१९ ग्रामस्योत्पातशान्तिविधिः

॥अथ ग्रामस्योत्पातशान्तिविधिः॥ (यो. गृ. शे. सू. ४. २०)

अग्निदाहे, व्याघ्रादिभिरभिभूते, शृगालपीडने, ग्रामादन्तश्चाण्डालाध्यवसिते, ग्रामस्य स्थूणावारोहणे, मधुन उपवेशने, वल्मीकपुष्करोत्पन्ने, देवगात्रस्वेदकम्पने, ज्वराभिभूते, बहुब्राह्मणमरणे, ग्राममध्ये स्मशाने वा दस्युभिश्चापि पीडिते, रात्रौ तटाकसेतुभङ्गे, जले विवर्णे वा स्वन्तस्थेऽशनिपाते, चिरकालशून्यग्रामप्रवेशे, तेष्वन्येषु चोत्पातेषु शान्तिं कुर्यात् ॥ शुभवारे शुभनक्षत्रे शुभलग्ने विष्णोस्स्नापनार्थं महादेवाभिषेकार्थं द्वौ द्वौ ब्राह्मणौ कल्पयित्वा नवग्रहशान्त्यर्थं चतुरो ब्राह्मणांस्तथैव संख्यया ग्रामशान्तिहोमार्थं कल्पयित्वाऽथ ग्रामशान्तिहोमे ग्रामस्योत्तरपूर्वदेशे देवागारे चतुष्पथे वा शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य तिलसर्षपलाजैर्गन्धपुष्पाक्षतैरवकीर्य स्थण्डिलं कल्पयित्वा कुम्भस्थापनं कृत्वाऽग्निमुपसमाधाय सम्परिस्तीर्याप्रणीताभ्यः कृत्वोपोत्थायाप्रेणाग्निं देवताश्चावाहयति - व्याहृतीभिः

यज्ञपुरुषमवाहयामि

देवस्य दक्षिणतः

ब्रह्माणमावाहयामि

उत्तरतः

त्रियम्बकमावाहयामि'

देवस्याग्रे

वास्तुपुरुषमावाहयामि

इत्यावाह्य पुरुषसूक्तेन विष्णुमभ्यर्च्य ब्रह्मसूक्तेन चतुर्मुखं रुद्रसूक्तेन त्रियम्बकं चाभ्यर्च्यान्येषां देवानामावाहनादिक्रमेण स्वैस्वैर्नामभिरभ्यर्च्यापरेणाग्निं प्राङ्मुख उपविश्याग्निमुखात्कृत्वा पक्वाज्जुहोति - ‘वास्तोष्पते’ ‘वास्तोष्पते’ इति द्वाभ्याम् ॥ तेनैव मन्त्रेण शमीमयीं समिधमष्टोत्तर सहस्रं जुहुयात् ॥

वास्तोष्पते प्रतरणो न एधि

इत्यष्टोत्तरसहस्रमन्नाहुतीर्जुहुयात् ॥

अमीवहा वास्तोष्पते

इत्यष्टोत्तरसहस्रमाज्याहुतीर्जुहुयात् ॥ मृगारेष्टिवत् ‘अंहोमुचे’ इत्यभिज्ञैः प्रत्यृचमाज्याहुतीर्हुत्वा

या वामिन्द्रावरुणा

इति द्वादशभिः

पवमानः सुवर्जनः

इत्येतेनानुवाकेन पुरुषसूक्तेन, ब्रह्मसूक्तेन, रुद्रसूक्तेन, इति प्रत्यृचं

यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः

इति द्वाभ्याम्, ‘अग्निरायुष्मान्’ इति पञ्चभिः ‘अग्ने नय सुपथा’ इति षड्भिः ‘योऽस्य कौष्ठ्य’ इति ‘एष ते निर्ऋते भागः’ इति ‘इमं मे वरुण, तत्त्वा यामि’ इति द्वाभ्याम् ‘समुद्राय त्वा वाताय स्वाहा’ इति त्रयोदशाहुतीः ‘आ प्यायस्व, सन्ते पयांसि’ इति द्वाभ्यां ‘ईशानस्सर्वविद्यानां’ इति ‘त्रियम्बकं’ इति ‘आ सत्येन’ इत्यादि

‘केतुं कृण्वन्नकेतवे’

इत्यन्तं नवग्रहमन्त्रेण चाज्याहुती जुहुयात् ॥ अथ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निं शमीपत्रेषु हुतशेषं निदधाति –

यो रुद्रो अग्नौ

इति ॥

अथ देवताभ्यो हविर्निवेदयेत् ॥ अथोपतिष्ठते –

हेतयो नाम स्थ

इति ॥

यथाक्रमं दिश उपस्थाय पुण्याहं वाचयित्वा उदकुम्भं चान्वारभ्य पञ्चशान्तिञ्च जपित्वा हुतशेषमाज्यशेषञ्च पूर्णकुम्भे निक्षिप्य उदुम्बरशाखया शमीशाखया दर्भमुष्टिना वा

