३० दिनक्षयव्यतीपातादिजनने जपादिविधिः

दिनक्षय व्यतीपातादिजनने, जपादिविधिः ॥

अथातः सम्प्रवक्ष्यामि जन्मकाले विशेषतः ।
गण्डान्तानाञ्च नामानि महादोषकराणि च ।
दिनक्षये व्यतीपाते व्याघाते विष्टिवैधृतौ ।
शूले गण्डे च परिघे वज्रे च यमघण्टके ॥
कालगण्डे मृत्युयोगे दग्धयोगे सुदारुणे ।
तस्मिन् गण्डदिने प्राप्ते प्रसूतिर्यदि जायते ॥
अतिदोषकरी प्रोक्ता तत्र पापयुते सति ।
विचार्य तत्र दैवज्ञं शान्तिं कुर्याद्यथाविधि ॥
यजनं देवतानाञ्च ग्रहाणाश्ञ्चैव पूजनम् ।
दीपं शिवालये भक्त्या घृतेन परिदापयेत् ॥
अभिषेकं शङ्कराय चाश्वत्थस्य प्रदक्षिणम् ।
आयुर्वृद्धिकरं जाप्यं सर्वारिष्टविनाशनम् ॥
गुरुदैवतविप्राणां पूजनं गोत्रवर्धनम् ।
पुष्ट्यायुस्तुष्टिशान्त्यर्थमभीष्टफलसिद्धये ॥
सर्वारिष्टविनाशाय शान्तियज्ञं समारभेत् ।
शिवाय विधिवद्भक्त्या दीपदानं करोति यः ॥
अखण्डं गोघृतेनैव स वै मृत्युञ्जयेन्नरः ॥
विष्णुमूर्तिं महापुण्यमश्वत्थं श्रीकरं सदा ॥
प्रदक्षिणं नरो भक्त्या कृत्वा मृत्युञ्जयं जपेत् ।
सर्वसम्पत्समृध्यर्थं नित्यं कल्याणवृद्धये ॥
अभीष्टफलसिध्यर्थं कुर्याद्ब्राह्मणभोजनम् ।
अभिषेकं शिवं शान्तिं कृत्वा चैव नरोत्तमः ॥
अकालमृत्यं निर्जित्य दीर्घायुर्जायते नरः ।
गाणपत्यं पुरुषसूक्तं सौर मृत्युञ्जयं शुभम् ॥
रुद्रप्रश्नं शान्तिपाठं जाप्य मृत्युञ्जयी भवेत् ।
मूले वा सर्पगण्डे वा कुर्यादेतानि यत्नतः ॥
आयुर्वृद्धिफलार्थाय गण्डदोषप्रशान्तये ॥

इति ॥

दिनक्षय-व्यतीपात-व्याघात-विष्टि-वैधृति-शूल-गण्ड-परिघ-वज्र-यमघण्टा-कालगण्ड-मृत्युयोग-दग्धयगादिषु जनने तत्तदुक्तशान्तिं कृत्वा, शिवपूजा-रुद्राभिषेक-शिवालये-घृतदीपप्रदान-विष्णुमूर्तिप्रदक्षिण-अश्वत्थप्रदक्षिण-मृत्युञ्जयजप-गणसूक्त-पुरुषसूक्त-सूर्यसूक्त-नमक-चमक-पञ्चशान्ति-पठनानि कुर्यात् ॥