॥ कृष्णचतुर्दशीजननशान्तिविधिः ॥ (बो. गृ. शे. सू. ६. ४ )
अथ कृष्णचतुर्दशीजननशान्तिं व्याख्यास्यामः –
कृष्णपक्षे चतुर्दश्यां प्रसूतेः षड्विधं फलम् ।
चतुर्दशीं च षड्भागां कुर्यादादौ शुभं स्मृतम् ॥
द्वितीये पितरं हन्ति तृतीये मातरन्तथा ।
चतुर्थे मातुलं हन्ति पञ्चमे वंशनाशनम् ॥
षष्ठे तु धनहानिस्स्यादात्मनो वंशनाशनम् ।
तस्मात्सर्वप्रयत्नेन शान्तिं कुर्याद्विधानतः ॥
आचार्यं वरयेद्धीमान्पुत्रदारसमन्वितम् ।
स्वकर्मनिरतं शान्तं श्रोत्रियं वेदपारगम् ॥
सर्वालङ्कारसंयुक्तं सर्वलक्षणसंयुतम् ।
ब्राह्मणानृत्विजश्चैव स्वस्तिवाचनपूर्वकम् ॥
रुद्रोऽधिदेवता तस्याः कर्षमात्रसुवर्णतः ।
तदर्धेन च वा कुर्याद्वित्तशाठ्येन वर्जितः ॥
प्रतिमां कारयेच्छम्भोः सर्वलक्षणसंयुताम् ।
वृषभेण समासीनं वरदाभयपाणिकम् ॥
शुध्दस्पटिकसङ्काशं श्वेतमाल्याम्बरान्वितम् ।
त्र्यम्बकेति च मन्त्रेण पूजां कुर्याद्विधानतः ॥
स्थापयेच्चतुरः कुम्भांश्चतुर्दिक्षु यथाक्रमम् ।
पुण्यतीर्थजलोपेतान्धान्यस्योपरि विन्यसेत् ॥
शतौषधानि निक्षिप्य श्वेतवस्त्रैश्च वेष्टयेत् ।
शुभानि चैव पुष्पाणि श्वेतानि परिवेष्टयेत् ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयान्तु यजमानस्य दुरितक्षयकारकाः ॥
आवाह्य वारुणैर्मन्त्रैरुक्तक्रमविधानतः ।
इमम्मे वरुणेत्यनया तत्वा यामीत्यृचा तथा ॥
त्वन्नो अग्ने च मन्त्रेण स त्वन्न इति च क्रमात् ।
आग्नेयकुम्भमारभ्य पूजां कुर्याद्यथाकमम् ॥
रुद्रप्रश्नं वसोर्धारामग्नेर्मन्वे शतायुधम् ।
हिरण्यवर्णापवमानौ ऋचाम्प्राची यथाक्रमम् ॥
जप्त्वा पुरुषसूक्तञ्च पञ्चरुद्रं क्रमाज्जपेत् ।
ईश्वरस्याभिषेकञ्च ग्रहपूजाञ्च कारयेत् ॥
पूजाकर्म च निर्वर्त्य होमं कुर्याद् विधानतः ।
गृहस्येशानदिग्भागे कुण्डं कुर्याद्विधानतः ॥
विस्तारायामखातञ्च अरनिद्वयसंयुतम् ।
कुण्डकण्ठं परित्यज्य समन्तादङ्गुलिक्रमात् ॥
मेखलोच्छ्रायविस्तारे चतुस्त्रिद्व्यङ्गुलिक्रमात् ।
पश्चिमे मध्यभागे तु योनिं कुर्याद्विधानतः ॥
योनिंषडङ्गुलां तिर्यग्द्वादशाङ्गुलदैर्घ्यकाम् ।
अश्वत्थदलसङ्काशां किञ्चिन्निम्नायतां शुभाम् ॥
कुर्यादाचारपर्यन्तं स्वगृह्योक्तविधानतः ।
समिदाज्यचरूंश्चैव तिलमाषांश्च सर्षपैः ॥
अश्वत्थप्लक्षपालाशसमिद्भिः खादिरैः शुभैः ।
