॥ ज्येष्ठाजननशान्तिविधिः ॥ स्मृत्यन्तरे-
घटिकैका च मैत्रान्ते ज्येष्ठादौ घटिकाद्वयम् ।
तयोस्सन्धिरिति ज्ञेयं शिशुगण्डं समीरितम् ॥ १ ॥
ज्येष्ठाया दशभागेषु आद्ये मातामहीमृतिः ।
मातामहं द्वितीये च तृतीये हन्ति मातुलम् ॥ २ ॥
तुर्ये जातो मातरञ्च हन्त्यात्मानन्तु पञ्चमे ।
गोत्रजान्षष्ठभागे च सप्तमे तूभयं कुलम् ॥ ३ ॥
अष्टमे स्वाग्रजं हन्ति नवमे श्वशुरं तथा ।
दशमांशकजातस्तु सर्वे हन्ति शिशुर्ध्रुवम् ॥ ४ ॥
ज्येष्ठर्क्षे तु पुमान्जातो ज्येष्ठभ्रातुर्विनाशकः ।
ज्येष्ठर्क्षे कन्यका जाता हन्ति शीघ्रं धवाऽग्रजम् ॥ ५ ॥
पादत्रये जातनरो ज्येष्ठोप्यत्र प्रजायते ।
ज्येष्ठान्त्यपादजातस्तु पितुः स्वस्य च नाशकः ॥ ६ ॥
प्रयोगः
अथ प्रयोगः ॥ शिशुजननादेकादशाहे द्वादशाहे वाऽव्यवहितजन्मनक्षत्रेऽन्यतमे वा शुभनक्षत्रे गोमुखप्रसवशान्तिं विधाय कर्ता आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
ममाऽस्य शिशोर्ज्येष्ठानक्षत्रजननसूचितसकलारिष्ट निरसनद्वारा सर्वेषामायुरारोग्यशुभतासिद्ध्यर्थ श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां ज्येष्ठाजननशान्तिं करिष्ये,
इति सङ्कल्प्य । तदङ्गं गणेशपूजनं मातृकापूजनं नान्दीश्राध्दं
आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, इन्द्रमित्रनिर्ऋतयश्च प्रीयन्ताम्
इति पुण्याहवाचनमाचार्यादि वरणं च कुर्यात् । तत आचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य ग्रहमखपूर्वकज्येष्ठाजननशान्तिहोमं करिष्ये॰ ग्रहान्वाधानान्ते वरदो नामाऽग्निः, इन्द्रमित्रनिर्ऋतयो देवताः, कृसरान्नं हविः, स्विष्टकृतः, अर्यमादयो देवताः, इत्यादि सङ्कल्प्याऽन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं ग्रहानावाह्य सम्पूज्य तदुत्तरतो मूलशान्तिवच्चतुर्विंशतिदलान्वितं सकर्णिकं पङ्कजं विरच्य द्रोणपरिमितव्रीहिभिस्तदर्धपरिमिततण्डुलैस्तदर्धपरिमिततिलैश्चोपर्योपरि स्थण्डिलं कृत्वा तन्मध्ये वस्त्रयुग्मेन वेष्टितं कलशत्रयं मध्य दक्षिणोत्तरकमेण, तदुत्तरतः रुद्रकलशं, ईशान्यां - शतच्छिद्रकलशञ्च
मही द्यौः
इत्यादि विधिना प्रतिष्ठाप्य, वरुणपूजान्तं कृत्वा कलशोपरि-अग्न्युत्तारणादिना संस्कृताः सुवर्णनिर्मिता इन्द्रमित्रनिर्ऋतिरुद्रवरुणप्रतिमा विन्यस्य, क्रमेण
इन्द्रो ज्येष्ठां॰, पुरन्दराय॰
इति मन्त्राभ्यां इन्द्रं,
ऋध्यास्म हव्यैः॰, चित्रं नक्षत्रं॰
इति मित्रं,
मूलं प्रजां॰, अहर्नो अद्य॰
इति निर्ऋतिं
सद्योजातादिपञ्चमन्त्रैः
सद्योजातवामदेवाघोरतत्पुरुषेशानान्,
तत्त्वा यामि
इति वरुणञ्च,
पङ्कजदलेषु प्रादक्षिण्येन -
अपः॰ (१)
विश्वान्देवान॰ (२)
विष्णुं॰ (३)
वसून्॰ (४)
वरुणं॰ (५)
अजमेकपादं॰ (६)
अहिं बुध्नियं॰ (७)
पूषणं॰ (८)
अश्विनौ॰ (९)
यमं॰ (१०)
अग्निं॰ (११)
प्रजापतिं॰ (१२)
सोमं॰ (१३)
रुद्रं॰ (१४)
अदितिं॰ (१५)
बृहस्पतिं॰ (१६)
सर्पान्॰ (१७)
पितॄन्॰ (१८)
