ठनाशो धने हानिर्दुःखं वा सुमहद्भवेत् ।
तत्र शान्तिं प्रकुर्वीत वित्तशाठ्यविवर्जितः ॥
जातस्यैकादशाहे वा द्वादशाहे शुभे दिने ।
आचार्यमृत्विजो वृत्वा ग्रहयज्ञपुरःसरम् ॥
सह वा ग्रहयज्ञः स्याद्यथावित्तानुसारतः ।
ब्रह्माविष्णुमहेशेन्द्रप्रतिमाः स्वर्णतः कृताः ॥
पूजयेद्धान्यराशिस्थकलशोपरि शक्तितः ।
पञ्चमे कलशे रुद्रं पूजयेद्रुद्रसङ्ख्यया ॥
रुद्रसूक्तादि चत्वारि शान्तिसूक्तानि सर्वशः ।
द्विज एको जपेद्धोमकाले शुचिसमाहितः ॥
आचार्यो जुहुयात्तत्र समिदाज्यतिलांश्चरुम् ।
अष्टोत्तरसहस्रं वा शतं वा विंशतिं तु वा ॥
देवताभ्यश्चतुर्वक्त्रादिभ्यो ग्रहपुरस्सरम् ।
ब्रह्मादिमन्वैरिन्द्रस्य यत इन्द्र भयामहे ॥
ततः स्विष्टकृतं हुत्वा बलिं पूर्णाहुतिं पुनः ।
अभिषेकं कुटुंबस्य कृत्वाऽऽचार्यं प्रपूजयेत् ॥
हिरण्यं धेनुरेका च ऋत्विग्भ्यो दक्षिणा ततः ।
प्रतिमा गुरवे देया उपस्कारसमन्विता ॥
काँस्याज्यवीक्षणं कृत्वा शान्तिपाठन्तु कारयेत् ।
ब्राह्मणान्भोजयेच्छक्त्या दीनानाथांश्च तर्पयेत् ॥
एवं शान्तिविधानेन सर्वारिष्टं प्रलीयते ।

इत्याह भगवान् बोधायनः ॥

प्रयोगः

अथ प्रयोगः ॥ जननादेकादशे द्वादशे वा शुभदिने गोमुखप्रसवं कृत्वा

मम सुतत्रयजननाऽनन्तरं कन्या-(कन्यात्रयजननाऽनन्तरं सुत) जननसूचित - सर्वारिष्ट्रपरिहारद्वारा॰ सग्रहमखां त्रिकप्रसवशान्तिं करिष्ये,

इति सङ्कल्प्य गणेशपूजनाऽद्याचार्यादि ऋत्विग्वरणान्तं कुर्यात् ॥ पुण्याहे -

आदित्यादिनवग्रहसहितब्रह्मविष्णुमहेशेन्द्ररुद्राः प्रीयन्ताम्

इति विशेषः ॥ अन्वाधाने - ग्रहकीर्तनान्ते

वरदो नामाऽग्निः, ब्रह्मा विष्णुमहेश इन्द्रो रुद्रश्च देवताः, चरुर्हविः, उपहोमे - ग्रहानन्तरं ब्रह्माणं ‘ब्रह्म जज्ञानं॰’ इति मन्त्रेण, विष्णुं ‘इदं विष्णुः॰’ इति मन्त्रेण, महेशं ‘तत्पुरुषाय॰’ इति मन्त्रेण, इन्द्रं ‘यत इन्द्र॰’ इति मन्त्रण, रुद्रं ‘कदुद्राय॰’ इति मन्त्रेण, समिदाज्यतिलचरुभिः प्रत्येकं प्रतिद्रव्यं १०८ सङ्ख्याकाहुतिभिः, स्विष्टकृत अर्यमादयः,

इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निं ग्रहान्सम्पूज्य तदुत्तरतः कलशपञ्चकं ‘मही द्यौः॰’ इत्यादिना संस्थाप्य वरुणपूजान्ते पूर्णपात्रेऽग्न्युत्तारणादिना सुसंस्कृताः सुवर्णादिनिर्मिताः ब्रह्मविष्णुमहेशेन्द्ररुद्रप्रतिमा विन्यस्य तत्तन्मन्त्रेणावाह्य षोडशोपचारैः संपूजयेत् ॥ कलशमन्वारभ्य रुदैकादशिनीं, ‘कृणुष्व पाजः॰’, रुद्रसूक्त-ब्रह्मसूक्त-विष्णुसूक्त-इन्द्रसूक्त-शान्तिसूक्तानि च जपेत् ॥ ततो हविर्निर्वापादि नवग्रहब्रह्मविष्णुमहेशेन्द्ररुद्रदेवतानां पक्वं हुत्वाऽन्वाधानोक्तक्रमेणोपहुत्य स्विष्टकृदादि होमशेषं समापयेत् ॥ आवाहितदेवताः पुनः सम्पूज्य कलशोदकैरभिषेकः आचार्याय कलशदानं, आज्यवीक्षणदानं, गोदानं, हिरण्यदानं ऋत्विाभ्यो यथाशक्ति दक्षिणादानं च कुर्यात् । ततो ब्राह्मणैः शान्तिपाठः कार्यः । यावच्छक्ति ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