॥ ग्रहणजननशान्तिविधिः ॥ (बो. गृ. शे. सू. ६.८)
अथातो ग्रहणजननशान्तिं व्याख्यास्यामः -
ग्रहणे चन्द्रसूर्यस्य प्रसूतियदि जायते ।
व्याधिपीडा भवेत्स्त्रीणामादौ तु ऋतुदर्शनात् ॥
इत्थं सञ्जायते यस्तु तस्य मृत्युर्न संशयः ।
व्याधिपीडा च दारिद्र्यं शोकश्च सततं भवेत् ॥
शान्तिं तेषां प्रवक्ष्यामि नराणां हितकाम्यया ।
यस्मिन्नृक्षे विशेषेण ग्रहणं सम्प्रजायते ॥
तदृक्षाधिपते रूपं सुवर्णेन प्रकल्पयेत् ।
यथाशक्त्यनुरूपेण वित्तशाठ्यं न कारयेत् ॥
सूर्यग्रहे सूर्यरूपं सुवर्णेन स्वशक्तितः ।
चन्द्रं चन्द्रग्रहे धीमान् रजतेन विशेषतः ॥
राहुरूपं प्रकुर्वीत सीसकेन विशेषतः ।
शुचौ देशे प्रयत्नेन गोमयेन प्रलेपयेत् ॥
तस्योपरि न्यसेद्धीमान्नववस्त्रं सुशोभनम् ।
त्रयाणाञ्चैव रूपाणां स्थापनं तत्र कारयेत् ॥
रक्ताक्षता रक्तागन्धा रक्तपुष्पाम्बराणि च ।
सूर्यग्रहे प्रदातव्यं सूर्यप्रीतिकरञ्च यत् ॥
राहवे चैव दातव्यं कृष्णपुष्पाम्बराणि च ॥
दद्यान्नक्षत्रनाथाय श्वेतगन्धानुलेपनम् ॥
सूर्यं सम्पूजयेद्धीमानासत्येन च मन्त्रतः ।
चन्द्रग्रहे च पालाशैः समिद्भिर्जुहुयान्नरः ॥
दूर्वाभिर्जुहुयाद्धीमान् राहोः सम्प्रीणनाय च ।
समिद्भिर्ब्रह्मवृक्षोत्थैर्भेशाय (नक्षत्राधिपतये) जुहुयाद् बुधः ॥
आज्येन चरुणा चैव तिलैश्च जुहुयात्ततः ।
पञ्चगव्यैः पञ्चरत्नैः पञ्चत्वक्पञ्चपल्लवैः ॥
जलैरोषधिकल्कैश्च सहितैः कलशोदकैः ।
अभिषेकं प्रकुर्वीत यजमाने प्रयत्नतः ॥
आपो हिष्ठादिभिस्त्रिभिः हिरण्येति चतसृभिः ।
पवमानानुवाकेन तथा वरुणसूक्तकैः ॥
इमम्मे गङ्गे पितरस्तत्त्वा यामीति मन्त्रकैः ।
अभिषेके निवृत्ते तु यजमानः समाहितः ॥
आचार्यं पूजयेत्पश्चात्सुशान्तो विजितेन्द्रियः ।
तस्मै दद्यात्प्रयत्नेन भक्त्या प्रतिकृतित्रयम् ॥
दक्षिणाभिश्च संयुक्तं यथाशक्त्यनुसारतः ।
ब्राह्मणान्भोजयित्वा तु प्रणिपत्य क्षमापयेत् ॥
तेभ्योऽपि दक्षिणां दद्याद्यजमानः समाहितः ।
अनेन विधिना शान्तिं कृत्वा सम्यग्विशेषतः ॥
अकालमृत्युं शोकञ्च व्याधिपीडां न चाऽऽप्नुयात् ।
सौख्यं सौमनसं नित्यं सौभाग्यं लभते नरः ॥
इत्थं ग्रहणजातानां सर्वारिष्टविनाशनम् ॥इत्याह भगवान् बोधायनः ॥
प्रयोगः
अथ प्रयोगः ॥ सूर्यग्रहणे प्रसूतौ तत्कालीननक्षत्रदेवतायाः सूर्यस्य च स्वर्णप्रतिमे कृत्वा, सीसेन राहुप्रतिमां कुर्यात् । चन्द्रग्रहणे तत्कालीननक्षत्रदेवतायाः स्वर्णप्रतिमां, राजतं चन्द्रबिम्बं, सीसेन राहुप्रतिमाञ्च कुर्यात् ॥ ॥ आशौचान्ते गोमुखप्रसवशान्तिं कृत्वा,
ममाऽस्य शिशोः सूर्य (चन्द्र) ग्रहणकालजननसूचिताऽकालमृत्यु-शोक दारिद्र्य-व्याधिपीडादि सर्वारिष्टपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं सूर्य (चन्द्र) ग्रहणजननशान्तिं करिष्ये
