॥ सूर्यसक्रांतिव्यतीपातवैधृतियोगेषु जन्मनि शान्तिविधिः॥ (वो. गृ. शे. सू. ६. ८ )
अथातः सूर्यसक्रांति-व्यतीपात-वैधृतियोगेषु जन्मनि शान्तिं व्याख्यास्यामः -
अथातः सम्प्रवक्ष्यामि जन्मकाले विशेषतः ।
वैधृतौ हि व्यतीपाते महादोषोऽभिजायते ॥
कुमारजन्मकाले तु व्यतीपातश्च वैधृतिः ।
सङ्क्रान्तिश्च रवेस्तत्र जातो दारिद्र्यकारकः ॥
दरिद्राणां महद्दुःखं व्याधिपीडा महद्भयम् ।
अश्रियं मृत्युमाप्नोति नात्र कार्या विचारणा ॥ स्त्रीणाञ्च शोको दुःखञ्च सर्वनाशकरं भवेत् ।
शान्तिर्वा पुष्कला चेत्स्यात्तत्र दोषो न कश्चन ॥
गोमुखप्रसवं कुर्याच्छान्तिं कुर्यात् प्रयत्नतः ।
जपाभिषेकदानश्च होमानपि विशेषतः ॥
नवग्रहमखं कुर्यात्तस्य दोषोपशान्तये ।
प्रथमं गोमुखाज्जन्म ततः शान्तिं समाचरेत् ॥
गृहस्य पूर्वदिग्भागे गोमयेनानुलेपयेत् ।
अलङ्कृतं स्वदेशे तु व्रीहिराशिं प्रकल्पयेत् ॥
पञ्चद्रोणमितं धान्यं तदर्धं तण्डुलेन च ।
तदर्धन्तु तिलैः कुर्यादन्योन्योपरि कल्पयेत् ॥
तृतीयराशौ द्रव्यस्य अष्टपत्रं लिखेद्बुधः ।
पुण्याहं वाचयित्वा तु आचार्यं वृणुयात्पुरा ।
आचार्यवन्तं धर्मज्ञं कुलीनञ्च कुटुम्बिनम् ।
मन्त्रतन्त्रार्थतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥
पञ्चाङ्गभूषणं दद्यात्पट्टवस्त्राङ्गुलीयकम् ।
राशौ प्रतिष्ठितं कुम्भमव्रणं सुमनोहरम् ॥
तीर्थोदकेन सम्पूर्य समृदोषधिपल्लवम् ।
पञ्चगव्यं पञ्चरत्नं वस्त्रायुग्मेन वेष्टयेत् ॥
तस्योपरि न्यसेत्पात्रं सूक्ष्मवस्त्रेण संयुतम् ।
प्रतिमां स्थापयेद्धीमान्साधिप्रत्यधिदेवताम् ।
चन्द्रादित्याकृती पार्श्वे मध्ये वैधृतिमर्चयेत् ।
एवमेव व्यतीपातशान्तौ सङ्क्रमणस्य च ॥
भानोरुत्तरतो रुद्रमग्निं दक्षिणतो यजेत् ।
निष्कमात्रेण चार्धन पादेनाऽपि स्वशक्तितः ॥
प्रतिमाः कारयेद्धीमाँस्तत्तल्लक्षणलक्षिताः ।
प्रतिमापूजनार्थाय वस्त्रयुग्मं निवेदयेत् ॥
अधिदेवो भवेत्सूर्यश्चन्द्रः प्रत्यधिदैवतम् ।
तत्तद्व्याहृतिपूर्वेण तत्तन्मन्त्रेण पूजयेत् ।
त्र्यम्बकेति च मन्त्रेण प्रधानप्रतिमां यजेत् ।
उदुत्यमिति मन्त्रेण सूर्यपूजां समाचरेत् ॥
आप्यायस्वेति मन्त्रेण सोमपूजां समाचरेत् ।
उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः ॥
अर्चितं गन्धपुष्पाद्यैर्गुडनैवेद्यमर्पयेत् ।
मृत्युञ्जयेन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥
अष्टोत्तरसहस्रं वा अष्टोत्तरशतन्तु वा ।
अष्टाविंशति वा चाथ प्रजप्याऽथ स्वशक्तितः ॥
