॥ अग्न्युत्तारणम् ॥
देशकालौ स्मृत्वा
अस्याः प्रतिमायाः अङ्गप्रत्यङ्गसन्धिसमुत्पन्नवास्याग्निकुद्दालाऽग्निटङ्कान्यातपनिरासार्थं अग्न्युत्तारणंकरिष्ये,
इति सङ्कल्प्य
अश्मन्नूर्जम्
इत्यनुवाकमष्टशतवारमष्टाविंशतिवारं वा पठित्वा सन्ततजलधारां कुर्यात् यथा-
[[703]]
ॐ अश्मन्नूर्जं पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे ॥ अद्भय ओषधीभ्यो वनस्पतिभ्योऽधिसम्भृतान्तान्न इषमूर्जं धत्त मरुतस्सँ रराणाः ॥ अश्मँ स्ते क्षुदमुन्ते शुगृच्छतु यं द्विष्मः । समुद्रस्य त्वा वाकयाऽग्ने परिव्ययामसि ॥ पावको अस्मभ्यँ शिवो भव ॥ हिमस्य त्वा जरायुणाऽग्ने परिव्ययामसि । पावको अस्मभ्यँ शिवो भव ॥ उपज्मन्नुपंवेतसेऽवतरं नदीष्वा । अग्ने पित्तमपामसि ॥ मण्डूकिताभिरागाहि सेमन्नो यज्ञम् । पावकवर्णँ शिवङ्कृधि ॥ पावक आ चितयन्त्या कृपा ॥ क्षामन् रुरुच उषसो न भानुना ॥ तूर्वन्नयामन्नेतशस्य नूरण आ यो घृणे । न ततृषाणो अजरः । अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्वक्षि यक्षि च ॥
स नः पावक दीदिवोऽग्ने देवाँ इहाऽवह । उप यज्ञँ हविश्च नः ॥ अपामिदन्न्ययनँ समुद्रस्य निवेशनम् । अन्यन्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यँ शिवो भव ॥ नमस्ते हरसे शोचिये नमस्ते अस्त्वचिंषे । अन्यन्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥ वृषदे वडप्सुषदे वड्वनसदे वड्वर्हिषदे वट् सुवर्विदे वट् । ये देवा देवानां यज्ञिया यज्ञियानाँ संवत्सरीणमुपभागमासते ॥ अहुतादो हविषो यज्ञे अस्मिन्त्स्वयं जुहुध्वं मधुनो घृतेन । ये देवा देवेष्वधिदवेत्वमायन्ये ब्रह्मणः पुर ए॒तारो अस्य ॥ येभ्योऽनर्ते पवते धाम किञ्चन न ते दिवो न पृथिव्या अधिस्नुषु । प्राणदा अपानदा व्यानदाश्चक्षुर्दावचोर्दा वरिवोदाः ॥ अन्यन्ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यं शिवो भव ॥ अग्निस्तिग्मेन शोचिषा यँ सद्विश्वं न्यत्रिणम् । अग्निर्नो वँसते रयिम् ॥ सैनानी केन सुविदत्रो अस्मे यष्टा देवार आयजिष्ठ स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवाद्दिदीहि [[TODO: परिष्कार्यम्म]]
इति ॥
[[704]]