३३ अधोमुखजननशान्तिः

॥ अधोमुखजननशान्तिः ॥ जन्मतो द्वादशाहे जन्मनक्षत्रेऽन्यस्मिन्वा शुभे दिने—कर्ता गोमुखप्रसवं कृत्वा

अस्य शिशोरधोमुखजननसूचितसर्वारिष्टपरिहारद्वारा॰ सग्रहमखामधोमुखजननशान्ति करिष्ये,

इति संकल्प्य ऋत्विग्वरणान्तं कुर्यात् ॥ पुण्याहे -‘रुद्रः प्रीयताम्’ इति विशेषः ॥ गृह्योक्तविधिनाऽग्निं प्रतिष्ठाप्य

अस्य शिशोः॰ ग्रहमखपूर्वकाधोमुखजननशान्तिहामं करिष्ये

इति संकल्प्य ग्रहान्वाधानान्ते वरदो नामाऽग्निः, रुद्रो देवता, चरुर्हविः, उपहोमे - त्र्यंबकमन्त्रेण समिदाज्यतिलचरुद्रव्यैः प्रतिद्रव्यं अष्टोत्तरसहस्राऽष्टोत्तरशताऽष्टाविंशत्यन्यतमसङ्ख्याकाहुतिभिः अर्यमादयः स्विष्टकृतः इत्याद्यन्वाधाय प्रणीताप्रणयनान्तं कृत्वाऽग्नेः पूर्वभागे ग्रहानावाह्य ईशानदिग्भागे स्थण्डिलं कृत्वा ‘मही द्यौः’ इत्यादिस्थापितकलशे पूर्णपात्रे सुवर्णप्रतिमायां त्र्यम्बकं॰’ इति मन्त्रेण रुद्रमावाह्य सम्पूज्य कुम्भमन्वारभ्य रुद्रैकादशिनीं जपेत् ॥ ततो ‘रुद्राय जुष्टं॰’ इति चरुनिर्वापादि अग्निमुखान्ते ग्रहदेवताभ्यः रुद्राय च पक्वं हुत्वा अन्वाधानोक्तक्रमेणोपहोमञ्च कृत्वा स्विष्टकृदादि होमशेषं समापयेत् ॥ अथ माता बालकं कार्पासराशौ निधाय पराङ्मुखी भवेत् । ततो विप्रास्तं गृहीत्वा स्वाभिमुख्यै मात्रे दद्युः तत्र मन्त्रः –

बालेऽस्माभिरयं बालो युष्मद्दत्तः प्रगृह्य च ।
दीर्घायुरपि बालोऽयं पूर्ववत्कुलवर्धनः

इति ॥ ततो यजमानं पत्नी शिशुसहितं कलशोदकेन

आपो हि ष्ठा॰ समुद्रज्येष्ठाः॰

इत्यादिभिरभिषिञ्चेत् ॥ तत आचार्यादिभ्यः गां ग्रहपीठसहितं कलशं यथाशक्ति दक्षिणाञ्च दत्वा यावच्छक्ति ब्राह्मणान्भोजयित्वा तेभ्यो भूयसीं दत्वा अशिषः प्रतिगृह्णीयात् ॥ ततः कर्मेश्वरार्पणं कुर्यात् ॥ ॥