३८ विषनाडीजननशान्तिविधिः

॥ विषनाडीजननशान्तिविधिः ॥ गार्ग्यः -

विषनाडीषु सञ्जातः सर्वारिष्टभयप्रदः ।
पितृमातुलमात्मानं घातयेन्नात्र संशयः ॥
मातुश्च विषशस्त्रास्त्रैः क्रूरे लग्नेंऽशकेऽपि वा ।
तद्दोषपरिहाराय शान्तिकर्म समाचरेत् ॥
पुण्याहं वाचयेदादौ आचार्यं पूजयेत्ततः ।
रुद्रो यमोऽग्निमृत्यू च देवताः परिकीर्तिताः ॥
सुवर्णेनाऽथवा शक्त्या तत्तलक्षणलक्षिताः ।
प्रतिमां कारयित्वाऽथ आढकव्रीहिभिः स्थले ॥
स्थण्डिलं परिकल्प्याऽथ कुम्भमोषधिसंयुतम् ।
जलं सम्पूर्य संस्थाप्य मृदादि प्रक्षिपेत्ततः ॥
वस्त्रद्वयेन संवेष्ट्य पञ्चरत्नानि निक्षिपेत् ।
कुम्भोपरि तु संस्थाप्य चतस्रः प्रतिमास्तथा ॥
तत्तन्मन्त्रैश्च सम्पूज्य गन्धपुष्पोपहारकैः ।
कद्रुद्रायेति मन्त्रेण रुद्रमावाह्य पूजयेत् ॥
यमाय सोम मन्त्रेण यममावाह्य यत्नतः ।
आग्निं दूतेति मन्त्रेण परं मृत्यो ततः परम् ॥
एतैश्चतुर्भिर्मन्त्रैश्च क्रमादर्चेज्जपेत् ततः ।
कुम्भस्य पश्चिमे देशे होमस्थानं प्रकल्पयेत् ॥
स्वगृह्योक्तविधानेन कुर्यादग्निमुखं ततः ।
उल्लेखनादिपर्यन्तमाज्यभागान्तमाचरेत् ॥
एतैः पूर्वोदितैर्मन्त्रैः प्रत्येकं जुहुयात्ततः ।
समिच्चरुघृतद्रव्यैः प्रत्येकं जुहुयात्क्रमात् ॥
ऋत्विग्भिश्च सहाचार्यो हुनेदष्टसहस्रकम् ।
अष्टोत्तरशतं वाऽथ अष्टाविंशतिमेव वा ॥
ततस्तिलैर्हुनेद्देवांस्तत्तन्मन्त्रैः पृथक्पृथक् ।
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥
ततोऽभिषचयेद्विद्वानाचार्यः पितृपुत्रयोः ।
आपोहिष्ठेति सूक्तेन मुञ्चामित्वेति मन्त्रतः ॥
अक्षीभ्यामिति सूक्तेन पावमानीभिरेव च ।
समुद्रज्येष्ठा सूक्तेन त्रायन्तामिति मन्त्रतः ॥
सुरास्त्वामभिषिञ्चन्तु मन्त्रैः पौराणिकैः क्रमात् ।
अभिषेके निवृत्ते तु यजमानः समाहितः ॥
अभिषेकाप्लुतं वस्त्रमाचार्याय निवेदयेत् ।
आचार्यं समलङ्कृत्य वेदाध्यायिकुटुम्बिनम् ॥
वस्त्रालङ्कारगोदानमाचार्याय प्रदापयेत् ।
देवताप्रतिमादानं धान्यवस्त्रादिभिः सह ॥

रुद्रप्रतिमादानमन्त्रः -

प्रीयतां भगवानीशः पिनाकी सर्वतोमुखः ।
तव मूर्तिप्रदानेन सर्वाभीष्टप्रदो भव ॥

यमप्रतिमादानमन्त्रः -

ईषत्पीनो यमः कालो दण्डहस्तः प्रसन्नधीः ।
रक्तदृङ् नीलकायश्च महिषस्थः शिवं कुरु ॥

अग्निप्रीतमादानमन्त्रः -

पिङ्गभ्रूश्मश्रुकेशान्तः साक्षसूत्रकमण्डलुः ।
सप्तार्चिः शक्तिधारी च मम पापं व्यपोहतु ॥
दंष्ट्राकरालवदनो नीलाञ्जनसमाकृतिः ।
रक्ताक्षोऽसिगदापाणिर्मृत्युर्मां पातु सर्वदा ॥
दानमेवंविधैर्मन्त्रैर्यथाविधि समाहितः ।
शान्तिं कुर्याद्विधानेन विषदोषप्रशान्तये ॥

