२२ मूलनक्षत्रजननशान्तिविधिः

॥ मूलनक्षत्रजननशान्तिविधिः॥ (बो गृ. शे सू. ६. २)

अथातो मूलनक्षत्रजननशान्ति व्याख्यास्यामः । अभुक्तमूलोत्पत्तौ वर्षाष्टकान्ते भुक्तमूलोत्पत्तावव्यवहितागामिमूलर्क्ष एकादशाहे द्वादशाहे वाऽन्यतमे वा शुभनक्षत्रे गोमुखप्रसवशान्तिं विधाय मूलशान्तिमारभेत । गोमयेन गोचर्ममात्रं स्थण्डिलं कृत्वा तन्मध्ये हस्तमात्रं स्थण्डिलं विधाय श्रोत्रियागारादग्निमाहृत्य प्रतिष्ठाप्य स्थण्डिलस्य पूर्वभागे वेदिद्वयं प्रकल्प्य तत्र दक्षिणवेद्यां ग्रहमखोक्तविधानेन ग्रहानावाह्य सम्पूज्य तदीशान्यां कलशं सँस्थाप्य पूजयेत् । उत्तरवेद्यां चतुर्विँशतिदलान्वितं सकर्णिकं पङ्कजं निर्माय सितासितरक्तपीतरजोभी रञ्जितं कृत्वा मध्यकर्णिकायां द्रोणपरिमितान्व्रीहीन्स्तदर्धतण्डुलांस्तदर्धतिलाश्चान्योन्योपरि प्रसार्य चतुरश्रं विधाय, तत्राव्रणं तन्तुवेष्टितं कलशं विधिना प्रतिष्ठाप्य मध्ये सद्योजातादीन् पञ्च रुद्रान् क्रमेण प्रस्थाप्य पूजयेत् । कुम्भमुखे शतौषधिपञ्चपल्लवनिर्मितं मण्डलाकारं कृत्वा पूर्णपात्रं निधाय तस्मिन्सौवर्णकृता निर्ऋतीन्द्राऽपोदेवताः प्रागादिचतुर्विँशतिभूमिस्थदलेषु प्रदक्षिणमुत्तराषाढाद्यनूराधान्ता नक्षत्रदेवताश्चावाह्य पूजयेत् । तदुत्तरतः शतच्छिद्रकलशं सँस्थाप्य तत्र वरुणमावाह्य पूजयेत् । नात्र जलपूरणम् । अथर्त्विगाचार्याः कुम्भमन्वारभ्य जपेयुः - नमस्ते रुद्र इति प्रश्नं, अग्नाविष्णू इत्येकादशानुवाकान्, शतायुधायेति पञ्च, आशुः शिशान इत्यनुवाकं, कृणुष्व पाज इत्यनुवाकं, ममाग्न इत्यनुवाकं, आपो हि ष्ठेति तिस्रः, हिरण्यवर्णा इति चतस्रः, पवमानः सुवर्जनः इत्यनुवाकं, श्रीसूक्तं, नारायणमुत्तरनारायणञ्च । अथाऽग्निमुखात्कृत्वा ग्रहान्हुत्वाऽथ कृसरान्नेन मूलं प्रजामिति पुरोनुवाक्यामनूच्य, अहर्नो अद्येति याज्यया जुहोति । अथाऽष्टोत्तरसहस्रमष्टोत्तरशतं वा जुहुयात् । इन्द्रो ज्येष्ठामनु इति पुरीनुवाक्यामनूच्य, पुरन्दराय वृषभायेति याज्यया जुहोति । अष्टोत्तरशतमष्टाविँशतिं वा । या दिव्या आपः पयसेति पुरोनुवाक्यामनूच्य, याश्च कूप्या याश्चेति याज्यया जुहोति । अष्टोत्तरशतमष्टाविँशतिं वा । अथाऽऽज्येनोपहोमाञ्जुहोति - प्रजापतये स्वाहा, मूलाय स्वाहा, प्रजायै स्वाहा, इन्द्राय स्वाहा, ज्येष्ठायै स्वाहा, ज्यैष्ठ्याय स्वाहाऽभिजित्यै स्वाहा, अद्भ्यः स्वाहाऽऽषाढाभ्यः स्वाहा, समुद्राय स्वाहा, कामाय स्वाहाऽभिजित्यै स्वाहा इति । अथ हैके ब्रुवते तत्तत्सूक्तेन वा जुहोतीति । अथ स्विष्टकृदादि बलिं दत्वा पूर्णाहुतिं हुत्वाऽभिषिच्य (वरदानान्तं) सिद्धमाधेनुवरप्रदानात् । एवं ज्येष्ठाऽऽश्लेषैकनक्षत्रजनने च शान्तिं मूलवत्कुर्यात् इत्याह भगवान् बोधायनः ॥