सौरं षडृचसूक्तञ्च सोमार्थं सोममन्त्रतः ।
ऋचां प्राची मृगारी च पावमान्यो यजुस्तथा ॥
जपेच्च पौरुषं सूक्तं त्रियम्बकमतः परम् ।
कुम्भं स्पृष्ट्वा चतुर्दिक्षु जपं कुर्युस्तथर्त्विजः ॥
कुम्भस्य पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् ।
स्वगृह्योक्तविधानेन कारयेत्संस्कृतानलम् ॥
त्र्यम्बकेति च मन्त्रेण समिदाज्यचरून्हुनेत् ।
अष्टोत्तरसहस्रं वा त्वष्टोत्तरशतन्तु वा ॥ अष्टाविंशतिहोमं वा स्वस्वशक्त्यनुसारतः ।
मृत्युञ्जयेन मन्त्रेण तिलहोमं समाचरेत् ॥
ततः स्विष्टकृतं हुत्वा ह्यभिषेकञ्च कारयेत् ॥
आपो हि ष्ठेति तिसृभिर्हिरण्येति चतसृभिः ॥
पवमानानुवाकेन अक्षीभ्यामिति मन्त्रतः ।
त्र्यम्बकेणोदुत्यमिति आप्यायस्वेति मन्त्रतः ॥
देवस्य त्वेति मन्त्रेण त्वभिषेकं समाचरेत् ।
अभिषेकाप्लुतं वस्त्रमाचार्याय प्रदापयेत् ॥
श्वेतवस्त्रधरोभूत्वा भूषणाद्यैरलङ्कृतः ।
यजमानः स्त्रिया युक्त आज्यावेक्षणमाचरेत् ॥
आचार्यं पूजयेत्पश्चाद्वस्त्रहेमाङ्गुलीयकैः ।
गोदानं वस्त्रदानञ्च स्वर्णदानं विशेषतः ॥
तद्दोषशमनार्थाय आचार्याय प्रदापयेत् ।
प्रच्छादनपटं दद्यात्ततः शान्तिर्भविष्यति ॥
जापकेभ्यो ब्राह्मणेभ्यो दक्षिणाभिश्च तोषयेत् ।
दीनान्धकृपणेभ्यश्च प्रदद्याद्भूरिदक्षिणाः ॥
ब्राह्मणाञ्छतसङ्ख्याकान्मिष्टान्नैर्भोजयेच्च तान् ।
बन्धुभिः सह भुञ्जीत यथाविभवसारतः ॥
एवं यः कुरुते मर्त्यो नैव दुःखमवाप्नुयात् ।
आयुरारोग्यमैश्वर्यं मातापित्रोः शिशोरपि ॥
सर्वदुःखनिवृत्त्यर्थं पुत्रपौत्रप्रवर्धनम् ।
सर्वान् कामानवाप्नोति शान्तिं कुर्वन् द्विजोत्तमः ॥इति ॥
प्रयोगः
अथ प्रयोगः ॥ शिशुजननाद्वादशेऽन्यस्मिन् वा शुभेह्नि गोप्रसवशान्तिं कृत्वा कर्ता सपत्नीक आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अऽस्य शिशोर्वैधृतिजननसूचितसकलारिष्टनिरसनद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहमखपूर्वकं वैधृतिजननशान्तिं करिष्ये,
इति सङ्कल्प्य (व्यतीपातादौ तु तत्सङ्कल्पः संक्रान्तिदिने वैधृतौ शान्तिद्वयं पृथक्कार्यम् । यदा तु व्यतीपाते सङ्क्रमस्तदा तन्त्रेण शान्तिः । द्विगुणो वा प्रधानहोमः ॥) गणशपूजनादि ऋत्विग्वरणान्तं कुर्यात् ॥ पुण्याहे
आदित्यादिनवग्रह देवताः प्रीयन्ताम्
वैधृतिशान्तौ-
रुद्रसूर्यसोमाः प्रीयन्ताम्
