२७ दर्शशान्तिविधिः

॥ दर्शशान्तिविधिः ॥ (बो, गृ. शे. सू. ६. ६ )

अथातो दर्शशान्तिविधिं व्याख्यास्यामः –

अथातो दर्शजातस्य मातापित्रोर्दरिद्रता ।
तद्दोषपरिहारार्थं शान्तिं वक्ष्यामि साम्प्रतम् ॥
पुण्याहं वाचयित्वादौ क्रतुसङ्कल्पपूर्वकम् ।
कुण्डञ्च मण्डपं कुर्यात्तद्देशे स्थापयेद्घटम् ॥
तत्कुम्भे निक्षिपेद्द्रव्यं दधिक्षीरघृतादिकम् ।
न्यग्रोधोदुम्बराश्वत्थसचूता निम्बकास्तथा ॥
एतेषां वृक्षमूलानां त्वगादीन्पल्लवाँस्तथा ।
पञ्चरत्नानि निक्षिप्य वस्त्रयुग्मेन वेष्टयेत् ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
आपो हि ष्टेत्यृचेनाथ कया नश्चित्र इत्यृचा ।
यत्किञ्चेदमृचा चैव रुद्रप्रश्नञ्च त्र्यम्बकम् ॥
अग्नाविष्णू जपेद्धीमानग्नेः पूर्वप्रदेशके ।
हारिद्रं रक्तकञ्चैव कृष्णं श्वेतञ्च नीलकम् ॥
एतेषां तण्डुलैश्चैव सर्वतोभद्रमुद्धरेत् ।
दर्शस्य देवतायाश्च सोमसूर्यस्वरूपकाः ॥
प्रतिमाः स्वर्णजा नित्यं राजतीं ताम्रजां तथा ।
सर्वतोभद्रमध्ये च स्थापयेद्दर्शदैवतम् ॥
ग्रहवर्णं वस्त्रयुग्मं तद्वर्णं गन्धपुष्पकम् ।
आप्यायस्वेति मन्त्रेण सविता पश्चात्तमेव च ॥
उपचारैः समाराध्य ततो होमं समाचरेत् ।
अथ वह्निं प्रतिष्ठाप्य ऋतुसङ्कल्पमीदृशम् ।
आयुरारोग्यसिध्यर्थं सर्वारिष्टप्रशान्तये ।
पुत्रस्य दर्शजननदोषनिर्हरणाय च ॥
मातापित्रोः कुमारस्य सर्वारिष्टप्रशान्तये ।
तेषामायुः श्रियं लब्धुं शान्तिहोमं करोम्यहम् ॥
समिधश्च चरुद्रव्यं क्रमेण जुहुयाद्द्विजः ।
हुनेत्सवितृमन्त्रेण सोमो धेनुञ्च मन्त्रतः ॥
एतैर्मन्त्रैश्च प्रत्येकं हुनेदष्टोत्तरं शतम् ।
दर्शस्य देवताहोममष्टाविंशतिसङ्ख्यया ॥
होममेवन्तु कृत्वाऽथ विध्याचाराभिषेचनम् ।
आपो हि ष्ठा हिरण्येति यद्देवा वरुणेत्यृचः ॥
एतैर्मन्त्रैरभिषेकं मातापित्रोः शिशोस्तथा ।
ततः स्विष्टकृदादि स्याद्धोमशेषं समापयेत् ॥
हिरण्यं रजतञ्चैव कृष्णा धेनुश्च दक्षिणा ।
अन्येभ्योऽपि यथाशक्ति दातव्या दक्षिणा तथा ॥
ब्राह्मणान् भोजयेत् तत्र कारयेत् स्वस्तिवाचनम् ॥

प्रयोगः

अथ प्रयोगः ॥ कर्ता कृतनित्यक्रियः पवित्रपाणिः सपत्नीकः शिशुना सहादौ गोप्रसवशान्तिं विधाय स्वासने उपविश्य देशकालौ सङ्कीर्त्य

अस्य शिशोर्दर्शजननसूचितमाता-पितृ-शिशूनां सर्वारिष्टनिरसनद्वारा आयुरारोग्यैश्वर्यप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां दर्शजननशान्तिं करिष्ये