[[705]]

स्मृत्यन्तरे -

पिता म्रियेत मूलाऽऽद्ये पादे पुत्रजनिर्यदि ।
द्वितीये जननीनाशो धननाशस्तृतीयके ॥
चतुर्थे कुलनाशोऽतः शान्तिः कार्या प्रयत्नतः ॥
मूलजा श्वशुरं हन्ति श्वश्रूमाश्लेषजा सुता ।
ज्येष्ठाऽन्ते घटिका चैका मूलादौ घटिकाद्वयम् ॥
अभुक्तमूलमथवा सन्धिनाडीचतुष्टयम् ॥

अभुक्तमूलसम्भवं समाष्टकं पिताऽथवा न तन्मुखं विलोकयेत्

इति ॥

प्रयोगः

अथ प्रयोगः ॥ अभुक्तमूलोत्पत्तौ वर्षाऽष्टकान्ते, भुक्तमूलजनने आगामिमूलनक्षत्रे एकादशे द्वादशेऽह्नि वाऽन्यस्मिन्वा शुभ दिने गोमुखप्रसवशान्ति विधाय, सपत्नीको यजमान आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

अस्य शिशोर्मूलनक्षत्रजननसूचित सर्वारिष्टनिरसनद्वारा सर्वेषां दीर्घायुष्याभिवृद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां मूलनक्षत्रशान्तिं करिष्ये,

इति सङ्कल्प्य तदङ्गतया विहितं गणपतिपूजनं, पुण्याहवाचनं, मातृकापूजनं, नान्दीश्राद्धमाचार्यादिऋत्विग्वरणञ्च यथाक्रमं कुर्यात् ॥ पुण्याहे-

आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, निर्ऋतीन्द्राऽऽपः प्रीयंताम्

इति विशेषः॥ तत आचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्यान्वादध्यात् सग्रहमखमूलनक्षत्रजननशान्तिहोमं करिष्ये,

कपिलो नामाऽग्निः, आदित्यो देवता

इत्यादि ग्रहकीर्तनान्ते वरदो नामाऽग्निः निर्ऋतिरिन्द्र आपश्च देवता, कृसरान्नं हविः, उपहोमे-निर्ऋतिं-मूलं प्रजां॰,

अहर्नो अद्य॰

इति द्वाभ्यां प्रतिमन्त्रं चतुःपञ्चाशदावृत्त्याष्टोत्तरशतसंख्याकाहुतिभिः,

इन्द्रं-इन्द्रो ज्येष्ठां॰, पुरन्दराय॰

इति द्वाभ्याम्,

अपः - या दिव्या, याश्च कूप्याः॰

इति द्वाभ्यां कृसरान्नेन प्रतिमन्त्रं चतुर्दशावृत्त्याऽष्टाविंशतिसङ्ख्याकाहुतिभिः यक्ष्ये, (अपि वा निर्ऋतीन्द्राऽप्सूक्तमन्त्रैः उत्तराषाढादिचतुर्विंशतिनक्षत्रदेवता नाममन्त्रैश्चाज्येन यक्ष्ये) स्विष्टकृतः, अर्यमादयो देवताः इत्यादि सद्यो यक्ष्ये इति सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं नलिनमष्टदलमुल्लिख्य तत्र ‘मही द्यौः’ इत्यादि विधिनाऽऽदित्यादिनवग्रहानावाह्य पूजयेत् ।

