॥ आश्लेषाजननशान्तिविधिः ॥
(बो. गृ. शे. सू. ६. ३)
आश्लेषायान्तु जातानां शान्तिं वक्ष्याम्यतः परम् ।
जातस्य द्वादशाहे च शान्तिहोमं समाचरेत् ॥
असम्भवे तु जन्मर्क्षे ह्यन्यस्मिन् वा शुभे दिने ।
स्नातोऽभ्यङ्गादिभिस्तस्मिन्वरयेत्तु द्विजोत्तमान् ॥
विभवे पञ्च कुम्भांस्तु द्वयं वा तदलाभतः ।
देवतास्थापने चैकमेकं रुद्राभिमन्त्रणे ॥
मूलर्क्षोक्तप्रकारेण कुम्भे निक्षिप्य पूजयेत् ।
गोमयालेपिते देशे वालुकापरिशोभिते ॥
पङ्कजं कारयेत्तत्र चतुर्विंशतिपत्रकैः ।
तण्डुलैः कारयेद्यद्वा रक्तपीतसिताऽसितैः ॥
कर्णिकायां न्यसेद्व्रीहीन्स्थापयेत्तेषु कुम्भकम् ।
आ जिघ्रेति च मन्त्रेण कलशस्थापनं शुभम् ॥
इमं म इति मन्त्रेण पूरयेत्तीर्थवारिणा ।
कुम्भं सुवस्त्रगन्धाद्यैस्तत्तन्मन्त्रैश्च पूजयेत् ॥
याः फलिनीरित्यनया क्षिपेद्रत्नौषधादिकान् ।
कुम्भोपरिस्थपात्रेषु आश्लेषाप्रतिमां यजेत् ॥
निष्कनिष्कार्धपादैर्वा कारयित्वा स्वशक्तितः ।
तत्पूर्वोत्तरनक्षत्रे दक्षिणोत्तरयोर्यजेत् ॥
ऐन्द्रादीशानपर्यन्तमितरर्क्षाणि पूजयेत् ।
मूलोक्तेन विधानेन कुम्भयोरभिमन्त्रणम् ॥
रुद्रार्चा रुद्रकुम्भे तु पूर्ववच्छेषमाचरेत् ।
नमोऽस्तु सर्पेभ्य इति पूजामन्त्रः प्रचोदितः ॥
सर्पो रक्तस्त्रिनेत्रश्च द्विभुजः पीतवस्त्रकः ।
फलकासिधरस्तीक्ष्णो दिव्याभरणभूषितः ॥
एवं ध्यात्वा ततोऽभ्यर्च्य होमकर्म समारभेत् ।
कर्तुः शाखोक्तमार्गेण आचार्यस्याथवाऽऽचरेत् ॥
मुखान्तं कर्म निर्माय हविरादाय शास्त्रतः ।
इदँ सर्पेभ्यो जुहुयात् साधिप्रत्यधिदैवतम् ॥
अष्टोत्तरशतं वाथ ह्यष्टाविँशतिमेव वा ।
मूलनक्षत्रवच्छेषहोमं तत्र समारभेत् ॥
पूर्णाहुत्यन्तकर्माणि कृत्वा सम्पातकं तथा ।
कुम्भाज्जलन्तु प्रक्षिप्य त्वभिषेकमथाऽऽरभेत् ॥
दारपुत्रसमेतस्य यजमानस्य पूर्ववत् ।
अभिषिञ्चेत्तदाऽऽचार्य ऋत्विग्भिः सहितस्ततः ॥
अभिमन्त्रितकुम्भाऽद्भिरभिषेचनमाचरेत् ।
तथा पौराणमन्त्रैश्च पल्लवैरभिषेचयेत् ॥
आश्लेषाऋक्षजातस्य माता पित्रोर्धनस्य च ।
भ्रातृज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु ॥
योऽसौ वागीश्वरो नाम चाऽधिदेवो बृहस्पतिः ।
मातापित्रोश्शिशोश्चैव गण्डान्तञ्च व्यपोहतु ॥
त्रातारः सर्वभूतानां रक्षन्तु पितरः सदा ।
सर्पनक्षत्रजातस्य वित्तञ्च ज्ञातिबान्धवान् ॥
एवं कृतेऽभिषेके तु सर्पशान्तिर्भवेद्ध्रुवम् ॥
ततः शुक्लाम्बरधरो यजमानः सुभूषितः ।
दक्षिणाभिस्ततो विप्रान् मूलवच्च प्रतोषयेत् ॥
भुक्तवद्भ्यश्च विप्रेभ्यः स्वीकुर्यादाशिषं गृही ।
