२६ सिनीवालीकुहोर्जन्मनि शान्तिविधिः

॥ सिनीवालीकुहोर्जन्मनि शान्तिविधिः ॥ ( बो. गृ. शे. सू. ६. ५)

अथातः सिनीवालीकुह्वोर्जन्मनि शान्तिं व्याख्यास्यामः -

सिनीवाल्यां प्रसूता स्याद्यस्य भार्या पशुस्तथा ।
गवाश्वं महिषी चैव शक्रस्याऽपि श्रियं हरेत् ॥
ये च सन्ति द्विजाश्चान्ये स्वप्रसादोपजीविनः ।
वर्जयेत्तानशेषाँस्तु पशुपक्षिमृगादिकान् ॥
कुहूप्रसूतिरत्यन्तं सर्वदोषकरी नृणाम् ।
यस्य प्रसूतिरत्र स्यात्तस्याऽऽयुर्धननाशनम् ॥
सर्वगण्डसमस्तत्र दोषस्तु प्रबलो भवेत् ।
नारी विनाऽवशेषाणां परित्यागो विधीयते ॥
परित्यागात्तत्र शान्तिं कुर्याद्धीमान्विचक्षणः ।
तत्फलं तत्क्षणार्धेन पुनरेव विलीयते ॥
न त्यजेत्पण्डितो मोहार्थादज्ञानतोऽपि वा ।
तद्योगं नाशयेदाशु स्वयं वा नाशमृच्छति ॥
कल्पोक्तशान्तिः कर्तव्या शीघ्रं दोषापनुत्तये ।
रुद्रः शक्रश्च पितरः पूज्याः स्युर्देवताः क्रमात् ॥
कर्षमात्रसुवर्णेन तदर्धार्धेन वा पुनः ।
अथवा शक्तितः कुर्याद्वित्तशाठ्यविवर्जितः ॥
प्रतिमां कारयेच्छम्भोश्चतुर्भुजसमन्विताम् ।
त्रिशूलखड्गवरदाभयहस्तां यथाक्रमात् ॥
श्वेतवर्णां श्वेतपुष्पां श्वेताम्बरवृषस्थिताम् ।
त्र्यम्बकेति च मन्त्रेण पूजां कुर्याद्यथाविधि ॥
इन्द्रश्चतुर्भुजो वज्राङ्कुशचापसुसायकी ।
रक्तवर्णो गजारूढो यत इन्द्रति मन्त्रतः ॥
पितरः कृष्णवर्णाश्च चतुर्हस्ता विमानगाः ।
यष्ट्यक्षसूत्रकमण्डल्वभयानाञ्च धारिणः ॥
ये चेह इति मन्त्रेण पूजां कुर्यादनन्तरम् ।
आग्नेयीं दिशमारभ्य कुम्भान्कोणेषु विन्यसेत् ॥
तन्मध्ये स्थापयेत्कुम्भं शतच्छिद्रसमन्वितम् ।
तेष्वेव पञ्चगव्यादीँस्तत्तन्मन्त्रैश्च निक्षिपेत् ॥
कल्पोक्तशान्तिः कर्तव्या शीघ्रमेव प्रयत्नतः ।
गोदानं वस्त्रदानञ्च सुवर्णञ्चौर्णकं शुभम् ॥
दशदानानि चोक्कानि क्षीरमाज्यं गुडस्तथा ।
आज्याऽवेक्षणमेतानि यजुर्मन्त्रेण कारयेत् ॥
समिदाज्यचरोर्होमं तिलमाषैश्च सर्षपैः ।
अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः ॥
अष्टोत्तरशतं मुख्यं प्रत्येकं जुहुयाद्द्विजः ॥
त्र्यम्बकेति च मन्त्रेण तिलान्व्याहृतिभिः पुनः ॥
चतुर्भिः कलशैर्युक्तं बृहत्कुम्भसमन्वितम् ।
शान्तिवत्कलशैः कार्यमभिषेकञ्च मन्त्रतः ॥
पितृमातृशिशूनाञ्च अभिषिञ्चेत्तु वारुणैः ।
शङ्करस्याभिषेकञ्च कुर्याद्ब्राह्मणभोजनम् ॥
अन्येषाञ्चैव सर्वेषां ब्राह्मणानाञ्च तर्पणस् ।
यथाशक्ति तदा कार्यं द्विजवाचनकं तथा ॥

इति ॥ ॥

तत्राऽमावास्यायाः प्रथमो यामः सिनीवाली । अन्त्योपान्ययामौ कुहूः । मध्यवर्तिपञ्च यामा दर्शः

इति केचित् ॥

अपरे तु चतुर्दशीमात्रयुतेऽहोरात्रे वर्तमाना अमावास्या सिनीवाली । प्रतिपन्मात्रयुतेऽहोरात्रे वर्तमाना कुहूः ॥