[[706]]

तदुत्तरतश्चतुर्विंंशतिदलयुतं सकर्णिकं पङ्कजं विलिख्य सिताऽसितरक्तपीतवर्णैः क्रमेण पूरयित्वा तदुपरि द्रोणपरिमितव्रीहिभिस्तदर्धतण्डुलैस्तदर्धतिलैश्चोपर्युपरि चतुरश्रं स्थण्डिलं कृत्वा वस्त्रयुग्मेन वेष्टितं कलशत्रयं प्रतिष्ठाप्य, तेषु सर्वोषधीर्निक्षिप्य वरुणं सम्पूज्य सुवर्णनिर्मिता निर्ऋतीन्द्राऽपां प्रतिमा अग्न्युत्तारणादिना संस्कृत्य मध्यदक्षिणोत्तरकलशोपरि पूर्णपात्रे प्रतिष्ठाप्य देवता आवाहयेत् - मध्यकलशे-

मूलं प्रजा॰, अहर्नो अद्यः

इति मन्त्राभ्यां निर्ऋतिं, तद्दक्षिणकलशे -

इन्द्रो ज्येष्ठामनु॰, पुरन्दराय॰

इति मन्त्राभ्याम् इन्द्रं, उत्तरकलशे -

या दिव्या आपः॰, याश्च कूप्याः॰

इति मन्त्राभ्याम् अपः, प्रागादिचतुर्विशतिद्लेषु प्रदक्षिणं अक्षतपुतञ्जेषु उत्तराषाढाद्यनुराधान्तनक्षत्रदेवताश्च तत्तन्मन्त्रेणाऽऽवाह्य प्राणप्रतिष्ठां कृत्वा यथाविभवं षोडशोपचारैः पूजयेत् ॥ (आवाहनक्रमः -

ॐ भूर्भुवस्सुवः विश्वेभ्यो देवेभ्यो नमः विश्वान्देवानावाहयामि ॥ १ ॥

एवमेव -

विष्णुं॰ ॥ २ ॥
वसून॰ ॥ ३ ॥
वरुणं॰ ॥ ४ ॥
अजमेक पाद॰ ॥ ५ ॥
अहिं बुघ्निय॰ ॥ ६ ॥
पूषणं॰ ॥ ७ ॥
अश्विनौ॰ ॥ ८ ॥
यमः॰ ॥ ९ ॥
अग्निं॰ ॥ १० ॥
प्रजापतिं॰ ॥ ११ ॥
सोमं॰ ॥ १२ ॥
रुद्रं॰ ॥ १३ ॥
अदितिं॰ ॥ १४ ॥
बृहस्पतिं॰ ॥ १५ ॥
सर्पान्॰ ॥ १६ ॥
पितॄन्॰ ॥ १७ ॥
अर्यमणं॰ ॥ १८ ॥
भगं॰ ॥ १९ ॥
सवितारं॰ ॥ २० ॥
त्वष्टार॰ ॥ २१ ॥
वायुं॰ ॥ २१ ॥
इन्द्राग्नी॰ ॥ २३ ॥
मित्रं॰ ॥ २४ ॥)

तदुत्तरतः - जलपूरितमेकं तण्डुलादिधान्यपूरितशतच्छिद्रमेकं इति कलशद्वयं प्रतिष्ठाप्य वरुणं सम्पूज्य जलपूर्णकलशे सद्योजातं, वामदेवं, अघोरं, तत्पुरुषं, ईशानञ्च तत्तन्मन्त्रैरावाह्य गन्धादिभिः पूजयेत् ॥

[[707]]

ततः सऋत्विगाचार्यःप्रधानकलशमन्वारभ्य वक्ष्यमाणमन्त्रान् जपेत् - रुद्रैकादशिनीं, शतायुधायेति पञ्चमन्त्रान्, आशुः शिशानः॰, कृणुष्व पाजः॰,ममाग्ने वर्चः॰,आपो हि ष्ठेति तिस्रः, हिरण्यवर्णा इति चतस्रः, पवमानः सुवर्जनः॰ इत्यनुवाकं, पुरुषसूक्तमुत्तरनारायणं च, चक्षुषो हे ते इति नवर्चं निर्ऋतिसूक्तं,

