३७ सदन्तजननशान्तिविधिः

॥ सदन्तजननशान्तिविधिः ॥ (बो. गृ. शे. सू. ६. १२ )

अथातो सदन्तजननशान्तिं व्याख्यास्यामः -

दन्तजन्मनि बालानां लक्षणं तन्निबोध मे ।
उपरि प्रथमं यस्य जायन्ते च शिशोर्द्विविजाः ॥
दन्तैर्वा सह यस्य स्याज्जन्म भार्गवसत्तम ।
मातरं पितरं वाथ खादेदात्मानमेव वा ॥
तत्र शान्तिं प्रवक्ष्यामि तन्मे निगदतः शृणु ।
गजपृष्ठगतं बालं तैस्तथा स्थापयेद्द्विजः ॥
तदभावे तु धर्मज्ञः काञ्चने तु वरासने ।
सर्वोषधैः सर्वगन्धैर्बीजेः पुष्पैः फलैस्तथा ॥
पञ्चगव्येन रत्नैश्च मृत्तिकाभिश्च भार्गव ।
स्थालीपाकेन धातारं पूजयेत्तदन्तरम् ॥
सप्ताहञ्चात्र कर्तव्यं तथा ब्राह्मणभोजनम् ।
अष्टमेऽहनि विप्राणां तथा देया च दक्षिणा ॥
काञ्चनं रजतं गाञ्च भुवञ्चात्मानमेव वा ।
दन्तजन्मनि सामान्ये शृणु स्थानमतः परम् ॥
भद्रासने निवेश्यैनं मूर्ध्नि मूलफलैस्तथा ।
सर्वौषधैः सर्वबीजैः सर्वगन्धैस्तथैव च ॥
स्नापयेत्पूजयेच्चात्र वह्निं सोमं समीरणम् ।
पर्वतांश्च तथा ख्यातान्देवदेवञ्च केशवम् ॥
एतेषामेव जुहुयाद्घृतमग्नौ यथाविधि ।
ब्राह्मणानाञ्च दातव्या यथाशक्त्यथ दक्षिणा ॥
ततः स्वलङ्कृतं बालमासने तूपवेशयेत् ।
पूज्याश्च विधिना नार्यो ब्राह्मणाः सुहृदस्तथा ॥

इति ॥

धर्मसिन्धौ -

द्वितीये च तृतीये च चतुर्थे पञ्चमे तथा ।
यदा दन्ताश्च जायन्ते मासे चैव महद्भयम् ॥
मातरं पितरं वाथ खादेदात्मानमेव च ।
बालानामष्टमे मासि षष्ठे मासि ततः पुनः ॥
दन्ता यस्य च जायन्ते माता वा म्रियते पिता ।
बालकः पीड्यते वात्र स्वयमेव न संशयः ॥

प्रयोगः

अथ प्रयोगः ॥ उक्तकाले गोमुखप्रसवं कृत्वा देशकालौ संकीर्त्य

अस्य शिशोः सदन्तजननसूचित-प्रथममूर्ध्वदन्तजननसूचित (द्वितीयादिमासदन्तजनने - द्वितीयमासदन्तजननसूचितेत्याद्यूहः) सर्वारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं सदन्तजनन शान्तिं करिष्ये,

इति सङ्कल्प्य गणेशपूजनाद्याचार्यादिऋत्विग्वरणान्तं कुर्यात् ॥ पुण्याहे - ‘धाता प्रीयताम्’ इति विशेषः ॥ होमदेशोत्तरभागे गजपृष्ठे नौकायां, तदभावे सौवर्णपीठे, शिशुमुपवेश्य पञ्चगव्येन सर्वौषधिसर्वगन्धादियुक्तजलैश्च स्नापयेत् ॥ अन्वाधाने -

वरदो नामाग्निः, धाता देवता, चरुर्हविः, अग्निः स्विष्टकृत्

इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं धान्यराश्युपरि कलशषट्कं प्रतिष्ठाप्य वरुणपूजान्ते क्रमेण षट्प्रतिमा विन्यस्य धातारं

धाता ददातु नो रयिं॰, धाता प्रजाया॰

इति द्वाभ्यां, आग्निं, सोमं, वायुं, पर्वतान्, केशवश्च

अग्निर्मूर्धा॰ आ प्यायस्व॰ आ नो नियुद्भिः॰ पर्वतेभ्यो नमः॰ तद्विष्णोः॰

इति मन्त्रैरावाह्य संपूजयेत् । अथ हविर्निर्वापादि धातृपक्वहोमान्ते - आज्याहुतीरुपजुहोति-‘अग्निर्मूर्धा॰’ इत्यादिपञ्चभिः ॥ यथालिङ्गं त्यागः ॥ स्विष्टकृत्प्रभृतिसिद्धमाधेनुवरप्रदानात् ॥ शिशुं कलशोदकेनाभिषिच्याचार्याय प्रतिमासहितकलशप्रतिपादनान्तेऽन्येभ्यो ब्राह्मणेभ्यश्च भूयसीं दक्षिणां दत्वा सप्ताहं ब्राह्मणान्सम्भोजयेत् ॥ अष्टमेहनि शक्त्यनुसारेण काञ्चनादिदानं तेभ्यः कार्यम् ॥ दिनाष्टकं ब्रह्मचर्यादि व्रतचर्यान्ते परमेश्वरार्पणं कुर्यात् ॥ ॥ षष्टेऽष्टमे वा मासे दन्तोत्पत्तौ तु तदनुसारिसंकल्पपूर्वकं ‘बृहस्पते’ इति मन्त्रेण पूजनं दधिमधुघृताक्तानामश्वत्थसमिधामष्टोत्तरशतं तन्मत्रेण होमः इत्यन्यत्र ॥