इत्युक्तेन विधानेन सर्वाऽरिष्टं व्यपोहति ॥
सर्वे कामाश्च सिध्यन्ति वेदोक्तायुर्भविष्यति ।
इत्युक्तं सर्पशान्त्यर्थसारमागमचोदितम् ॥
मानवानां हितार्थाय मनुना सर्वकामिकम् ।
सर्पाधीश नमस्तुभ्यं नागानाञ्च गणाधिप ॥
गृहाणार्घ्यं मया दत्तं सर्वारिष्टप्रशान्तये ।
मूलनक्षत्रवत्कुर्यात्सर्पगण्डे स्वनामतः ॥
सर्वदोषोपशान्तय इत्याह भगवान् बोधायनः ॥ ॥
धर्मसिन्धौ -
आश्लेषासर्वपादेषु शान्तिः कार्या प्रयत्नतः ।
जातस्य द्वादशाहे तु शान्तिकर्म समाचरेत् ॥
असम्भवे तु जन्मर्क्षे अन्यस्मिन्वा शुभे दिने ॥
आश्लेषायाः क्रमेण पञ्चसप्तद्वित्रिचतुरष्टैकादशषण्नवपञ्चेति दशधाविभक्तनाडीषु क्रमेण-राज्यं, पितृनाशो, मातृनाशः, कामभोगः, पितृभक्तिः, बलं, हिंसकत्वं, त्यागो, भोगो, धनमिति फलानि ॥ अथ पादविभागेन फलम् - तत्राद्यः पादः शुभः । द्वितीये पादे धनस्य नाशः । तृतीये मातुः, चतुर्थे पितुः आश्लेषान्त्यपादत्रयजाता कन्या श्वश्रूं हन्ति । एवमेव वरः अन्त्यपादत्रयजः श्वश्रूं हन्ति । अतः शान्तिः कार्या ॥
प्रयोगः
अथ प्रयोगः ॥ शिशुजननाद्वादशेऽन्यस्मिन्वा शुभदिवसे पूर्वोक्तप्रकारेण गोमुखप्रसवशान्तिं विधाय, कर्ता सपत्नीक आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
ममाऽस्य शिशोराश्लेषानक्षत्रजननसूचितसर्वाऽरिष्टनिरसनद्वारा सर्वेषां दीर्घायुष्याभिवृध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखामाश्लेषानक्षत्रजननशान्तिं करिष्ये,
इति सङ्कल्प्य तदङ्गत्वेन गणपतिपूजनं नान्दीश्राद्धम्
आदित्यादि नवग्रहदेवताः प्रीयन्तां, सर्पबृहस्पतिपितरः प्रीयन्ताम्
इति पुण्याहवाचनं ऋत्विग्वरणञ्च कुर्यात् ॥ तत आचार्यो देवयजनोल्लेखनाद्याग्निं प्रतिष्ठाप्य समित्रयमादाय ग्रहशान्तिपूर्वकमाश्लेषाजननशान्तिहोम करिष्ये॰ ग्रहान्वाधानमुक्त्वा वरदो नामाग्निः, सर्पबृहस्पतिपितरः प्रधानदेवताः, कृसरान्नं हविः, उपहोमे -
इदँसर्पेभ्यः॰ ये रोचने॰ इति प्रतिमन्त्रं चतुःपंचाशत्संख्याकाभिः बृहस्पतिः प्रथमं॰ तिष्यः पुरस्तात्॰ उपहूताः पितरः॰ ये अग्निदग्धा॰
इति प्रतिमन्त्रं चतुर्दशसङ्ख्याकाभिः कृसरान्नेन ‘सर्पेभ्यः स्वाहा’ इत्यादि नक्षत्रत्रयोपहोममन्त्रैरेकैकयाज्याहुत्या, (अपि वा सर्पान्सप्तर्चेन सर्पसूक्तेन, बृहस्पतिं षडृचेन बृहस्पतिसूक्तेन, पितॄनष्टादशर्चेन पितृसूक्तेन अर्यमाद्या अदित्यन्ता नक्षत्रदेवताश्च नाममन्त्रेणैकैकयाज्याहुत्या यक्ष्ये)। स्विष्टकृतः अर्यमादयो देवताः इत्याधन्वाधाय प्रणीताप्रणयनान्तेऽग्रेणाऽग्निं ग्रहानावाह्य सकर्णिकं चतुर्विंशतिदळयुतं पद्मं विलिख्येत्यादि ज्येष्ठाशान्तिवत्पञ्चकलशान्प्रतिष्ठाप्य वरुणपूजांतं कृत्वा सर्पबृहस्पतिपितृप्रतिमाः संस्थाप्य मध्ये - सर्पो रक्तस्त्रिनेत्रश्च॰ दिव्याभरणभूषितः, इति ध्यात्वा —
