॥ गोप्रसवशान्तिविधिः॥ (बो. गृ. शे. सू. ६. १)
अथातो गोप्रसवशान्ति व्याख्यास्यामः । जननादेकादशे द्वादशे वा पुण्ये नक्षत्रे पुण्यनद्यादौ देवालये गोष्ठे वा अथवा गृहस्येशानभागे गोमयेनोपलिप्तभूमौ श्वेतरजोभिः कर्णिकायुक्तं पङ्कजं कृत्वा तत्र प्रस्थमात्रान्व्रीहीन्प्रक्षिप्य तेषु रक्तवस्त्रं प्रसारितं नवं वैणवं शूर्पं सँस्थाप्य तत्र तिलान्विकीर्य तस्मिन्शूर्पे प्राङ्मुखं शिशुं निधाय द्वितीयशूर्पेणाऽऽच्छाद्य रक्तसूत्रेण शूर्पद्वयं वेष्टयित्वा शूर्पसन्निधौ गामानीय गोमुखसान्निध्यं कृत्वा गोमुखात् प्रसवं विभाव्य । अथाऽऽचार्यः शिशुं प्रोक्षेत्
प्र तद्विष्णुः॰, परो मात्रया
इति द्वाभ्याम् । अथ शुद्धोदकेन च स्नापयित्वा - आपो हि ष्ठेति तिसृभिः इति । अथ गां वामाङ्गेषु सर्वाङ्गेषु वा स्पृशेत्-
गोमाँअग्ने विमाँअश्वी॰
इति । अथ पिता शिशुमादाय मात्रे दद्यात् । माता पित्रे पिता मात्रे वेत्येके ॥ अथ पिता तूष्णीं पुत्रस्य मुखमीक्षते । अङ्गादङ्गादिति शिशुमूर्धनि त्रिरवघ्राय पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वाऽथ गामाचार्याय दद्यात् । अथ गोमयेन गोचर्ममात्रं चतुरश्रं स्थाण्डिलं कृत्वा श्रोत्रियागारादग्निमाहृत्य (अग्निमुखान्ते ग्रहपूजां वा विधाय) अथाग्नेः पूर्वतो व्रीहिमयं स्थण्डिलं कृत्वा मध्येष्टदलं कृत्वा विधिना कुम्भं सँस्थाप्य तस्मिँस्तिरः पवित्रमन्तर्धाय, आपो वा इदमित्युदकमासिच्य सर्वौषधीः पञ्चरत्नकुशदूर्वागन्धाक्षतान्निक्षिप्य वस्त्रयुग्मेन संवेष्टय कुम्भमलकृत्य कुम्भाभ्यन्तरे जलमध्य एव क्रमेण देवता आवाहयेत् - सद्योजातमिति मध्ये, वामदेवाय नम इति पूर्वे, अघोरेभ्य इति दक्षिणे, तत्पुरुषायेयति पश्चिमे, ईशानः सर्वविद्यानामित्युत्तरे, पञ्चास्यरुद्रं सम्पूज्य, कुम्भमुखे बिल्वपल्लवनिर्मितं मण्डलाकारं कृत्वा, तदुपरि पूर्णपात्रं निधाय तत्राऽष्टदलं कृत्वा, सौवर्णकृता वरुणविष्णुयक्ष्मदेवता आवाह्य पूजयेत् । अथार्त्विज आचार्यश्च कुम्भमन्वारभ्य -
नमस्ते रुद्र मन्यव
इति प्रश्नं,
अग्नाविष्णू
इत्येकादशानुवाकान् शतायुधायेति पञ्चाज्यानीः, ा
आशुः शिशान
इत्यनुवाकं,
कृणुष्व पाज
इत्यनुवाकं,
दधिक्राव्ण
इति सुरभिमतीं,
आपो हि ष्ठा
इति तिसृभिः,
हिरण्यवर्णाः
इति चतसृभिः,
पवमानः सुवर्जनः
इत्यनुवाकं,
ऋचां प्राचीं
इत्यनुवाकञ्चाभिमृश्य जपेत् । आज्यभागान्ते प्रधानहोमः कार्यः । अथ ग्रहहोम हुत्वाऽथ दधिमध्वाज्यानि सँसृज्य प्रधानहोमः -
अव ते हेडो वरुण॰, उदुत्तमं वरुण॰, यत्किश्चेदं॰, कितवासो॰, इमम्मे वरुण॰, तत्त्वा यामि॰