इति ॥

कुहूप्रसूतिरत्यर्थं सर्वदोषकरी स्मृता । यस्य प्रसूतिरेतेषां तस्यायुर्धननाशकृत् ॥
शान्त्यभावेऽर्हति त्यागमत्र जातो न संशयः ॥

प्रयोगः

अथ प्रयोगः ॥ शिशुजननादेकादशे द्वादशे वा दिवसेन्यस्मिन् वा शुभे दिने कर्ता सपत्नीक आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य

अऽस्य शिशोः सिनीवाली (कुहू) जननसूचितसर्वारिष्टनिरसनद्वारा दीर्घायुरारोग्यप्राप्त्यर्थं श्रीपरमेश्वर प्रीत्यर्थं सग्रहमखां सिनीवाली (कुहू) जननशान्तिं करिष्ये,

इति सङ्कल्प्य गणेशपूजनाद्यृत्विग्वरणान्तं कुर्यात् ॥ पुण्याहे -

आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, त्र्यम्बकः प्रीयताम्

इति विशेषः ॥ तत आचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, ग्रहमखपूर्वकसिनीवाली (कुह) जननशान्तिहोमं करिष्ये॰, ग्रहान्वाधानांते - वरदो नामाऽग्निः, त्र्यम्बको देवता, चरुर्हविः, उपहोमे - त्र्यम्बकमन्त्रेण अश्वत्थप्लक्षपलाशखदिरसमिञ्चर्वाज्यसर्षपतिलमाषद्रव्यैः प्रतिद्रव्यं अष्टोत्तरशतसङ्ख्याकाहुतिभिः इन्द्रं पितॄंश्च

यत इन्द्र॰ ये चेह पितरः॰

इति मन्त्राभ्यां तैरेव द्रव्यैः प्रतिद्रव्यं अष्टाविंशातसङ्ख्याकाहुतिभिः त्र्यम्बकमन्त्रेण समस्तव्याहृतिभिश्च आज्याक्ततिलद्रव्यैरष्टाविंशतिसङ्ख्याकाहुतिभिर्यक्ष्ये । अर्यमादयः स्विष्टकृतः इत्यादि सङ्कल्प्यान्वाधाय प्रणीताप्रणयनान्ते अग्रेणाऽग्निं व्रीहिभिर्यवैर्वा दक्षिणोत्तरं स्थण्डिलद्वयं कृत्वा दक्षिणस्थण्डिले ग्रहानावाह्य उत्तरस्थण्डिले मध्ये शतच्छिद्रकलशं दक्षिणे इन्द्रकलशं उत्तरे पितृकलशं प्रतिष्ठाप्य तेषु विध्युक्तप्रकारेण स्वर्णनिर्मितास्त्र्यंबकेन्द्रपितृप्रतिमाः क्रमेण विन्यस्य,

त्र्यबकं यजामहे॰, यत इन्द्र भयामहे॰, ये चेह पितरा॰

इति मन्त्रैस्तत्तद्देवता आवाह्य आग्नेय्यादिविदिक्षु चतुरः कुम्भान् प्रतिष्ठाप्य तेषु तत्सवितुरियादिना पश्चगव्यानि

(गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥
तथा शुक्रमसीत्याज्यं देवस्य त्वा कुशोदकम्)

‘स्योना पृथिवि’ इति सप्तमृदः पञ्चत्वचः ‘ओषधयः संवदन्ते’ इति सप्तधान्यानि च प्रक्षिप्य

इमं मे वरुण॰, तत्त्वा यामि॰, त्वं नो अग्ने॰, सत्वं नो अग्ने॰

इति क्रमेण वरुणमावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ त्र्यम्बकं श्वेतगन्धपुष्पादिभिः पूजयेत् ॥ ततो भद्रं कर्णेभिः इत्यादि पञ्च शान्तिं पठित्वा हविर्निर्वापाद्यग्निमुखान्तं कृत्वा ग्रहपक्वान्ते ‘त्र्यम्बकं’ इति मन्त्र द्विरभ्यस्य पक्वं जुहुयात् । (त्र्यम्बकायेदं॰) ॥ ततः स्विष्टकृदवदानान्ते ग्रहानुपहुत्य त्र्यम्बकमन्त्रेण अश्वत्थप्लक्षपलाशखदिरसमिच्चर्वाज्यसर्षपतिलमाषद्रव्यैः प्रतिद्रव्यमष्टोत्तरशतवारं हुत्वा (त्र्यम्बकायेदं॰)

यत इन्द्र भयामहे

इति मन्त्रेण इन्द्रं (इन्द्रायेदं॰)

