॥ एकनक्षत्रजननशान्तिविधिः ॥ (बो. गृ. शे. सू. ६.९ )
अथैकनक्षत्रजननशान्ति व्याख्यास्यामः -
एकस्मिन्नेव नक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः ।
प्रसूतिश्च तयोर्मृत्युर्भवदेकस्य निश्चयः ॥
तद्दोषनाशाय तदा प्रशस्तां शान्तिञ्च कुर्यादभिषेचनञ्च ।
सम्पूज्य ऋक्षप्रतिमां तदग्रे दानञ्च कुर्याद्विभवानुरूपम् ॥
तत्र शान्तिं प्रवक्ष्यामि सर्वाचार्यमतेन तु ।
शुभर्क्षे शुभवारे च चन्द्रताराबलान्विते ॥
रिक्ताविष्टिविवर्जे तु प्रारभेद्दिवसे सुधीः ।
आचार्यं वरयेत्पूर्वं चतुरोऽथ द्विजोत्तमान् ॥
पुण्याहं वाचयित्वा तु शान्तिकर्म समाचरेत् ।
आग्नेयीशानदिग्भागे नक्षत्रप्रतिमां ततः ॥
तन्नक्षत्रोक्तमन्त्रेण चाऽर्चयेत् कलशोपरि ।
रक्तवस्त्रेण सञ्छाद्य वस्त्रयुग्मेन वेष्टयेत् ॥
स्वशाखोत्तेन मार्गेण कुर्यादग्निमुखं ततः ।
अनेनैव तु मन्त्रेण हुनेदष्टोत्तरं शतम् ।
प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव च ।
अभिषेकं ततः कुर्यादाचार्यः पितृपुत्रयोः ॥
वस्त्रालङ्कारगोदानैराचार्यं पूजयेत्पुनः ।
ऋत्विग्भ्यो दक्षिणां दत्वा माषत्रयसुवर्णकम् ॥
देवता प्रतिमादानं धान्यवस्त्रादिभिः सह ।
यानशय्यासनादींश्च दद्यात्तद्दोषशान्तये ॥
भोजयेद्ब्राह्मणान्सर्वान्वित्तशाठ्यविवर्जितः ॥इत्याह भगवान बोधायनः ॥ ॥
पितृनक्षत्रे मातृनक्षत्रे वा कन्यायाः पुत्रस्य वोत्पत्तौ गोमुखप्रसवं कृत्वा शान्तिः कार्या ॥ सोदर भ्रातृभगिन्योर्नक्षत्रे भ्रातृभगिन्या वोत्पत्तौ गोप्रसवमकृत्वा शान्तिं कुर्यात् ॥
प्रयोगः
अथ प्रयोगः ॥ जनकनक्षत्रोत्पत्तौ उक्तसमये गोमुखप्रसवं कृत्वा एकोदरनक्षत्रोत्पत्तौ तमकृत्वा देशकालौ सङ्कीर्त्य
अस्य शिशोः पित्रैकनक्षत्रोत्पत्तिसूचित सर्वारिष्ट्रपरिहारद्वारा॰ श्रीपरमेश्वरप्रीत्यर्थं पित्रैकनक्षत्रजननशान्तिं करिष्ये,
इत्यादि यथासम्भवं सङ्कल्प्य गणपतिं सम्पूज्य
अमुकनक्षत्रदेवताः प्रीयन्ताम्
इति पुण्याहं वाचयित्वाऽऽचार्यं चतुर ऋत्विजश्च वरयेत् ॥ अग्निं प्रतिष्ठाप्य
अस्य शिशोः पित्रैकनक्षत्रजननशान्तिहोमं करिष्ये, वरदो नामाग्निः, कृत्तिकानक्षत्रे - अग्निर्देवता, (रोहिण्यादिषु - यथायथं देवतानाम ऊह्यम्) चरुर्हविः, अग्निः स्विष्टकृत्
इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वा । ऐशान्यां ‘मही द्यौः॰’ इत्यादिना कलशं प्रतिष्ठाप्य रक्तवस्त्रेणाऽऽच्छाद्य वरुणपूजान्ते पूर्णपात्रे नक्षत्रदेवताप्रतिमायां
अग्निर्नः पातु॰ यस्य भान्ति॰ इति द्वाभ्यामग्निमावाहा षोडशोपचारैः सम्पूजयेत् ॥ अथाऽग्नये जुष्टं निर्वपामि, इत्याद्यग्निमुखान्तं कृत्वा
अग्निर्नः पातु॰ यस्य भान्ति
इति मन्त्राभ्यां पक्कं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधाय नक्षत्रदेवतामन्त्राभ्यां समिच्चर्वाज्यद्रव्यैः प्रतिद्रव्यं प्रतिमन्त्रं चतुःपञ्चाशदाहुतीर्जुहुयात् ॥ स्विष्टकृदादि होमशेषं समाप्याचार्यः कलशोदकेन ययोरेकनक्षत्रजन्म तयोरभिषेकं कुर्यात् ॥ ततो यजमान आचार्याय वस्त्रमलङ्करणं गाञ्च दद्यात् ॥ ज्योतिर्निबन्धोक्त्या स्वर्णरूप्यमयौ हरिहरौ सम्पूज्य तौ वा दद्यात् –
विविधस्यास्य विश्वस्य पितरौ विश्वतो मुखौ ।
पीयेतां मूर्तिदानेन देवौ हरिहरावुभौ
इति ॥ माषत्रयपरिमितं सुवर्णं ऋत्विग्भ्यो दत्वा वस्त्रप्रतिमादिसहितं कलशमाचार्याय धान्यवस्त्रयानशय्यासनादीनि ब्राह्मणेभ्यो दत्वा तैः सहाऽऽचार्यं ऋत्विजश्च भोजयित्वा सम्पूर्णतां वाचयित्वा तेभ्यः शुभ-आशिषः प्रतिगृह्य कर्मेश्वरार्पणं कुर्यात् ॥ ॥