अष्टोत्तरसहस्रं वा ह्यष्टोत्तरशतन्तु वा ॥
अष्टाविंशतिमेतैश्च होमं कुर्यात् पृथक्पृथक् ।
त्र्यम्बकेति च मन्त्रेण तिलान् व्याहृतिभिः क्रमात् ॥
ग्रहहोमं ततः कृत्वा पूर्वोक्तेन विधानतः ।
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥
सर्वालङ्कारयुक्तानां त्रयाणामभिषेचनम् ।
चतुर्भिः कलशैरद्भिर्वृहत्कुम्भसमन्वितम् ॥
धौताम्बराणि धृत्वाऽथ कुर्यादाज्यावलोकनम् ।
पूर्णाहुतिञ्च जुहुयाद्यजमानः समाहितः ॥
तत्सर्वं वरया भक्त्या हीश्वराय निवेदयेत् ।
सर्वालङ्कारसंयुक्तां सवत्सां गां पयस्विनीम् ।
प्रतिमां वस्त्रयुग्मञ्च आचार्याय निवेदयेत् ।
अन्येषाञ्चैव सर्वेषां कुर्याद्ब्राह्मणभोजनम् ॥
तस्मादनेन विधिना वित्तशाठ्यविवर्जितः ।
एवं यः कुरुते शान्तिं सर्वपापैः प्रमुच्यते ।
सर्वान्कामानवाप्नोति चिरञ्जीवी सुखी भवेत् ॥इत्याह भगवान् बोधायनः ॥ ॥
अत्र द्वितीय-तृतीय-षष्ठांशजनने गोमुखप्रसवमादौ कुर्यादिति धर्मसिन्धौ ॥
प्रयोगः
अथ प्रयोगः ॥ शुभे दिने आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
अस्य शिशोः कृष्णचतुर्दश्या अमुकांऽशजननसूचितपित्ररिष्टादि सर्वारिष्टनिरसनद्वारा क्षेमायुरारोग्यप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां कृष्णचतुर्दशीजननशान्तिं करिष्ये,
इति सङ्कल्प्य तदङ्गत्वेन गणपतिं संपूज्य
आदित्यादिनवग्रहदेवताः प्रीयन्तां, त्र्यम्बकः प्रीयतां
इति पुण्याहं वाचयित्वा । देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य
ग्रहमखपूर्वककृष्णचतुर्दशीजननशान्तिहोमं करिष्ये-ग्रहमखपूर्वककृष्णचतुर्दशीजननशान्तिहोमः कर्म, ग्रहकीर्तनान्ते वरदो नामाऽग्निः, त्र्यम्बको देवता, चरुर्हविः, उपहोमे-त्र्यम्बकमन्त्रेण अश्वत्थप्लक्षपलाशखदिरसमिच्चर्वाज्यतिलमाषसर्षपद्रव्यैः प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः समस्तव्याहृतिभिराज्याक्ततिलद्रव्येणाष्टोत्तरशतसङ्ख्याकाहुतिभिः अर्यमादयः स्विष्टकृतः'
इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं व्रीहिभिर्यवैर्वा दक्षिणोत्तरं स्थण्डिलद्वयं कृत्वा दक्षिणस्थण्डिले ग्रहानावाह्य उत्तरस्थण्डिलमध्ये त्र्यम्बककलशं तस्याऽग्नेयादिविदिक्षु चतुरः कलशांश्च विधिना संस्थाप्य मध्यकलशे - ‘स्योना पृथिवि॰’ इति सप्तमृदः, ‘अश्वत्थे वः’ इति पञ्चपल्लवान् पञ्चत्वचः पञ्चधान्यानि सर्वौषधीश्च निक्षिप्य श्वेतवस्त्रेण संवेष्ट्य वरुणपूजान्ते त्र्यम्बकप्रतिमां कर्षतदर्धतदर्धान्यतमपरिमितहेमनिर्मितां वराभयाङ्कितहस्तद्वयां वृषभारूढां स्थापयित्वा त्र्यम्बकमन्त्रेण शुद्धस्फटिकसङ्काशं श्वेतमाल्यांबरावृतं ध्यात्वा त्र्यम्बकमावाह्य
