॥ नक्षत्रगण्डान्तजननशान्तिविधिः ॥ (बो. गृ. शे. सू. ६.१० )
अथातो नक्षत्रगण्डान्तविधिं व्याख्यास्यामः -
अश्विनीमघमूलादौ त्रिषट्कनवनाडिकाः ।
रेवतीसर्पशक्रान्ते मासाश्च ऋतुसायकाः ॥
अश्विनीमघमूलादौ नाडिकाद्वितयं तथा ।
रेवतीसर्पशक्रान्ते नाडिकाद्वितयं तथा ॥
अश्विनीमघमूलाना पूर्वार्धे बाध्यते पिता ।
पूषादिशक्रपश्चार्धे जननी बाध्यते शिशोः ॥
पितृहा तु दिवाजातो रात्रिजातस्तु मातृहा ।
आत्मधक्सन्ध्ययोर्जातो नास्ति गण्डो निरामयः ॥
सर्वेषां गण्डजातानां परित्यागो विधीयते ।
वर्जयेद्दर्शनं तावत्तच्च षाण्मासिकं भवेत् ॥
गण्डशान्तिं प्रवक्ष्यामि सोममन्त्रेण भक्तिमान् ।
काँस्यपात्रं प्रकुर्वीत पलैः षोडशभिर्नवम् ॥
अष्टभिश्च चतुर्भिर्वा द्वाभ्यां वा शोभनं तथा ।
तन्मध्ये पायसं शङ्खे नवनीतेन पूरिते ॥
राजतं चन्द्रमर्चेत सितपुष्पसहस्रकैः ।
दैवज्ञः क्षौमवासाश्च शुक्लमाल्याम्बरार्चितः ॥
सोमोऽहमिति सञ्चिन्त्य पूजां कुर्यादतन्द्रितः ।
जपेत्साहस्रकं मन्त्रं श्रद्दधानः समाहितः ।
आप्यायस्वेति मन्त्रेण पूजां कुर्यात्समाहितः ।
दद्याद्वै दक्षिणामिष्टां गण्डदोषप्रशान्तये ॥
शुक्लं वागीश्वरञ्चैव ताम्रपात्रसमन्वितम् ।
गण्डदोषोपशान्त्यर्थं दद्याद्वेदविदे शुचिः ॥इत्याह भगवान् बोधायनः ॥ ॥
प्रयोगः
अथ प्रयोगः॥ शिशुजननाद्द्वादशेऽह्नि आदौ गोमुखप्रसवं कृत्वा पत्नीशिशुभ्यां सह कर्ता उपविश्य देशकालौ सङ्कीर्त्य मम
अस्यशिशो रेवत्यश्विनीसन्ध्यात्मकगण्डान्तजननसूचितसर्वारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं नक्षत्रगण्डान्तजनन शान्तिं करिष्ये,
इति सन्कल्प्य । गणेशपूजनान्ते
चन्द्रबृहस्पतिसहितनवग्रहदेवताः प्रीयन्ताम्
इति पुण्याहं वाचयित्वाचार्यादिऋत्विजो वृत्वा आचार्यं चन्दनशुक्लमाल्यैः क्षौमशुक्लवासोभ्याञ्च पूजयेत् ॥ अत्र शान्तौ होमो नोक्तः ॥ स्थडिले विधिवदग्निं प्रतिष्ठाप्य
नक्षत्रगण्डान्तसूचितसर्वारिनिरसनार्थं आदित्यादीनां नवानां ग्रहाणां प्रीत्यर्थं नवग्रहशान्तिहोमं करिष्ये
इति सङ्कल्प्य ग्रहान्वाधानादि प्रणीताप्रणयनान्तेऽग्रेणाग्निमुपलिप्ते देशे ग्रहादीन् प्रतिष्ठाप्य सम्पूज्य, तदुत्तरतः एतदर्थमेव सम्पादितं षोडशपलमष्टपलं चतुःपलं नूतनं कास्यपात्रं ‘आ प्यायस्व॰’ इति मन्त्रेण निर्माय तस्मिन्पात्रे पायसं पयो वा निनीय तत्र नवनीतपूर्णं शङ्ख पूर्वाग्रं निधाय तस्मिन्नग्न्युत्तारणादिना संशुद्धं राजतं चन्द्रबिम्बं संस्थाप्य ‘सोमस्वरूपोहम्’ इति भावयित्वा समाहितमनाः ‘आ प्यायस्व॰’ इति मन्त्रेण चन्द्रमावाह्य षोडशोपचारैः पूजयेत् ॥ उपचारे श्वेतं सदशं वस्त्रयुग्मं सहस्रनामभिः श्वेतपुष्पसहस्रं च, दक्षिणादाने मौक्तिकञ्च समर्पणोयम् ॥ पूजान्ते ‘आ प्यायस्व॰’ इति मन्त्रस्य सहस्रं जपः । तदुत्तरतः ताम्रकलशं विधिवत् प्रतिष्ठाप्य तत्र रजतप्रतिमायां ‘बृहस्पते अति॰’ इति मन्त्रेण वागीश्वरमावाह्य सम्पूज्य, तदुत्तरतः उदगपवर्गं चतुरः कलशान्संस्थाप्य तेषु क्रमेण कुङ्कुमचन्दनकुष्ठगोरोचनमिश्रिता अपः पूरयित्वा वरुणमावाह्य पूजयेत् ॥ ततश्चरुनिर्वापादि वरदानान्तं ग्रहहोमं कृत्वा, आवाहितदेवताः पुनः सम्पूज्याभिषेककाले वरुणकलशोदकैः दिवागण्डान्तजातं बालं पित्रा सह रात्रिगण्डान्तजातं बालं मात्रा सह संध्ययोर्जातमुभाभ्यां सह
सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् । शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् [[TODO: परिष्कार्यम्]]
इति मन्त्रेण चाभिषिञ्चेत् ॥ ततः सर्वकलशोदकैरभिषेकः - ‘आपो हि ष्ठा’ इत्यादिभिः
समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः । इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिहमामवन्तु ॥ या आपो देवी उत वा स्त्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः ॥ समुद्रार्था याः शुचयः पावकास्ता आपो देवीः॰ ॥ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् । मधुश्चुतः शुचयो याः पावकास्ता आपो॰ ॥ यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्ज मदन्ति । वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो॰ [[TODO: परिष्कार्यम्]]
इत्येतैर्मन्त्रैः
सुरास्त्वामभिषिञ्चन्तु॰
इत्यादिभिश्च ॥ अथ सुस्नातः कर्ता श्वेतचन्दनादिभिरलङ्कृत्य ब्राह्मणान्सम्पूज्य साङ्गतासिध्यर्थं कांस्यपात्रस्थितं समौक्तिकं सशङ्खं चन्द्रबिम्बं ताम्रपात्रादिसहितं बृहस्पतिबिंबं सपीठग्रहकलशान् गाञ्चाचार्याय दद्यात् ॥ ऋत्विग्भ्यो यथाशक्ति दक्षिणां दत्वाऽऽयुर्वृध्यर्थं ‘सहस्राक्षेण॰’ इति मन्त्रमष्टोत्तरशतमष्टोत्तरसहस्रं वा जपित्वा दशावरान्ब्राह्मणान् भोजयित्वाऽऽशिषः प्रतिगृह्य कर्मेश्वरार्पणं कुर्यात् ॥