इदँसर्पेभ्यः॰ ये रोचने॰
इति मन्त्राभ्यां सर्पान्, दक्षिणे -
बृहस्पतिः प्रथमं॰ तिष्यः पुरस्तात्॰
इति मन्त्राभ्यां बृहस्पतिं, उत्तरे -
उपहूताः पितरः॰ ये अग्निदग्धाः॰
इति मन्त्राभ्यां पितॄंश्चावाह्य चतुर्विशतिदलेषु -
अर्यमणं॰ (१) भगं॰ (२) सवितारं॰ (३) त्वष्टारं॰ (४) वायुं॰ (५) इन्द्राग्नी॰ (६) मित्रं० (७) इन्द्रं॰ (८) निर्ऋतिं॰ (९) अपः॰ (१०) विश्वान्देवान्॰ (११) विष्णुं॰ (१२) वसून्॰ (१३) वरुणं० (१४) अजमेकपादंं॰ (१५) अहिम्बुध्नियं॰ (१६) पूषणं॰ (१७) अश्विनौ॰ (१८) यमं॰ (१९) आग्निं॰ (२०) प्रजापतिं॰ (२१) सोमं॰ (२२) रुद्रं॰ (२३) अदितिं॰ (२४)
इति नाममन्त्रैरावाह्य, उत्तरतः कलशद्वये - सद्योजातादिपञ्चदेवताः, वरुणञ्चावाह्य षोडशोपचारैः पूजयेत् । आचार्यादयः कुम्भमन्वारभ्य पूर्ववद्रुद्रैकादशिन्यादि जपेयुः । प्रधानदेवतासूक्तस्थाने सर्पसूक्तम् -
भूमिर्भूम्ना द्यौर्वरिणाऽन्तरिक्षं महित्वा । उपस्थे ते देव्यदितेऽग्निमन्नादमन्नााद्यायाऽऽदधे ॥ १ ॥ आऽयं गौः पृश्निरक्रमीदसनन्मातरं पुनः । पितरश्च प्रयन्त्सुव: ॥ २ ॥ त्रिँशद्धाम विराजति वातपङ्गाय शिश्रिये । प्रत्यस्य वहद्युभिः ॥ ३ ॥ अस्य प्राणादपानत्यन्तश्चरति रोचना । व्यख्यन्महिषः सुवः ॥ ४ ॥ नमो अस्तु सर्पेम्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ,ये दिवि तेभ्यः सर्पेभ्यो नमः ॥ ५ ॥ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषामप्सुसद: कृतं तेभ्यः सर्पेभ्यो नमः ॥ ६ ॥ या इषवो यातुधानानां ये वा वनस्पतीँरनु । ये वा रेऽवटेषु शेरते तेभ्यः सर्पभ्यो नमः ॥ ७ ॥ [[TODO: परिष्कार्यम्]]
इति ॥ अथ बृहस्पतिसूक्तम्
आ वेधसं नीलपृष्ठं बृहन्तम् । बृहस्पतिँसदने सादयध्वम् ॥ सादद्योनिं दम आ दी दिवाँसम् । हिरण्यवर्णमरुषँसवेम ॥ १ ॥ स हि शुचिः शतपत्रः स शुन्ध्यूः । हिरण्यवाशी ऋषिरः सुवर्षाः ॥ बृहस्पतिः स स्वावेश ऋष्वाः । पुरू सखिभ्य आसुतिं करिष्ठः ॥ २ ॥ बृहस्पति: प्रथमं जायमानः । महो ज्योतिषः परमे व्योमन् ॥ सप्तास्यस्तुवि जातो रवेण । विसप्तरश्मिरधमत्तमँसि ॥ ३ ॥ बृहस्पतिः समजयद्वसूनि । महो व्रजान्गोमती देव एषः ॥ अत: सिषासन्त्सुवर प्रतीत्तः । बृहस्पतिंर्हत्यमित्रर्कै: ॥ ४ ॥ बृहस्पते परिदीया रथेन रक्षोहा मित्राँअपबाधमानः । प्रभञ्जंनसेना: प्रमृणो युधाजयन्नस्माकमेध्यविता रथानांम् ॥ ५ ॥ एवा पित्रे विश्वदेवाय वृष्ण यज्ञैविधम नमसा हविर्भि: । बृहस्पते सुप्रजा वीरवन्तो वयँस्याम पतयो रयीणाम् ॥ ६ ॥ [[TODO: परिष्कार्यम्१]]