इति षडृचात्मकं वरुणसूक्तमष्टादशावृत्त्याऽष्टोत्तरशतसङ्ख्या भवन्ति ।
विष्णोर्नु कं॰, तदस्य प्रियं॰, प्रतद्विष्णुः॰, परो मात्रया०, वि चक्रमे॰, त्रिर्देवः॰,
इति षडृचात्मकं विष्णुसूक्तमस्य सूक्तस्याष्टादशावृत्त्याष्टोत्तरशतसङ्ख्या भवन्ति ।
अक्षीभ्यान्ते॰, ग्रीवाभ्य॰, आन्त्रेभ्यस्ते॰, ऊरूभ्यान्ते०, मेहनाद्वनं॰, अङ्गादङ्गालोम्नो॰
इति षडृचात्मकयक्ष्मसूक्तमष्टादशावृत्त्याऽष्टोत्तरशतसङ्ख्या भवन्ति ।
अथ स्विष्टकृदादि (वरदानान्ते) बलिं पूर्णाहुतिमभिषेकं प्रणीताप्रणयनविमोकान्ते ब्रह्माणं सम्पूज्य विसृजते देवताः ।
मूलाऽऽश्लेषाज्येष्ठान्यतम नक्षत्रेष्वतिगण्डे वैधृतौ पातेऽमाविष्ट्युपरागेषु च जनने गोप्रसवशान्तिं विधाय तत्तच्छान्तिं कुर्यात्
इत्याह भगवान्बोधायनः॥
[[699]]
प्रयोगः
अथ प्रयोगः । जननादेकादशेहनि द्वादशे वा पुण्ये नक्षत्रे आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यास्य शिशोः
अमुकनक्षत्रजननसूचितसकलाऽरिष्टनिरसनद्वारा दीर्घायुष्याभिवृध्यर्थ श्रीपरमेश्वरप्रीत्यर्थ सग्रहमखां गोमुखप्रसवशान्ति करिष्ये,
इति सङ्कल्प्य, गणपतिं संपूज्य
सवितृवरुणविष्णुयक्ष्माणः प्रीयन्ताम्
इति पुण्याहं वाचयित्वा आचार्यादिऋत्विजो वृणुयात् ॥
[[700]]
अथ वृताचार्यो
गोप्रसवशान्त्यतया विहितं कलशस्थापनपूर्वकदेवतावाहनं पूजनञ्च करिष्ये
इति सङ्कल्प्य भूशुद्ध्यादि न्यासांश्च विधाय पुरुषसूक्तं जपित्वा, जलशुद्ध्यर्थं कलशार्चनं, शङ्खार्चनं, आपो हि ष्ठेति तिसृभिर्मण्डपप्रोक्षणं कुर्यात् ॥ ततः ‘यदत्र’ इति सर्षपविकिरणादिप्रादेशकरणान्ते गृहस्येशानभागे गोमयेनोपलिप्तभूमौ श्वेतरजोभिः कर्णिकायुतं पङ्कजं विलिख्य तत्र प्रस्थपरिमितव्रीहीन्प्रक्षिप्य तेषु नवं वैणवं शूर्पं संस्थाप्य तस्मिन् रक्तवस्त्रं प्रसार्य तत्र तिलान्विकीर्य शूर्पे प्राङ्मुखं शिशुं निधाय द्विदीयशूर्पेणाऽऽच्छाद्य रक्तसूत्रेण तच्छूर्पद्वयं वेष्टयित्वा शूर्पसन्निधौ गामानीय गोमुखसान्निध्यं कृत्वा यजमानो गोमुखात्प्रसवं विभाव्याऽऽचार्यः पूर्वकृतपञ्चगव्येन शिशुं
प्र तद्विष्णुः॰, परो मात्रया॰
इति द्वाभ्यां प्रोक्ष्य पुनः शुद्धोदकेन
आपो हि ष्ठा॰
इति तिसृभिः स्नापयेत् ॥ ततो गां सर्वाङ्गेषु उपस्पृशति –
गोमाँअग्ने विमाँ अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः । इडा वाँ एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् [[TODO: परिष्कार्यम्]]
इति ॥ अथ पिता शिशुमादाय
विष्णो रराटमसि॰ विष्णवे त्वा