(व्यतीपातसङ्क्रमणयोः शान्तौ - ‘सूर्याऽग्निरुद्राः प्रीयन्ताम्’ इति विशेषः)॥ अथाऽऽचार्यो देवयजनाल्लेखनाद्याग्निं प्रतिष्ठाप्य ग्रहमखपूर्वकवैधृति (व्यतीपातसङ्क्रमणयोः) शान्तिहोमं करिष्ये, वैधृतिशान्तिहोमः कर्म॰ इत्यादि ग्रहकीर्तनान्ते वरदो नामाऽग्निः वैधृतौ - रुद्रसूर्यसोमा दवताः, (व्यतीपातसङ्क्रमणयोः - सूर्याऽग्निरुद्रा देवताः ) चरुर्हविः, उपहोमे - वैधृतौ-रुद्रं त्र्यम्बकमन्त्रेण समिदाज्यचरुद्रव्यैः अष्टोत्तरसहस्राऽष्टोत्तरशताष्टाविंशत्यन्यतमसंख्याकाहुतिभिः सूर्यं सोमञ्च
उदु त्यं॰, आ प्यायस्व॰
इति मन्त्राभ्यां तैरेव द्रव्यैः प्रतिद्रव्यमष्टाविंशतिसङ्ख्याकाहुतिभिः । (व्यतीपातसङ्क्रमणयोः - सूर्यं — ‘उदु त्यं॰’ इति मन्त्रेण समिदाज्यचरुद्रव्यैः प्रतिद्रव्यं अष्टोत्तरसहस्राऽष्टोत्तरशताऽष्टाविंशत्यन्यतमसङ्ख्याकाहुतिभिः अग्निं रुद्रञ्च
अग्निं दूतं॰ त्र्यम्बकं॰
इति मंत्राभ्यां तैरव द्रव्यैः प्रतिद्रव्यमष्टाविंशतिसंख्याकाहुतिभिः यक्ष्ये ।) द्वयोरपि - त्र्यम्बकमन्त्रेण मृत्युञ्जयं आज्याक्ततिलैरष्टोत्तरसहस्राऽष्टोत्तरशताऽष्टाविंशत्यन्यमसंख्याकाहुतिभिः । अर्यमादयः स्विष्टकृतः इत्यादि सङ्कल्प्याऽन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निं ग्रहानावाह्य तदुत्तरतः पञ्चद्रोणव्रीहिभिः सार्धं द्रोणद्वयतण्डुलैः सपादद्रोणतिलैश्चाऽन्तरान्तरितैः पीठं विरचय्याष्टदळोपरि कलशत्रयं ‘मही द्यौः’ इति संस्थाप्य तत्र सप्तमृत्तिकाः सर्वोषधीः पञ्चपल्लवान्पञ्चगव्यमष्टगन्धं पञ्चरत्नानि च निक्षिप्य प्रत्येकं वस्त्रयुग्मेनावेष्ट्य वरुणं सम्पूज्य वैधृतौ - मध्यदक्षिणोत्तरक्रमेण स्वर्णनिर्मिता रुद्रादित्यसोमप्रतिमाः संस्थाप्य, मध्ये - त्र्यम्बकमन्त्रेण रुद्रं, दक्षिणतः -
उदु त्यं जातवेदसं॰
इति सूर्यं, उत्तरतः -‘आ प्यायस्व॰’ इति सोमं (व्यतीपातसङ्क्रमणयोः - स्वर्णप्रतिमायां - मध्ये ‘उदु त्यं॰’ इति सूर्यं, दक्षिणतः - ‘अग्निं दूतं॰’ इत्यग्निं, उत्तरतः -
त्र्यम्बकं यजामहे
इति रुद्रञ्चावाह्य ) व्याहृतिपूर्वकं सम्पूजयेत् ॥ अथर्त्विजश्चतुर्दिक्षूपविष्य कुम्भमन्वारभ्य – अष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिं वा ‘त्र्यबकं’ इति मन्त्रं,
सूर्यो देवीमुषसँ राचमानामर्यः । न योषामभ्येति पश्चात् ॥ यत्रा नरो देवयन्तो युगानि । वितन्वते प्रतिभद्राय भद्रम् ॥ १ ॥ भद्रा अश्वा हरितः सूर्यस्य । चित्रा एतग्वा अनुमाद्यासः ॥ नमस्यन्तो दिव आ पृष्ठमस्थुः । परिद्यावापृथिवी यन्ति सद्यः॥ २ ॥ तत्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततँसञ्जभार । यदेदयुक्त हरितः सधस्थात् । आद्रात्रीवासस्तनुतेऽसिमस्मै ॥ ३ ॥ तन्मित्रस्य वरुणस्याऽभिचक्षे । सूर्यो रूपं कृणुते धोरुपस्थं ॥ अनन्तमन्यदुर्शदस्य पाजः । कृष्णमन्यद्धरितः सम्भरन्ति ॥ ४ ॥ अद्या देवा उदिता सूर्यस्य । निरँहसः पितानिरवद्यात् । तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः ॥ ५ ॥ दिवो रुक्म उरुचक्षा उदेति । दूरे अर्थस्तरणिजमानः ॥ नूनञ्जनाः सूर्येण प्रसूताः । आयन्नर्थानि कृणवन्नपाँसि ॥६॥ [[TODO: परिष्कार्यम्]]
इति सूर्यसूक्तं,
सोमो धेनुँसोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु ॥ सादन्यं विदथ्यँ सभेयम् । पितु श्रवणं यो ददाशवस्मै ॥ १ ॥ अषाढं युत्सु पृतनासु पप्रिंम् । सुवर्षामप्स्वां वृजनस्य गोपाम् ॥ भरेषुजाँ सुक्षितिँ सुश्रवसम् । जयन्तन्त्वामनुमदेम सोम ॥ २ ॥ त्वँ सोम कर्तुभिः सुक्रतुर्भूः। त्वं दक्षैः सुदक्षो विश्ववेदाः ॥ त्वं वृषा वृषत्वेभिर्महित्वा । हुम्नेभिर्युम्न्यभवो नृचक्षाः ॥ ३ ॥ या ते धामानि हविषा यजन्ति । ता ते विश्वा परिभूरस्तु यज्ञम् ॥ गयस्फानः प्रतरणः सुवीरः । अवीरहा प्रचरा सोम दुर्यान् ॥ ४ ॥ त्वमिमा ओषधीः सोम विश्वाः । त्वमपो अजनयस्त्वनाः ॥ त्वमाततन्योर्वन्तरिक्षम् । त्वं ज्योतिषा वितमो ववर्थ ॥ ५ ॥ या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्वोषधष्विप्सु ॥ तभिर्नो विश्वैः सुमना अहेडन् । राजन्सोम प्रति हव्या गृभाय ॥ ६ ॥ [[TODO: परिष्कार्यम्]]
इति सोमसूक्तं,
ऋचां प्राची॰, अग्नेर्मन्वे॰, पवमानः सुवर्जनः
इत्यनुवाकत्रयं, पुरुषसूक्तं, रुद्रसूक्तञ्च जपेयुः । अथ चरुनिर्वापादिग्रहहोमं कृत्वा, रुद्रादित्यसोमेभ्यः (व्यतीपातसङ्क्रमणयोः सूर्यग्निरुद्रेभ्यः) प्रत्येकं पक्वं जुहुयात् ॥ ततः स्विष्टकृतमवदायान्तःपरिधौ निधाय अन्वाधानोक्तक्रमेणोपहोमाद्युत्तरपरिषेकात्प्राक् कृत्वा ग्रहेभ्यः प्रधानदेवताभ्यश्च बलिं दत्वा होमशेष समापयेत् ॥ ततः पत्नीशिशुसहितं यजमानं कलशजलेन ‘आपो हि ष्ठा॰’ इति तिसृभिः ‘हिरण्यवर्णा॰’ इति चतसृभिः ‘अक्षीभ्यां॰’ इति यक्ष्मसूक्तेन पावमानीभिर्ग्रहमन्त्रैः प्रधानदेवतामन्त्रैः
सुरास्त्वामभिषिञ्चन्तु॰
इति पौराणमन्त्रैश्चाभिषिश्चेत् ॥ अभिषेकाप्लुतवस्त्रं आचार्याय दद्यात् ॥ अथ सपत्नीको यजमानः आज्यमवेक्ष्य सदक्षिणं ब्राह्मणाय दत्वा आचार्यं सम्पूज्य तस्मै वस्त्रयुगं गां हेमाङ्गुलीयकं यथाशक्ति सुवर्णं सपीठं कलशं च दत्वाऽन्येभ्यश्च ऋत्विग्भ्यो भूयसीं दत्वा मिष्टान्नेन शतं ब्राह्मणान्संभोज्य आशिषो गृह्णीयात् ॥