इति सङ्कल्प्य, गणेशपूजनाद्यृत्विग्धरणान्तं कुर्यात् ॥ (ग्रहयज्ञः कृताकृतः) पुण्याहे -
सूर्य (चन्द्र) राहु-नक्षत्रदेवताः प्रीयन्ताम्
इति विशेषः । अग्निं प्रतिष्ठाप्य,
सूर्य (चन्द्र) ग्रहणजननशान्तिहोमं करिष्ये॰ वरदो नामाऽग्निः, सूर्यो (चन्द्रो) राहुः (कृत्तिकानक्षत्रे ) अग्निश्च देवताः, (रोहिण्यादिषु यथायथं देवतानाम ऊह्यम् ) चरर्हविः, उपहोमे - आसत्येनेति मन्त्रेणार्कसमिच्चर्वाज्यतिलद्रव्यैः प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, ‘कया नश्चित्र’ इति मन्त्रेण तैरेव द्रव्यैरष्टोत्तरशतसङ्ख्याकाहुतिभिः,
अग्निर्नः पातु॰ यस्य भान्ति॰
इति मन्त्राभ्यां तैरेव द्रव्यैः प्रतिमन्त्रं प्रतिद्रव्यं चतुःपञ्चाशदावृत्त्याऽष्टोत्तरशतसङ्ख्याकाहुतिभिः, ‘अग्निः स्विष्टकृत्’
इत्याद्यन्वाधाय प्रणीता प्रणयनान्तेऽग्रेणाग्निं गोमयेनोपलिप्ते शुचौ देशेऽहतं वासः प्राग्दशं प्रसार्य वस्रोपरि विधिवत्स्थंडिलं कृत्वा कलशत्रयं प्रतिष्ठाप्य मध्ये सूर्यप्रतिमां दक्षिणतो राहुप्रतिमामुत्तरतो नक्षत्रदेवताप्रतिमाञ्च विन्यस्य, मध्ये ‘आ सत्येन॰’ इति सूर्यमावाह्य रक्तवर्णैर्वस्त्रगन्धाक्षतपुष्पैर्धूपदीपादिभिश्च पूजयेत् । तद्दक्षिणे - ‘कया नश्चित्र॰’ इति राहुमावाह्य कृष्णवर्णैर्वस्त्रगन्धादिभिः पूजयेत् ॥ सूर्यस्योत्तरतः –‘अग्निर्नः पातु॰’ इति मन्त्रद्वयेन नक्षत्रदेवतामावाह्य श्वेतगन्धादिभिः पूजयेत् ॥ (चन्द्रग्रहणे तु - मध्ये ‘आ प्यायस्व॰’ इति मन्त्रेण चन्द्रमावाह्य श्वेतगन्धादिभिः पूजनमिति विशेषः, राहुनक्षत्रयोः पूजनं पूर्ववत्) निर्वापे सूर्याय (चन्द्राय) राहवे अग्नये तण्डुलनिर्वापादि पक्वहोमान्तं कृत्वा स्विष्टकृतमवदायान्तःपरिधौ निधाय ‘आ सत्येन॰’ इति मन्त्रेणाऽर्कसमिदाज्यचरुतिलद्रव्यैरष्टोत्तरशताहुतीर्हत्वा, “कया नश्चित्रः॰" इति मन्त्रेण दुर्वासमिच्चर्वाज्यतिलद्रव्यैरष्टोत्तरशताहुतीर्तुत्वा,
अग्निर्नः पातु॰ यस्य भान्ति
इति मन्त्राभ्यां पलाशसमिच्चर्वाज्यतिलद्रव्यैः प्रतिमन्त्रं चतुःपञ्चाशदावृत्त्याऽष्टोत्तरशताहुतीर्जुहुयात् ॥ (चन्द्रग्रहणे चन्द्राय ‘आ प्यायस्व॰’ इति मन्त्रेण पलाशसमिच्चर्वाज्यतिलैस्तथैव जुहुयादिति विशेषः) ततः स्विष्टकृदादि होमशेषं समाप्य पञ्चगव्यपञ्चत्वक्पञ्चरत्नपञ्चपल्लवैरोषधिकल्कैश्च मिश्रितकलशोदकैरभिषेकः - ‘आपो हि ष्ठा॰’ इत्यादिभिर्वरुणसूक्तेन ‘इमम्मे गङ्गे॰’ इत्येकया ‘पितरः पितामहाः’ इत्येतेन ‘तत्त्वा यामि’ इत्यृचा ग्रहमन्त्रैश्च ॥ अभिषेकान्ते आचार्यं सम्पूज्य तस्मै ग्रहपीठं प्रतिमात्रयं दक्षिणाञ्च दद्यात् ॥ अन्येभ्य ऋत्विग्भ्यश्च दक्षिणां दत्वा ब्राह्मणभोजनान्ते आशिषो गृह्णीयात् ॥