इति मन्त्रेण मात्रे दद्यात्, माता पित्रे दद्यात्, पिता मात्रे दत्वा तूष्णीं पुत्रस्य मुखमीक्षेत ॥ अथैनं मूर्ध्नि त्रिरवजिघ्रति -
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे । आत्मा वै पुत्रनामाऽसि सजीव शरदशतम् [[TODO: परिष्कार्यम्]]
इति ॥
गोमुखप्रसवाख्यस्य कर्मणः पुण्याहं भवन्तो लवन्तु ॐ पुण्याहं, स्वस्ति॰ आयुष्यमते स्वस्ति, ऋद्धि॰ ॐ ऋध्यताम्
इति वाचयित्वा ततस्तां गां आचार्याय दद्यात् ॥ तत आचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, अस्य शिशोः अमुकनक्षत्रजननसूचितसर्वाऽरिष्टनिरसनद्वारादीर्घायुष्याभिवृद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं ग्रह शान्तिपूर्वकं गोप्रसवशान्तिहोमं करिष्ये,- ग्रहान्वाधानान्ते,- वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे - वरुणसत्तेन षण्मन्त्रेण, विष्णुसूक्तेन षण्मन्त्रेण, यक्ष्मसूक्तेन षण्मन्त्रेण च संसृष्टदधिमध्वाज्यद्रव्येण प्रत्यृचं अष्टादशाहुतिभिर्यक्ष्ये, अग्निः स्विष्टकृत्, इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं ग्रहमंडलं विलिख्य ग्रहानाबाह्य - सम्पूज्य तदुत्तरे व्रीहिमयं स्थण्डिलं कृत्वा तत्र मध्ये प्रागादिचतुर्दिक्षु च
मही द्यौः
इत्यादिविधिना सुदृढांस्तन्तुवेष्टितानव्रणान्पञ्चकलशान्संस्थाप्य तेषु गो॰ वि॰ पवित्रमन्तर्धाय
ॐ आपो॒ वा॰ सुव॒राप॒ ॐ
इत्यपः पूरयित्वा सर्वोषधीश्च निक्षिप्य वरुणमावाह्य सम्पूज्य प्रार्थयेत
देवदानवसंवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुभ्म विष्णुना विधृतः स्वयम् ॥
त्वत्तोये सर्वतीर्थानि देवास्सर्वे त्वयि स्थिताः ।
त्वयि तिष्ठन्ति भूतानि त्वयि प्राणाः प्रतिष्ठिताः ॥
शिवः स्वयं त्वमेवाऽसि विष्णुस्त्वञ्च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वेदेवास्सपैतृकाः ॥
त्वयि तिष्ठन्ति सर्वेऽपि यतः कामफलप्रदाः ।
त्वत्प्रसादादिमं यज्ञं कर्तुमीहे जलोद्भव ।
सान्निध्यं कुरु देवेश प्रसनो भव सर्वदा
इति ॥
[[701]]
ततः सुवर्णनिर्मिताः सवितृवरुणविष्णुयक्ष्मरुद्रप्रतिमाः (‘अश्मन्नूर्ज’ इत्यनुवाकेन सन्ततधारयाऽग्न्युत्तारिताः) गन्धादिभिरभ्यर्च्य पूर्णपात्रेषु निधाय क्रमेणावाहयेत् ॥ मध्यकलशे –
ॐ तत्स॑वि॒तुर्वरे॑ण्यं॒॰ प्रचो॒दया॑त्
ॐ भूर्भुवस्सुवरों सवितारमावाहयामि ॥ पूर्वकलशे –
इ॒मम्मे॑ वरुण॰ च॑के
वरुणं॰ ॥ दक्षिणकलशे–
इ॒दं विष्णुः॒॰ सु॒रे
विष्णुं॰ ॥ पश्चिमकलशे -
अ॒क्षीभ्या॑न्ते॒ नासि॑काम्या॰
यक्ष्माणं॰ ॥ उत्तरकलशे -
स॒द्यो जा॒तं॰