ॐ तिष्ठा हरी रथ आ युज्यमाना याहि । वायुर्न नियुतो नो अच्छ । पिवास्यन्धो अभिसृष्टो अस्मे। इन्द्र स्वाहा ररिमा ते मदाय ॥ १ ॥ कस्य वृषो सुते सचा । नियुत्वान् वृषभो रणत् । वृत्रहा सोमं पीतये ॥ २ ॥ इन्द्रं वयं महाधने । इन्द्रमर्भे हवामहे । युजं वृत्रेषु वाज्रिणम् ॥ ३ ॥ द्वितायो वृत्र हन्तमः । विद इन्द्रः शतक्रतुः । उप नो हरिभिस्सुतम् ॥ ४ ॥ स सूर आ जनयञ्ज्योतिरिन्द्रम् । अया धिया तरणिरद्रिबर्हाः । ऋतेन शुष्मीनवमा नो अर्कैः । व्युस्रिधो अस्रो अद्रिर्बिभेद ॥ ५ ॥ उत त्यदाश्वश्वियम् । यदिन्द्र नाहुषीष्वा । अग्रे विक्षु प्रतीदयत् ॥ ६ ॥ भरेष्विन्द्रँ सुहवँ हवामहे । अँ होमुचँ सुकृतं दैव्यञ्जनम् । अग्निं मित्रं वरुणँ सातये भगम् । द्यावापृथिवी मरुतः स्वस्तये ॥ ७ ॥ महि क्षेत्रं पुरुश्चन्द्रं विविद्वान् । आदित्सखिभ्यश्च रथँ समैरत् । इन्द्रो नृभिरजनद्दीघानः साकम् । सूर्यमुषसं गातुमग्निम् ॥ ८ ॥ ऊरुन्नो लोकमनुनेषि विद्वान् । सुवर्वज्ज्योतिरभयँ स्वस्ति । ऋष्वाा त इन्द्र स्थविरस्य बाहू । उपस्थे याम शरणा बृहन्ता ॥ ९ ॥ आ नो विश्वाभिरूतिभिः सजोषाः । ब्रह्म जुषाण्णो हर्यश्व याहि । वरीवृजत्स्थविरेमिः सुशिप्र ॥ अस्मे दधद्वृषणँ शुष्ममिन्द्र ॥ १० ॥ इन्द्राय गाव आशिरम् । दुदुह्रे वज्रिणे मधु । यत्सीमुपह्णरेऽविदत् ॥ ११ ॥ तास्ते वज्रिन्धेनवो जोजयुर्नः । गभस्तयो नियुतो विश्वाराः । अहरहर्भूय इज्जोगुवानाः । पूर्णा इन्द्र क्षुमतो भोजनस्य ॥ १२ ॥ इमां ते धियं प्रभरे महो महीम् । अस्य स्तोत्रे धिषणा यत्त आनजे । तमुत्सवे च प्रसवे च सासहिम् । इन्द्रं देवासः शवसामदन्ननु ॥ १३ ॥
[[TODO: परिष्कार्यम्]]

इति त्रयोदशर्चमिन्द्रसूक्तम्,

हिरण्यवर्णा इति नवर्चमप्सूक्तम् ॥

[[708]]

अथ निर्वापे विशेषः- आदित्यादिग्रहान्ते -

देवस्य त्वा॰ निर्ऋतये जुष्टं निर्वपामि, इन्द्राय॰, अद्भ्यः॰

इति । प्रोक्षणेऽप्येवमेव । आज्यनिर्वापाद्यग्निमुखान्तं कृत्वा ‘आदित्याय त्वा’ इत्यादि उदगपवर्गं यथाक्रमं चरुमभिमृश्याऽवदानधर्मेण ग्रहपक्वहोमान्ते