ये चेह पितरो ये च नेहयाँश्च विद्मयाँ उ च न प्रविद्म । त्वं वेत्थ यदि ते जातवेदः स्वधाभिर्यज्ञँ सुकृतं जुषस्व स्वाहा ॥ [[TODO: परिष्कार्यम्]]

इति मन्त्रेण पितॄंश्च (पितृभ्य इदं॰) तैरेव द्रव्यैः प्रतिद्रव्यं अष्टाविंशत्यष्टाविंशतिसङ्ख्याकाहुतिभिर्तुत्वा । पुनस्त्र्यम्बकमन्त्रेण समस्तव्याहृतिभिश्चाऽऽज्याक्ततिलैः प्रत्येकमष्टाविंशत्यष्टाविंशतिवारं जुहुयात् ॥ ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा ग्रहदेवताभ्यस्त्र्यम्बकायेन्द्राय पितृभ्यः क्षेत्रपालाय च बलिं दद्यात् बलिं दद्यात् ॥ अथोत्तरपरिषेकादि होमशेषं समाप्याऽऽवाहितदेवताः पुनः सम्पूज्य ग्रहकलशजलसहितचतुःकुम्भजलयुतशतच्छिद्रेण मातृपितृशिशूनामभिषेकः -

ॐ इमम्मे वरुण॰ तत्वा यामि॰ त्वं नो अग्ने॰ स त्वं नो अग्ने॰ दधिक्राव्णो आपो हि ष्ठाः॰ हिरण्यवर्णाः॰ पवमानः सुवर्जनः॰ देवस्य त्या॰

इति ॥ ततो ब्राह्मणान्सम्पूज्याऽऽचार्याय सपीठं कलशदानं ऋत्विग्भ्यो यथाशक्ति दक्षिणां सप्तदशदानानि च दद्यात् ॥ ‘गवामङ्गेषु॰’ इति गोदानम् ।

शरण्यं सर्वलोकानां लज्जया रक्षणं परम् ।
सुवेषधारि वस्त्रत्वमतः शान्तिं प्रयच्छ मे

इति वस्त्रदानम् ॥ ‘हिरण्यगर्भ॰’ इति स्वर्णदानम् ॥

ऊर्णावस्त्रं चारुचित्रं देवानां प्रीतिवर्धनम् ।
सुखस्पर्शकरं यस्मादतः शान्तिं॰’

इत्यूर्णकदानम् ॥ ततो दशदानानि दद्यात् ॥ तत्र गां

सर्व भूताश्रया भूमिः॰

इति भुवञ्च दत्वा तिलदानं -

महर्षेर्गोत्रसम्भूताः कश्यपस्य तिलाः स्मृताः ।
तस्मादेषां प्रदानेन मम पापं व्यपोहतु

इति ॥ उक्तमन्त्रेण हिरण्यं दत्वाऽऽज्यदानं -

कामधेनुषु सम्भूतं सर्वक्रतुषु संस्थितम् ।
देवानामाज्यमाहार अतः शान्तिं॰

इति ॥ उक्तमन्त्रेण वासो दत्वा धान्यदानं -

सर्वदेवमयं धान्यं सर्वोत्पत्तिकरं महत् ।
प्राणिनाञ्जीवनोपायमतः शान्तिं॰

इति ॥ गुडदानम् –

यथा देवेषु विश्वात्मा प्रवरश्च जनार्दनः ।
सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥
प्रणवः सर्वमन्त्राणां नारीणां पार्वती तथा ।
तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥
मम तस्मात्परां शान्तिं ददस्व गुड सर्वदा

इति ॥ रौप्यदानं -

प्रीतिर्यतः पितॄणाञ्च विष्णुशङ्करयोः सदा ।
शिवनेत्रोद्भवं रूप्यमतः शान्तिं॰

इति ॥ लवणदानं -

यस्मादन्नरसाः सर्वे नोत्कृष्टा लवणं विना ।
शम्भोः प्रीतिकरं नित्यमतः शान्तिं॰

इति ॥ अथ क्षीरदानं -

क्षीरजातास्तथा शङ्खाः क्षीरादमृतसम्भवः ।
क्षीरात्क्षीरोदवत्कीर्तिः क्षीरे प्राणस्य सम्भवः ॥
तस्मात्क्षीरप्रदानेन ह्यतः शान्तिं॰

इति ॥ आज्यगुडावुक्तमन्त्रेण दद्यात् ॥ अथाऽऽज्यपूर्णे कांस्यपात्रे पूर्वोक्तविधिना सकुदुम्बः प्रतिरूपं वीक्ष्य दद्यात् ॥ ततो रुद्राभिषेकादिना शंकरमाराध्य ब्राह्मणान्सम्भोज्याऽऽशिषो गृह्णीयात् ॥