इत्यादिपञ्चभिः क्रमेण सद्योजातं॰, वामदेवं, अघोरं॰, तत्पुरुषं॰, ईशानं॰ इत्यावाह्य प्राणप्रतिष्ठां कृत्वा षोडशोपचारैः पूजयेत् ॥ ततः स ऋत्विगाचार्य ईशानकलशमन्वारभ्य महान्यासपूर्वकं रुद्रैकादशनीं लघुन्यासपूर्वकं रुद्रं वा, शतायुधायेत्यादि पञ्चमन्त्रान्, आशुः शिशानः, कृणुष्व पाजः इत्यनुवाकद्वयं दधिक्राव्णः॰, आपो हि ष्ठा इति त्रीन्, हिरण्यवर्णाः शुचयः इति सुरभिमतीं, पवमानः सुवर्जन॰, ऋचां प्राची॰ इत्यनुवाकद्वयञ्च जपेत् ॥ ततो निर्वापाद्यग्निमुखान्ते सावित्र्या पक्वं हुत्वा स्विष्टकृतमवदायान्तः परिधौ निधाय एकस्मिन् पात्रे दधिमध्वाज्यानि संयुत्य अव ते हेडः॰, उदुत्तमं॰, अस्तभ्नाद्यां॰, यत्किन्चेदं॰, कितवासः॰, इमम्मे वरुण॰, तत्वा यामि॰ इति वरुणसूक्तं (सर्वत्र, वरुणायेदं॰) विष्णोर्नु कं॰, तदस्य प्रियं॰, प्रतद्विष्णुः॰, परो मात्रया॰, वि चक्रमे॰, त्रिदेवः॰, इति विष्णुसूक्तं (सर्वत्र, विष्णव इद॰)
ॐ अक्षीभ्यान्ते नासिकाभ्यां कर्णाभ्यां छबुकादधि । यक्ष्मं शीर्षण्यं मस्तिष्काजिह्वाया विवृहामि ते स्वाहा । [[TODO: परिष्कार्यम्म ]]
(यक्ष्मण इदं॰ इति, सर्वत्र त्यागः)॥
[[702]]
ॐ ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् । यक्ष्मं दोपण्य मंसाभ्यां वाहुभ्यां विवृहामि ते स्वाहा ॥ ॐ आन्त्रेभ्य॑स्ते गुदाभ्यो वनिष्ठोर्हृदयादधि । यक्ष्म मतस्नाभ्यां यक्नः प्लाशिभ्यो विवहामिः ॥ ॐ ऊरुभ्यां ते अष्टीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्म श्रोणिभ्यां भासदाद्भंससो विवृहामि ॥ ॐ मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः । यक्ष्मं सर्वस्मादात्मनस्तमिदं विवृहामिः ॥ ॐ अनादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि । यक्ष्मं सर्वस्मात्॰॥ [[TODO: परिष्कार्यम्]]
इति यक्ष्मसूक्तम् ।
एवं सूक्तत्रयेण प्रतिमन्त्रमष्टादशाहुतीर्जुहुयात् ॥ ततः स्विष्टकृदाद्युत्तरपरिषेकात्प्राकृत्वा - हुतशेषेण बलिं दत्वोत्तरपरिषेकप्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाऽऽवाहितदेवतानामुत्तरपूजां कृत्वा कलशोदकेन सर्त्विगाचार्यः सपत्नीक यजमानं शिशुञ्च
आपो हि ष्ठा
इति तिसृभिः
हिरण्यवर्णाः
इति चतसृभिः
पवमानः सुवर्जनः
इत्येतेनाऽनुवाकेन वरुणविष्णुयक्ष्मसूक्तैर्देवस्य त्वा इत्यादि मन्त्रैश्चाभिषिञ्चेत् ॥ कृतस्य गोप्रसवशान्तिकर्मणः साङ्गतासिद्ध्यर्थं ब्राह्मणपूजनपूर्वकं आचार्याय गोदानं सपीठ कलशदानं ब्रह्मणे वृषदानं ऋत्विग्भ्यो दक्षिणाप्रदानञ्च कुर्यात् ॥ ततो यथाशक्ति ब्राह्मणान् भोजयित्वा भूयसीन् दक्षिणाश्च दत्वाऽशिषो गृह्णीयात् ॥