ज्योतिर्निबंधे -

तिथीषु नागाद्रिगिरीशवारिधिर्गजाद्रिदिक्पावकदिक्षु भास्कराः ।
मुनीभसङ्ख्याप्रथमा तिथेः क्रमात्परं विषाख्यं घटिकाचतुष्टयम् ॥
विंशच्चतुर्द्वादशदिक्च शैला बाणाश्च तत्त्वानि यथाक्रमेण ।
सूर्यादिवारेषु भवन्त्यनन्तरं नाड्यो विषाख्यं घटिकाचतुष्टयम् ॥

गर्गः -

विषनाडीषु सञ्जातः सर्वारिष्नुभयप्रदः ।
पितृमातुलमात्मानं घातयेन्नात्र संशयः ॥
मातुश्च विषशस्त्रास्त्रैः क्रूरे लग्नेंशकेऽपि वा ॥

प्रयोगः

अथ प्रयोगः ॥ कर्ता आशौचान्ते देशकालौ सङ्कीर्त्य

अस्य शिशोर्विषनाडीजनन-सूचितसर्वारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं विषनाडीजननशान्तिं करिष्ये,

इति सङ्कल्प्य गणेशपूजनान्ते

रुद्रयमाऽग्निमृत्यवः प्रीयन्ताम्

इति पुण्याहं वाचयित्वा ऋत्विजो वृणुयात् ॥ तत आचार्यः स्थण्डिले विधिवदाग्निं प्रतिष्ठाप्य

अन्वाधाने वरदो नामाऽग्निः, रुद्रो यमोऽग्निर्मृत्युश्च देवताः, चरुर्हविः, उपहोमे - कदुद्राय, यमाय सोमं, अग्निं दूतं, परं मृत्यो

इति चतुर्भिः समिच्चर्वाज्यतिलैः प्रत्येकं प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिर्यक्ष्ये, “अग्निः स्विष्टकृत्” इत्यादि सङ्कल्प्याऽन्वाधाय प्रणीताः प्रीयाऽग्रेणाऽग्निं प्रस्थमितैर्व्रीहिभिः स्थण्डिलं कृत्वा तस्मिन्नुदक्संस्थं कलशचतुष्टयं प्रतिष्ठाप्य पूर्णपात्रेषु सुवर्णनिर्मिता अग्न्युत्तारणादिभिः संस्कृता रुद्रयमाग्निमृत्युप्रतिमा विन्यस्य ‘कदुद्राय॰’ इति रुद्रं यमाय सोमं॰’ इति यमं, ‘अग्निं दूतं॰’ इत्यग्निं, परं मृत्यो॰’ इति मृत्युं चावाह्य षोडशोपचारैः पूजयेत् ॥ अथ निर्वापाद्यग्निमुखान्ते ‘कदुद्राय॰’ इति रुद्रस्य, यमाय सोमं॰’ इति यमस्य, ‘अग्नि दूतं॰’ इत्यग्नेः, परं मृत्यो॰’ इति मृत्योश्च पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधि सादायित्वा समिच्चर्वाज्यतिलद्रव्यैः अन्वाधानोक्तक्रमेणोपहोमं कृत्वा - स्विष्टकृदादि रुद्र-यम-आग्नि-मृत्युभ्यश्च बलिं दत्वा होमशेषं समापयेत् ॥ आवाहितदेवताः पुनः सम्पूज्य कलशोदकैरभिषेकः -

आपो हि ष्ठा॰ मुञ्चामि त्वा॰ अक्षीभ्यां॰ पवमानः सुवर्जनः॰ समुद्रज्येष्ठाः॰

इत्यादि सूक्तमन्त्रैः ॥ ततो ब्राह्मणान्सम्पूज्य आचार्याय

प्रीयतां भगवानीशः पिनाकी सर्वतोमुखः ।
तव मूर्तिप्रदानेन सर्वाभीष्टप्रदो भव ॥१॥
ईषत्पीनो यमः कालो दण्डहस्तः प्रसन्नधीः ।
रक्तदृङ् नीलकायश्च महिषस्थः शिवं कुरु ॥२॥
पिङ्गभ्रूश्मश्रुकेशान्तः साक्षसूत्रकमण्डलुः ।
सप्तार्चिः शक्तिधारी च मम पापं व्यपोहतु ॥३॥
दंष्ट्राकरालवदनो नीलाञ्जनसमाकृतिः ।
रक्ताक्षोऽसिगदापाणिर्मृत्युर्मां पातु सर्वदा

इत्येतैर्मन्त्रैः प्रतिमासहितकलशदानं गोभूहिरण्यवस्त्रदानं ऋत्विग्भ्यो यथाशाक्ति दक्षिणादानं च कृत्वा ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