३६ तिथिलग्नगण्डान्तशान्तिविधिः

॥ तिथिलग्नगण्डान्तशान्तिविधिः ॥ (बो. गृ. शे. सू. ६.११)

अथातस्तिथिलग्नगण्डान्तशान्तिं व्याख्यास्यामः -

अभुक्तेतरजातस्य सूतकान्त्यदिनेऽपि वा ।
शान्तिं शुभेऽह्नि वा कुर्यात्तावत्पुत्रं न लोकयेत् ॥
तिथिगण्डे त्वनड्वाहं नक्षत्रे धेनुरुच्यते ।
काञ्चनं लग्नगण्डे तु गण्डदोषो विनश्यति ॥
आद्यभागे पितुर्गण्डत्रयाणामभिषेचनम् ।
इतरत्र शिशोर्मातुरभिषेकञ्च कारयेत् ॥
उत्तरे तिलपात्र स्यात्तिष्ये गोदानमुच्यते ।
अजादानं त्वाष्ट्रे च पूर्वाषाढ़े च काञ्चनम् ॥
उत्तराचित्रतिष्यासु पूर्वाषाढोद्भवस्य च ।
कुर्याच्छान्तिं प्रयत्नेन नक्षत्राकारजां बुधः ॥
सुवर्णेन च रौप्येण यथावित्तानुसारतः ।
नक्षत्राधिपते रूपं कृत्वा वस्त्रद्वयेन च ।
वरुणस्यार्चनं कार्यं तत्तन्मन्त्रैश्चपूजयेत् ॥
शतौषधानि रत्नानि मृत्त्वक्पल्लवसंयुतान् ॥
पूजान्ते समिदन्नाज्यैर्होमं तिलयवैम्तथा ।
ततः पूर्णाहुतिं हुत्वा वेदाध्यायिकुदुम्बिने ॥
उत्तराप्रथमे पादे तिलपात्रं तथैव च ।
तिष्ये तु गां सवत्साञ्च सुशीलाञ्च पयस्विनीम् ॥
अजां चित्रासु वै दद्यात्पूर्वाषाढे तु काञ्चनम् ।
यवांश्च व्रीहिमाषांश्च तिलमुद्गांश्च दापयेत् ॥
यथावित्तानुसारेण कुर्याद्ब्राह्मणभोजनम् ।
पितुरायुष्यवृध्यर्थं शान्तिरत्र विधीयते ।
एवं यः कुरुते सम्यक्छान्तिकर्म समाहितः ॥
न दोषैर्लिप्यते नूनं पद्मपत्रमिवाम्भसा ॥
आयुरारोग्यमैश्वर्यं सम्प्राप्नोति दिने दिने ।
धनधान्यसमृद्धिञ्च पुत्रपौत्रसमृद्धिमान् ॥

इत्याह भगवान् बोधायनः ॥

गर्गः -

पूर्णानन्दाख्ययोस्तिथ्योः सन्धिर्नाडीद्वयं तथा ।
गण्डान्तं मृत्युदं जन्म यात्रोद्वाहव्रतादिषु ॥
कुलारसिंहयोः कीटचापयोर्मीनमेषयोः ।
गण्डान्तमन्तरालं स्याद्घटिकार्धं मृतिप्रदम् ॥
तिथ्यृक्षगण्डे पितृमातृनाशो लग्ने तु सन्धौ तनयस्य नाशः ।
सर्वेषु नो जीवति हन्ति बन्धूञ्जीवन्पुनः स्याद्बहुवारणाश्च ॥

प्रयोगः

अथ प्रयोगः ॥ तिथिगण्डान्तपूर्वार्धजन्मनि नालच्छेदात्पूर्वं कर्ता तत्कालं स्नात्वा पुत्रमनवलोक्य

अस्य शिशोस्तिथिगण्डान्तपूर्वार्धजन्मसूचितसर्वारिष्टनिरसनद्वारा अनडुद्दानं करिष्ये,

इति सङ्कल्प्य ब्राह्मणपूजनपूर्वकमनड्वाहं तन्मूल्यं वा दद्यात् ॥ ततो नालच्छेदनादि कुर्यात् ॥ सूतकान्ते शुभे दिने -

अस्य शिशोर्गण्डान्तपूर्वार्धजनन॰ प्रीत्यर्थं सग्रहमखां तिथिगण्डान्तशान्तिं करिष्ये,

इति सङ्कल्प्य गणेशपूजनाद्याचार्यवरणान्तं कुर्यात् । पुण्याहे

आदित्यादिनवग्रहदेवताः प्रीयन्तां, भगः प्रीयताम्

इति विशेषः ॥ ततः स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य अन्वाधाने - ग्रहकीर्तनान्ते वरदो नामाऽग्निः, भगो देवता, चरुर्हविः, उपहोमे - भगं

श्रेष्ठो देवानां॰ भगो ह दाता

इति द्वाभ्यां समिच्चर्वाज्यतिलयवद्रव्यैः प्रतिद्रव्यं चतुःपञ्चाशतसङ्ख्याकाहुतिभिर्यक्ष्ये, अर्यमादयः स्विष्टकृतः इत्यादि सङ्कल्प्यान्वाधाय प्रणीताप्रणयनान्तेऽग्रेणाऽग्निं व्रीहिमये स्थण्डिले ग्रहानाबाह्य सम्पूज्य, तदुत्तरतः कलशं संस्थाप्य शतौषध्यादि निक्षिप्य पूर्णपात्रे-सुवर्णनिर्मितप्रतिमायां

श्रेष्ठो देवानां॰ भगो ह दाता॰

इति मन्त्राभ्यां भगमावाह्य पूजयेत् ॥ ततश्चरुनिर्वापादि ग्रहपक्वान्ते भगाय पक्वं हुत्वा स्विष्टकृतमवदायान्तःपरिधि सादयित्वाऽन्वाधानोक्तप्रकारेणोपहोमं कृत्वा स्विष्टकृदादि होमशेषं समापयेत् ॥ आवाहितदेवताः पुनः सम्पूज्य कलशोदकेन – ‘समुद्रज्येष्ठाः॰’ इत्यादिभिः पित्रादित्रयाणामभिषेकः । ब्राह्मणान्सम्पूज्य सांगतासिद्धये सपीठकलशदानं कृत्वा यवव्रीहिमाषतिलमुद्गांश्च दद्यात् ॥ यथाशक्ति दक्षिणादानं ब्राह्मणभोजनञ्च कार्यम् । तिथिगण्डोत्तरार्धजनने नानडुद्दानम् । अन्यत्सर्वं पूर्ववत् ॥ लग्नगण्डपूर्वार्धजनने काञ्चनदानम् । उत्तराफल्गुनी-तिष्य-चित्रापूर्वाषाढासु पूर्वार्धे जन्मनि क्रमेण - तिलपात्रं, धेनुं, अजां, काञ्चनञ्च नालच्छेदात्पूर्वं दत्वा, शान्तीं - प्रतिमायां तत्तन्नक्षदेवतां सम्पूज्य, तत्तन्मन्त्राभ्यां होमादि कुर्यात् । दक्षिणाकाले यव-व्रीहि-माष-तिल-मुद्गान् दद्यात् । उत्तरार्धे जन्मनि नालच्छेदात्पूर्वं दानाऽभावः । सर्वनक्षत्रगण्डेषु दक्षिणाकाले यव-व्रीहि-माष-तिल-मुद्गदानानि कुर्यात् ॥ अभिषेकाद्यन्यत्सर्वं समानम् ॥