इति ॥ अथ पितृसूक्तम् –
उशन्तस्त्वा हवामह उशन्तः समिधीमहि । उशन्नुशत आवह पितृन्हविषे अत्तवे ॥ १ ॥ आनो अग्ने सुकेतुना । रयिं विश्वायु पोषसम् । मार्डिकं धेहि जीवसे ॥ २ ॥ त्वँसोम महे भगन् । त्वं यून ऋतायते ॥ दक्षं दधासि जीवसे ॥ ३ ॥ त्वस्सोम प्रचिकितो मनीषा । त्वररजिष्ठमनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥ ४ ॥ त्वया हि नः पितरः सोम पूर्वे कर्माणि चकुः पवमान धीराः । वन्वन्नवात: परिधीँरपोर्णु वीरेभिरश्वैर्मघवा वर्मघवा भवा नः ॥ ५ ॥ त्वँसोम पितृभिः संविदानोऽनु धावापृथिवी आततन्थ । तस्मै त इन्दो हविषा विधेम वयँस्याम पतयो रयीणाम् ॥ ६ ॥ बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चक्रमा जुषध्वम् । त आगतावसा शन्तमेनाथास्मभ्यँशं योररपो दधात ॥ ७ ॥ आव्हं पितॄन्त्सुविदत्राँ अवित्सि नपातञ्च बिक्रमणञ्च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहाऽऽगमिष्ठाः ॥ ८ ॥ उपहूताः पितरः । सोम्यासो बर्हिव्येषु निधिषु प्रियेषु । त आगमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु ते अवन्त्वस्मान् ॥ ९ ॥ अग्निष्वात्ताः पितर एह । गच्छत सदस्सदस्सदत सुप्रणीतय: । अत्ता हवीँषि प्रयतानि बर्हिष्यथा रयि ँ सर्ववीरं दधातन ॥ १० ॥ अग्निष्वात्तानृतुमतो हवामहे । नराशँसे सोमपीथं य आशुः । ते नो अर्वन्तः सुहवा भवन्तु । शन्नो भवन्तु द्विपदे शं चतुष्पदे ॥ ११ ॥ ये अग्निष्वात्ता येऽनग्निष्वात्ताः । अँहोमुचः पितरः सोम्यासः ॥ परेवदे मृतासो भवन्तः । अधि ब्रुवन्तु ते अवन्वस्मान ॥ १२ ॥ वान्यायै दुग्धे जुषमाणाः करम्भम् । उदीराणा अवरे परेचा । आग्निष्वात्ता ऋतुभिः संविदानाः । इन्द्रवन्तो हविरिदं । जुषन्ताम् ॥ १३ ॥ यदग्ने कव्यवाहन पितृक्ष्यृतावृध: । प्र च हव्यानि वक्ष्यसि देवेभ्यश्च पितृभ्य आ ॥ १४ ॥ त्वमग्न ईडितो । जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवीँषि ॥ १५ ॥ मातली कव्यैर्यमो अङ्गिरोभिवृहस्पतिऋर्क्कभिर्वावृधानः । याँश्च देवा वावृधुर्ये च देवान्स्वाहाऽन्ये स्वधाऽन्ये भदन्ति ॥ १६ ॥ ये तात्पुर्देवत्रा जहमानाः । होत्रा वृध स्तोमतष्टासो अर्कैः ॥ आग्ने याहि सुविद्त्रेभिरर्वादङ । सत्यैः कव्यैः पितृभिर्धर्मसद्भिः ॥ १७ ॥ हव्यवाहमजरं पुरुप्रियम् । अग्निं घृतेन हविषा सपर्यन् ॥ उपासदं कव्यवांह पितृणाम् । स नः प्र॒जां वीरवतीँ समृण्वतु ॥ १८ ॥ [[TODO: परिष्कार्यम्]]