मूलं प्रजा॰, अहर्नो अद्य॰

इति द्वाभ्यां निर्ऋतये,

इन्द्रो ज्येष्ठां॰, पुरन्दरा॰

इति द्वाभ्यामिन्द्राय,

या दिव्या आपः॰, याश्च कूप्याः॰

इति द्वाभ्याम् अद्भ्यः क्रमेण पक्वं जुहुयात् ॥ ततस्स्विष्टकृतमवदायाऽन्तःपरिधौ निधाय -

मूलं प्रजां॰ अहर्नो अद्य॰ इन्द्रो ज्येष्ठां॰ पुरन्दराय या दिव्या आपः॰ याश्च कूप्याः॰

इति प्रतिमन्त्रमन्वाधानोक्तक्रमेण हुत्वाऽथाज्याहुतीरुपजुहोति -

ॐ प्रजापतये स्वाहा ॥ मूलाय॰ ॥ प्रजायै॰ ॥ इन्द्राय॰ ॥ ज्येष्ठायै॰ ॥ ज्यैष्ठ्याय स्वाहा ॥ अभिजित्यैः ॥ अद्भ्यः॰ ॥ अषाढाभ्यः॰ ॥ समुद्राय॰ ॥ कामाय॰ ॥ अभिजित्यै॰ ॥(यथालिङ्गं त्यागः)

[चक्षुषोहे ते॰ ॥ १ ॥
यो मा चक्षुषा॰ ॥ २ ॥
यत्किञ्चासौ॰ ॥ ३ ॥
यातुधाना॰॥ ४ ॥
हन्मि तेऽहं॰ ॥ ५ ॥
अपनह्यामि॰ ॥ ६ ॥
पुरामुष्यः ॥ ७ ॥
अन्ति दूरे॰ ॥ ८ ॥
यो मा नक्तम् ॥ ९ ॥
(सर्वत्र, निर्ऋतय इदं॰)

तिष्ठा हरी रथ॰ ॥ १ ॥
कस्य वृषा॰ ॥ २ ॥
इन्द्रं वयं महाधने॰ ॥ ३ ॥
द्वितीयो वृत॰ ॥ ४ ॥
ससूर आ जनयन् ॥ ५ ॥
उत त्यदाश्व॰ ॥ ६ ॥
भरेष्विन्द्र॰ ॥ ७ ॥
महि क्षेत्रं॰ ॥ ८ ॥
उरुन्नो लोकं॰ ॥ ९ ॥
आ नो विश्वाभिः॰ ॥ १० ॥
इन्द्राय गावः ॥ ११ ॥
तास्ते वज्रिन्॰ ॥ १२ ॥
इमान्ते धियं॰ ॥ १३ ॥
(सर्वत्र, इन्द्रायेदं॰)

हिरण्यवर्णा॰ ॥ १ ॥
यासाँ राजा॰ ॥ २ ॥
यासां देवाः॰ ॥ ३ ॥
शिवेन मा चक्षुषाः॰ ॥ ४ ॥
आपो भद्राः॰ ॥ ५ ॥
आदित्पश्यामि॰ ॥ ६ ॥
आपो हि ष्ठा॰ ॥ ७ ॥
यो वः शिवतमो॰ ॥ ८ ॥
तस्मा अरङ्ग॰ ॥ ९ ॥
(सर्वत्र, अद्भ्य इदं॰)

विश्वेभ्यो देवेभ्यः स्वाहा ॥ विष्णवे॰ ॥ वसुभ्यः॰ ॥ वरुणाय॰ ॥ अजायैकपदे॰॥ अहये बुध्नियाय॰॥ पूष्णे॰॥ अश्विभ्यां॰॥ यमाय॰ ॥ अग्नये॰ ॥ प्रजापतये॰ ॥ सोमाय॰ ॥ रुद्राय॰ ॥ अदित्यै॰ ॥ बृहस्पतये॰ ॥ सर्पेभ्य॰ ॥ पितृभ्यः॰ ॥ अर्यम्णे॰ ॥ भगाय॰ ॥ सवित्रे॰ ॥ स्वष्ट्रे॰ ॥ वायवे॰ ॥ इन्द्राग्निभ्यां॰ ॥ मित्राय॰ ॥ (यथालिङ्गं त्यागः)