सद्योजातं प्रपद्यामि, आसनं समर्पयामि
इत्यादि रुद्रस्नानार्चनाभिषेकविध्यनुसारेण श्वेतपुष्पादिभिः पूजयेत् ॥ अथाऽग्नेयकलशे - ‘इमम्मे वरुण॰’ इति वरुणमावायेत् । एवमेव नैर्ऋतकलशे - ‘तत्त्वा यामि॰’ इति मन्त्रेण, वायव्यकलशे - ‘त्वन्नो अग्ने॰’ इति मन्त्रेण, ऐशानकलशे - ‘स त्वन्नो अग्ने॰’ इति मन्त्रेण क्रमेण वरुणमावाह्य षोडशोपचारैरभ्यर्चयेत् ॥ पूजान्ते
सर्वे समुद्राः॰ देवदानव॰
इति वरुणं प्रार्थयेत् ॥ ततः कलशमन्वारभ्य -
नमस्ते रुद्र मन्यवे॰
इति प्रश्नं, ‘अग्नाविष्णू॰’ इत्येकादशानुवाकान्, ‘अग्नर्मन्वे॰’ इत्यनुवाकं, ‘शतायुधाय॰’ इति पञ्चाज्यानीः’ ‘हिरण्यवर्णाः॰’ इति चतुरो मन्त्रान् , ‘पवमानः सुवर्जनः॰’ ‘ऋचां प्राची॰’ इत्यनुवाकद्वयम्, पुरुषसूक्तं, सद्योजातादि पञ्चानुवाकांश्च जपेयुः ॥ निर्वापकाले-ग्रहनिर्वापान्ते-त्र्यम्बकाय चरुं निरुप्य प्रोक्ष्याज्य संस्काराद्यग्निमुखान्तं कृत्वा, ग्रहाणां पक्वं हुत्वा त्र्यम्बकमन्त्रं द्विरभ्यस्य पक्वं जुहुयात् । (त्र्यम्बकायेदं॰) ततः स्विष्टकृतमवदायान्तःपरिधौ निधायाऽन्वाधानोक्तक्रमेणोपहोमं कृत्वा स्विष्टकृदादिपूर्णाहुत्यन्ते ग्रहदेवताभ्यस्त्र्यम्बकाय क्षेत्रपालाय च बलिं दद्यात् ॥ उत्तरपरिषेकादिहोमशेषं समाप्य कलशोदकेन दधिक्राव्ण इत्यादिभिः पूर्वोक्तमन्त्रैश्च सपत्नीकं यजमानं शिशुञ्चाभिषिञ्चेत् ॥ ततो यजमानोऽहते वाससी परिधाय आज्यपूर्णपात्रे सकुटुम्ब आत्मनः प्रतिरूपं
यन्मे मनः॰ धारयामासि
इत्यवेक्ष्य दक्षिणासहितं तदाज्यं ब्राह्मणाय दद्यात् ॥ तत आचार्याय रुद्रपीठं ग्रहपीठं सोपस्करां गाञ्च ऋत्विग्भ्यो हिरण्यञ्च दत्वा कृतस्य सग्रहमखकृष्णचतुर्दशीजननशान्तिकर्मणः साङ्गतासिध्यर्थं यथाशक्ति ब्राह्मणान्यथोपपन्नेनान्नेन यथावकाशेन भोजयिष्ये । तेभ्यश्च यथाशक्ति भूयसीं दक्षिणां दातुमहमुत्सृजे । तेन श्रीपरमेश्वरः प्रीयताम् इति कर्मेश्वराय समर्पयेत् । ततो ‘प्रमादात्कुर्वतां’ इति विष्णुं स्मृत्वा द्विराचामेत् ॥