॥ यमलकल्पः ॥ (बो. गृ. शे. सू. ३. १४)
पत्नी गावो वा यमलौ विजायेरन् तस्य संस्कारः प्राङ्नामकरणात्कार्यः । ब्राह्मणाननुज्ञाप्य चतुर्णां क्षीरवृक्षाणां कषायानाहरेयुः प्लक्षन्यग्रोधाश्वत्थोदुम्बराणां चतुर उद्कुम्भान्पूरयित्वा चतस्रो ब्रह्मचारिणो हिरण्यमन्तर्धाय स्नापयेयुः शतधारेण वा कृत्वाभिषिञ्चन्ति । अथ भूतबलिं करोति । आचार्यमलङ्कृत्य गोमिथुनं दद्यात् । पुंसो यवमयं गोमूत्रं स्त्रियो
हिरण्यगर्भः समवर्तताग्रे"
इत्यष्टभिर्तुत्वा कार्यो मारुतश्चरुर्न तस्य भयं विद्यत इति ।
प्रयोगः
अथ प्रयोगः । नामकरणात्प्राक् शुभे दिने कर्ता सपत्नीकः शिशुभ्यां सह प्राङ्मुख उपविश्य आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम भार्याया यमलप्रसूतिसूचितसर्वारिष्टनिरसनद्वारा॰ यमलजननशान्तिं करिष्ये,
इति सङ्कल्प्य । गणेशं सम्पूज्य
सविता मरुतश्च प्रीयन्ताम्
इति पुण्याहं वाचयित्वाचार्यं वृत्वा पञ्चप्रस्थपरिमितैर्वीहिभिर्यवैर्वा स्थण्डिलं कृत्वा चतुर्दिक्षु कलशचतुष्टयं प्रतिष्ठाप्य तेषु प्लक्षन्यग्रोधाऽश्वत्थोदुम्बराणां क्षीरवृक्षाणां प्रत्येकं कषायं पञ्चगव्येन सह सर्वौषधीश्च निक्षिप्य ‘मही द्यौः’ इत्यादि वरुणपूजान्तं कुर्यात् ॥ ततश्चत्वारो ब्रह्मचारिणः शतच्छिद्रकलशेन वारुणकलशोदकेर्हिरण्यमन्तर्धाय शिशुभ्यां सह सपत्नीकं यजमानं स्नापयेयुः - अब्लिङ्गाभिर्वारुणीभिः हिरण्यवर्णाभिः पावमानीभिर्व्याहृतिभिः ॥ अभिषिक्तौ दम्पती श्वेतैर्वस्त्रचन्दनपुष्पैः सौवर्णभूषणैश्चालङ्कृत्य
ये भूताः प्रचरन्ति॰ धातु स्वाहा
इति बलिं दत्वाऽप आचम्याऽऽचार्यं सम्पूज्य गोमिथुनं दद्यात् ॥ अथाऽऽचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, प्राणानायम्य यजमानस्य भार्याया॰ यमलजननशान्तिहोमं | | करिष्ये॰ वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे – ‘हिरण्यगर्भ॰’ इत्याद्यष्टमन्त्रैराज्येन, “अग्निः स्विष्टकृत्”, इत्याद्यन्वाधायाऽग्निमुखान्तं कृत्वा सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति -
हिरण्यगर्भः समवर्तताऽग्रे भूतस्य॑ जातः पतिरेक आसीत् । स दाधारपृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम स्वाहा । ( सर्वत्र, प्रजापतय इदं॰) यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । ये ईशे अस्य द्विपदश्चतुष्पदः कस्मै॰ स्वाहा ॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै॰ स्वाहा ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रँ रसया सहाऽऽहुः । यस्यमाः प्रदिशो यस्य बाहू कस्मै॰ स्वाहा ॥ यङ्क्रन्दसी अवसा तस्तभाने अभ्यक्षेता मनसा रेजमाने । यत्राधि सूर उदिती व्येति कस्मै॰ स्वाहा । येन द्यौरुग्रा पृथिवी चे दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै॰ स्वाहा ॥ आपो ह यन्महीर्विश्वमायन्दक्षं दधाना जनयन्तीरग्निम् । ततो देवानां निरवर्ततासुरेकः कस्मै॰ विधेम स्वाहा ॥ यश्चिदापो महिना पर्यपश्यदक्षं दधाना जनयन्तीरग्निम् ॥ यो देवेष्वधि देव एक आसीत्कस्मै॰ स्वाहा ॥ [[TODO: परिष्कार्यम्]]
स्विष्टकृदादि होमशेषं समापयेत् ॥ ततो यजमानो गृह्याग्नौ मारुतस्थालीपाकं कुर्यात् । तत्र
मरुतो यद्धवो दिवः॰ या वः शर्म॰
इति द्वाभ्यां पक्वहोमः ॥ (मरुद्भ्य इदं॰) शेषं समानम् ॥ अन्ते ब्राह्मणान्सम्पूज्य, आचार्याय कलशदानमन्येभ्यो यथाशक्ति दाक्षिणां दत्वा, यावच्छक्ति ब्राह्मणान्सम्भोज्याऽऽशिषो गृह्णीयात् ॥ न तस्य भयं विद्यते ॥ गोषु यमलजननेऽपि इयमेव शान्तिः ॥