इति]

ततः स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वा आदित्यादिनवग्रहदेवताभ्यः, इन्द्रादिलोकपालेभ्यः, निर्ऋतये, इन्द्राय, अद्भ्यः तत्तन्मन्त्रेण माषभक्तबलीन्दत्वा अन्ते क्षेत्रपालाय बलिं दद्यात् ॥

[[709]]

हस्तपादं प्रक्षाळ्य उत्तरपरिषेकादि होमशेषं समापयेत् ॥ आवाहितदेवतानामुत्तरपूजान्ते कलशोदकं पात्रान्तरे गृहीत्वा सऋत्विगाचार्यः शतच्छिद्रकलशेन सकुटुम्बं यजमानमभिषिञ्चेदेभिर्मन्त्रैः-

मूलं प्रजां॰ (२)

इन्द्रो ज्येष्ठामनु॰ (२)

या दिव्या आपः॰ (२)

चक्षुषो हेते (९)

तिष्ठा हरी (१३)

हिरण्यवर्णा॰ (९)

शतायुधाय॰ (५)

भद्रं कर्णेभिः॰ नमो ब्रह्मणे॰ तच्छंयोरावृणीमहे॰ नमो वाचे॰ शन्नो वातः पवतां॰ सन्त्वा सिञ्चामि॰ शन्नो मित्रः शं वरुणः॰ सहनाववतु॰ सहनाववतु॰ सहनाववतु॰

(इति दश शान्ति मन्त्रैः)॥

योऽसौ वज्रधरो देवो महेन्द्रो गजवाहनः ।
मूलजातशिशोर्दोषं मातापित्रोव्यपोहतु ॥ १ ॥
योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः ।
सप्तजिह्वश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥ २ ॥
योऽसौ दण्डधरो देवो धर्मो महिषवाहनः ।
मूलजातशिशोर्दोषं व्यपोहतु यमो मम ॥ ३ ॥
योऽसौ खड्गधरो देवो निर्ऋती राक्षसाधिपः ।
प्रशामयतु मूलोत्थं दोषं गण्डान्तसम्भवम् ॥ ४ ॥
योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः ।
नक्रवाहश्चेकितानो मूलदोषं व्यपोहतु ॥ ५ ॥
योऽसौ देवो जगत्प्राणो मारुतो मृगवाहनः ।
मातापित्रोर्शिशोश्चैव मूलदोषं व्यपोहतु ॥ ६ ॥
योऽसौ निधिपतिर्देवः खड्गभृद्वाजिवाहनः ।
प्रशामयतु मूलोत्थं दोष बालस्य शान्तिदः ॥ ७ ॥
योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः ।
आश्लेषामूलगण्डान्तदोषमाशु व्यपोहतु ॥ ८ ॥
विघ्नेशो क्षेत्रपो दुर्गा क्षेत्रपाला नवग्रहाः ।
सर्वदोषप्रशमनं शीघ्रं कुर्वन्तु शान्तिदाः ॥ ९ ॥

देवस्य त्वा॰ अश्विनोभैषज्येन॰ सरस्वत्यै भैषज्येन॰ इन्द्रस्यन्द्रियेण॰

इति । ततो यजमानः स्नात्वाऽहते वाससी परिधायाऽऽचम्य भस्मधारणं कुर्यात् ॥ अनेन मूलशान्तिहवनकर्मणा श्रीपरमेश्वरः प्रीयताम् ॥ ततो ब्राह्मणान्सम्पूज्य साङ्गतासिद्ध्यर्थं आचार्याय कृष्णां धेनुं ब्रह्मणे कृष्णमनड्वाहं ऋत्विग्भ्यो यथाशक्ति सुवर्णं दशदानानि च दद्यात् ॥ ततो यथाशक्ति ब्राह्मणान् भोजयित्वाऽऽशिषो गृह्णीयात् ॥ अस्मिन्नेव दिनेऽन्यस्मिन्वा शुभे दिने जातकर्मादि कुर्यात् ॥

[[710]]