इति ॥ सूक्तत्रयम् ॥ अथ ग्रहदेवताभ्यः सर्पेभ्यो बृहस्पतये पितृभ्यश्च चरुनिर्वापाद्यग्निमुखान्तं समानम् ॥ ग्रहपक्वहोमान्ते -
इदँसर्पेभ्यः॰ ये रोचनेः॰
इति मन्त्राभ्यां सर्पेभ्यः,
बृहस्पतिः प्रथमं॰ तिष्यः पुरस्तात्॰
इति द्वाभ्यां बृहस्पतये,
उपहूताः पितरः॰ ये अग्निदग्धाः॰
इति पितृभ्यश्च पक्कहोमः । स्विष्टकृदवदनान्ते अन्वाधानोक्तक्रमेण सर्प-बृहस्पति-पितृदेवतामन्त्रैः कृसरान्नेन हुत्वाऽग्निञ्चज्यस्थालीञ्चान्तरेण सम्पातार्थं पात्रं निधायाऽऽज्याहुतीरुपजुहोति -
सर्पेभ्यः स्वाहा । आश्रेषाभ्यः॰ । दन्दशूकेभ्यः॰ । बृहस्पतये॰ । तिष्याय॰ । ब्रह्मवर्चसाय॰ । पितृभ्यः॰ । मघाभ्यः॰ । अनघाभ्यः॰ । अगदाभ्यः॰ । अरुन्धतीभ्यः॰ । सर्वत्र, (यथालिङ्गं त्यागः) ॥
(सर्पसूक्तसप्तमन्त्रैः, बृहस्पतिसूक्तषण्मन्त्रैः, पितृसूक्ताष्टादशमन्त्रैः,‘अर्यम्णे स्वाहा’ इत्यादि चतुर्विंशतिमन्त्रैश्च ॥ सर्वत्र, यथालिङ्ग त्यागः) इत्युपहुत्य, स्ष्टिकृदादि पूर्णाहुत्यन्ते - ग्रहदेवताभ्यो दिक्पालदेवताभ्यः प्रधानदेवताभ्यश्च बलिं दत्वोत्तरपरिषेकादि होमशेषं समापयेत् ॥ अथाऽऽवाहितदेवताः पुनः सम्पूज्य,
सर्पाधीश नमस्तुभ्यं नागानाञ्च गणाधिप ।
गृहाणार्घ्यं मया दत्तं सर्वारिष्टप्रशान्तये
इत्यर्घ्यं दत्वा, सम्पाताज्यं कलशोदके निक्षिप्य, सकुटुम्बं सशिशुं यजमानमभिषिञ्चेत् - ‘इदँसर्पेभ्यः॰’ इति मन्त्राभ्यां, ‘बृहस्पतिः प्रथमं॰’ इति मन्त्राभ्यां, ‘उपहूताः पितरः॰’ इति मन्त्राभ्यां, सर्पसूक्तेन, बृहस्पतिसूक्तेन, पितृसूक्तेन, ‘शतायुधाय’ इति पञ्चमन्त्रैः, ‘आ सत्येन’ इत्यादि ग्रहमन्त्रैः,
आश्लेषा ऋक्षजातस्य माता पित्रोर्धनस्य च ।
भ्रातृज्ञातिकुलस्थानां दोषं सर्वं व्यपोहतु ॥
योऽसौ वागीश्वरो नाम चाऽधिदेवो बृहस्पतिः ।
मातापित्रोः शिशोश्चैव गण्डान्तञ्च व्यपोहतु ॥
त्रातारः सर्वभूतानां रक्षन्तु पितरः सदा ।
सर्पनक्षत्रजातस्य वित्तञ्च ज्ञातिबान्धवाः ॥
योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः ।
आश्लेषामूलगण्डान्तदोषमाशु व्यपोहतु ॥
विघ्नेशो क्षेत्रपो दुर्गा क्षेत्रपाला नवग्रहाः ।
सर्वदोषप्रशमनं शीघ्रं कुर्वन्तु शान्तिदाः
‘देवस्य त्वा’ इत्येतैर्मन्त्रैः ॥ ततः आवाहितदेवता उद्वास्य ब्राह्मणान्सम्पूज्य साङ्गतासिध्यर्थमाचार्याय कृष्णां धेनुं सपीठं कलशं ब्रह्मणे कृष्णं वृषं ऋत्विग्भ्यः सुवर्णं च दत्वा ब्राह्मणान्भोजयित्वा भूयसीं दक्षिणां दत्त्वाऽऽशिषो गृह्णीयात् ॥