अर्यमणं॰ (१९)
भगं॰ (२०)
सवितारं॰ (२१)
त्वष्टारं॰ (२२)
वायुं॰ (२३)
इन्द्राग्नी॰ (२४)
एताश्चतुर्विंशतिदेवतास्तत्तन्नाममन्त्रेणाऽवाह्य षोडशोपचारपूजान्तं कुर्यात् ॥
[[711]]
तत आचार्यादयः कुम्भमन्वारभ्य जपेयुः - रुद्रैकादशिनीं, शतायुधायेति पञ्चमन्त्रान्,
आशुः शिशानः
कृणुष्व पाजः
ममाग्ने वर्चः
इति त्रीननुवाकान्, आपो हि ष्ठेति तिस्रः, हिरण्यवर्णा इति चतस्रः, पवमानः सुवर्जनः इत्यनुवाकं, श्रीसूक्तं, पुरुषसूक्तमुत्तरनारायणं
तिष्ठा हरी॰
इति इन्द्रसूक्तं (१३)
मित्रो जनान्यातयति प्रजानन्मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे सत्याय हव्यं घृतवद्विधेम ॥ १ ॥ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनमँहो अश्नोत्यन्तितो न दूरात् ॥ २ ॥ अयं मित्रो नमस्यः सुशेवः । राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयँसुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम ॥ ३ ॥ अनमीवास इडया मदन्तः। मितज्मवो वरिमन्ना पृथिव्याः ॥ आदित्यस्य व्रतभुपक्ष्यन्तः । वयं मित्रस्य सुमतौ स्याम ॥ ४ ॥ मित्रन्न इँशिम्या गोषु गव्यवत् । स्वाधियो विदथे अप्स्वजीजनन् ॥ अरेजयता्ँ रोदसी पाजसा गिरा। पतिप्रियं यजतं जनुषामवः ॥ ५ ॥ महाँ आदित्यो नमसोपसद्यः । यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टम् । अग्नौ मित्राय हविराजुहोत ॥ ६ ॥ [[TODO: परिष्कार्यम्]]
इति मित्रसूक्तं,
चक्षुषो हेते॰
इति निर्ऋतिसूक्तं (९) चेति ॥
[[712]]
अथाऽऽदित्यादिग्रहाणां,
इन्द्राय मित्राय निर्ऋतये
च हविर्निरुप्य, प्रोक्षणादि ग्रहपक्वहोमान्ते -
इन्द्रो ज्येष्ठां॰, पुरन्दरायः
इति द्वाभ्यां इन्द्राय,
ऋध्यास्म हव्यैः॰, चित्रं नक्षत्रं॰
इति मित्राय,
मूलं प्रजां॰, अहर्नो अद्य॰
इति निर्ऋतये, च पक्वं जुहुयात् ॥
ततः स्विष्टकृतमवदायाऽन्तःपरिधि सादयित्वा
इन्द्रो ज्येष्ठां॰, पुरन्दराय॰
इति प्रतिमन्त्रं कृसरान्नेन चतुःपञ्चाशदाहुतीर्हुत्वा
ऋध्यास्म हत्यैः॰ चित्रं नक्षत्र॰ मूलं प्रजा॰ अहर्नो अद्य॰
इति प्रतिमन्त्रं चरुणा चतुर्दशाहुतीर्हुत्वा,
अथाज्याहुतीरुपजुहोति -
इन्द्राय स्वाहा ॥ १ ॥ ज्येष्ठायै॰ ॥ २ ॥ ज्येष्ठ्याय॰ ॥ ३ ॥ अभिजित्यै॰ ॥ ४ ॥ मित्राय॰ ॥ ५ ॥ अनूराधेभ्यः॰ ॥ ६ ॥ मित्रधेयाय॰ ॥ ७ ॥ आभजित्यै॰ ॥ ८ ॥ प्रजापतये॰ ॥ ९ ॥ मूलाय॰ ॥ १० ॥ प्रजायै॰ ॥ ११ ॥ (यथालिङ्गं त्यागः) [[TODO: परिष्कार्यम्]]
अपि वा
तिष्ठा हरी रथ आयुज्यमाना
इतीन्द्रसूक्तेन (१३) प्रत्यृचं (इन्द्रायेद॰ इति सर्वत्र त्यागः)
मित्रो जनान्यातयति
इति मित्रसूक्तेन (६) प्रत्यृचं (मित्रायेद॰ इति सर्वत्र त्यागः)
चक्षुषो हेते
इति निर्ऋतिसूक्तेन (९) प्रत्यृचं (निर्ऋतय इदं॰ इति सर्वत्र त्यागः)
अद्भ्यः स्वाहा
इत्यादिचतुर्विंशतिनक्षत्रनाममन्त्रैः (यथालिङ्गं त्यागः)॥ स्विष्टकृदादि शेषं सर्वं मूलशान्तिवत्कुर्यात् ॥ मूलशब्दस्थाने ज्येष्ठाशब्दः ॥
[[713]]