इति सङ्कल्प्य, गणपतिं संपूज्य

आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, पितृसोमसूर्याः प्रीयन्ताम्

इति पुण्याहं वाचयित्वा आचार्यादीन्वृत्वा, स्थण्डिलोल्लेखनाद्यग्निं प्रतिष्ठाप्य सग्रहमखदर्शजननशान्तिहोमं करिष्ये, सग्रहमखदर्शजननशान्तिहोमः कर्म, ग्रहकीर्तनान्ते वरदो नामाग्निः, पितरः सोमः सूर्यश्च देवता, चरुर्हविः, उपहोमेग्रहान्ते, पितॄन् -

ये चेह पितरः॰

इति मन्त्रेण समिच्चरुभ्यां प्रतिद्रव्यमष्टाविंशतिसङ्ख्याकाहुतिभिः, सोमं सूर्यञ्च

सोमो धेनुं॰, सविता पश्चात्तात्॰

इति मन्त्राभ्यां समिच्चरुभ्यां प्रतिमन्त्रं प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, ब्रह्मादिमण्डलदेवतानाममन्त्रेणैकैकयाज्याहुत्या यक्ष्ये स्विष्टकृतः अर्यमादयो देवता इत्यादि सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निं ग्रहमण्डलं सर्वतोभद्रमण्डलञ्च विरच्य, ग्रहमण्डले विधिवद्ग्रहानावाह्य सम्पूज्य, सर्वतोभद्रमण्डले ब्रह्मादिमण्डलदेवता आवाह्य, तन्मध्ये - मध्यदक्षिणोत्तरकमेण कलशत्रयं प्रतिष्ठाप्य, मध्ये कलशे सुवर्णप्रतिमायां

ये चेह पितरः॰

इति मन्त्रेण पितॄन्, तद्दक्षिणकलशे रजतप्रतिमायां

आ प्यायस्व॰

इति मन्त्रेण सोमं, उत्तरकलशे ताम्रप्रतिमायां

सविता पश्चात्तात्॰

इति सूर्यञ्चावाह्य सम्पूज्य, निर्वापाद्यग्निमुखान्तं कृत्वा ।

आयुरारोग्यसिध्यर्थं सर्वारिष्टप्रशान्तये ॥
पुत्रस्य दर्शजननदोषनिर्हरणाय च ॥
मातापित्रोः कुमारस्य सर्वारिष्टप्रशान्तये ॥
तेषामायुः श्रियै चैव शान्तिहोमं करोम्यहम्

इति यजमानेन सङ्कल्पे कृते ग्रहपक्कहोमं कृत्वाऽवदानधर्मेणावदाय

तत्सवितुर्वरेण्यं॰

इत्यनुद्रुत्य

ये चेह पितरः॰

इति जुहोति ॥ (पितृभ्य इदं॰) ॥ पुनरवदाय - सावित्र्याऽनुद्रुत्य ‘आ प्यायस्व॰’ इति जुहोति ॥ (सोमायेदं॰) ॥ पुनरप्यवदाय सावित्र्याऽनुद्रुत्य ‘सविता पश्चात्तात्॰’ इति जुहोति ॥ (सूर्यायदं॰) ॥ स्विष्टकृतमवदायान्तःपरिधौ निधायान्वाधानोक्तक्रमणोपहुत्योत्तरपरिषेकात्प्राक् कृत्वा हुतशेषेण बलिदानान्ते उत्तरपरिषेकादि होमशेषं समापयेत् ॥ तत आवाहितदेवताः पुनः सम्पूज्य कलशोदकेन आपो हि ष्टा॰, हिरण्यवर्णाः॰, वरुणसूक्तपवमानानुवाकाभ्यां मातापित्रोः शिशोश्चाभिषेकं कुर्यात् ॥ ततो ब्राह्मणान्सम्पूज्य साङ्तासिध्यर्थं कृष्णां गां सपीठं कलशं हिरण्यं रजतञ्चाऽऽचार्याय दत्वा ऋत्विग्भ्यो यथाशक्ति हिरण्यं दद्यात् ॥ ततः शान्तिमन्त्रपठनम् ॥ यथाशक्ति ब्राह्मणान् भोजयित्वा स्वस्तिवाचनपूर्वकं आशिषो गृह्णीयात् ॥