३२ भद्राजननशान्तिः

॥ भद्राजननशान्तिः ॥ उक्तकाले गोप्रसवं कृत्वा देशकालौ सङ्कीर्त्य

अस्य शिशोर्भद्राजननसूचितसकलारिष्टपरिहारद्वारा॰ ग्रहमखपूर्वकभद्राजननशान्ति करिष्ये,

इति सङ्कल्प्य गणेशपूजनादि कुर्यात् ॥ पुण्याहवाचने

भद्रासूर्यरुद्रगणपतिऋषभाः पीयन्ताम्

इति विशेषः । स्थण्डिलोल्लेखनाद्यन्वाधाने ग्रहानन्तरं वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे - भद्रा अग्ने॰ इत्यादि पञ्चमन्त्रैः भद्रां सूर्य रुद्रं गणपतिं ऋषभं एताः प्रधानदेवताः समिच्चर्वाज्यतिलद्रव्यैः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरसहस्राऽष्टोत्तरशताष्टाविंशत्यन्यतमसंख्याकाहुतिभिः अर्यमादयः स्विष्टकृतः इत्यादि सङ्कल्प्याऽन्वाधाय प्रणीताप्रणयनान्ते पूर्वभागे ग्रहावाहनानन्तरं ईशान्यभागे ‘मही द्यौः’ इत्यादि मन्त्रावृत्त्या मध्ये एकं, पूदिदिक्षु चतुरः इत्येवं पञ्च कुंभान्संस्थाप्य वरुणपूजां कृत्वा प्रतिमासु देवता आवाहयेत् । मध्ये -

भद्रा अग्नेर्वध्र्यश्वस्य सन्दृशो वामी प्रणीतिः सुरणा उपेतयः । यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत्" [[TODO: परिष्कार्यम्]]

इति भद्रां, पूर्वे - ‘आ सत्येन॰’ इति सूर्यं, दक्षिणे - ‘कद्रुद्राय॰’ इति रुद्रं, पश्चिमे - ‘गणानान्त्वा॰’ इति गणपतिं, उत्तरे -

तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि । तन्नो नन्दिः प्रचोदयात् [[TODO: परिष्कार्यम्]]

इति ऋषभञ्चावाह्य सम्पूज्य पुष्पमालादिभिः कलशान्भूषयित्वा, निर्वापाद्यग्निमुखान्ते ग्रहेभ्यः सवित्रे च पक्वं हुत्वा स्विष्टकृदवदानाद्यन्वाधानोक्तप्रकारेणोपहोमं कृत्वा स्विष्टकृदादिपूर्णाहुत्यन्ते बलिं दत्वोत्तरपरिषेकादि होमशेषं समापयेत् ॥ अथ धृतनववस्त्रं पत्नीशिशुसहितं यजमानं

आपो हि ष्ठा॰ समुद्रज्येष्ठा॰

इत्यादि वारुणैर्ग्रहादिमन्त्रैश्चाभिषिश्चेत् ॥ ततो यजमानो धृतनवशुक्लाम्बरोऽभिषेकवस्त्रमाचार्याय दत्वा आचार्यं सम्पूज्य गां सपीठं कलशं निरीक्षितमाज्यञ्च दत्वा ब्राह्मणभोजनादि कर्मशेषं समापयेत् ॥