शिवं शिवं, शन्नो देवीरभिष्टये

इति च शाकुनेन सूक्तेन ग्रामं त्रिः प्रदक्षिणं परिषिच्य ब्राह्मणेभ्यो भूरिदक्षिणां दत्वैवं सप्ताहं द्वादशाहं वा कुर्यात्समस्तोत्पातशान्तिरित्याह भगवान् बोधायनः ॥ ॥

[[694]]

प्रयोगः

अथ प्रयोगः ॥ यजमानः अनुकूलशुभवार-तिथि-नक्षत्रदिवसे शुभलग्ने ग्रामस्थैः सह प्रातर्नित्यकर्म कृत्वा, ग्रामस्येशान विभागे, देवालये, चतुष्पथे वा - सपत्नीकः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

अस्मिन् ग्रामे स्थितानां सर्वेषां सहकुटुम्बानां सपरिवाराणां द्विपदचतुष्पदसहितानां मम च सकुदुम्बस्य सपरिवारस्य द्विपञ्चतुष्पदसहितस्य अग्निदाह-व्याघ्र-शृगालपीडा, ग्राममध्ये चण्डालाधिवास, शुष्कवृक्षविरोहण, मधु-वल्मीक-पुष्करोत्पत्ति, देवगात्रस्वेद-कम्पन, ज्वरबाधा, बहुब्राह्मणमरण, सर्प-श्वापद-दस्यु-तस्करादिभिः पीडन, रात्रौ तटाकसेतुभङ्ग, जलवैवर्ण्य, अशनिपात, षइविधभूकम्प, ग्रामे निर्भयमारण्यकमृगपक्षिसञ्चार, गोशृङ्गे धूमजनन, गोरुधिरदोहन, रात्राविन्द्रधनुर्दर्शन, अमेघे विद्युद्दर्शन, चन्द्रसूर्ययोरविपरीताकृतिदर्शन, रश्मिहीनसूर्यदर्शन, प्रतिदिक्षु प्रतिसूर्यदर्शन, रात्रौ प्रतिचन्द्रदर्शन, दिवा नक्षत्रदर्शनोल्कापातधूमकेतुदर्शनेत्यादि भौमान्तरिक्षदिव्यमहोत्पातसूचितसर्वारिष्टशान्तिद्वारा क्षेमस्थैर्याऽभयाऽऽयुरारोग्य प्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां ग्रामस्योत्पातशान्तिं करिष्ये

इति सङ्कल्प्य, गणपतिपूजनं, मातृकापूजनं, नान्दीश्राद्धञ्च विधाय, उदकशान्ति प्रतिसरबन्धञ्च कृत्वा,

आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, वास्तोष्पतिः प्रीयताम्

इति पुण्याहं वाचयित्वा, आचार्यं, विष्णुपूजार्थं द्वौ महादेवपूजार्थं द्वौ, इति चतुरः, नवग्रहशान्त्यर्थ चतुरः, ग्रामशान्तिहोमार्थ चतुरः, ब्रह्माणं, सदस्यमिति पञ्चदश सङ्ख्यावृत्विजो वृत्वा मधुपर्केण पूजयेत् ॥

[[695]]

तत आचार्यो देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य॰ देशकालौ सङ्कीर्त्य, अस्मिन् ग्रामे स्थितानां॰ ग्रहमखपूर्वकं ग्रामस्योत्पातशान्तिहोमं करिष्ये॰ ग्रहान्वाधानान्ते, वरदो नामाऽग्निः, वास्तोप्पतिर्देवता, चरुर्हविः, उपहोमे -

वास्तोष्पते शग्मया॰

इति मन्त्रेण शमीसमिद्भिरष्टोत्तरसहस्रसङ्ख्याकाहुतिभिः,

वास्तोष्पते प्रतरणो न एधि॰

इति मन्त्रेणाऽन्नेनाऽष्टोत्तरसहस्रसङ्ख्याकाहुतिभिः,

अमीवहा वास्तोष्पते॰

इति मन्त्रेणाऽऽज्येनाऽष्टोत्तरसहस्रसङ्ख्याकाहुतिभिः,

अग्नेमन्वे॰

इत्यनुवाकेन प्रत्यृचमाज्येन

या वामिन्द्रावरुणा॰

इति द्वादशभिराज्येन,

पवमानः सुवर्जनः

इत्यनुवाकेन प्रत्यृचमाज्येन, पुरुषसूक्तेन, ब्रह्मसूक्तेन, रुद्रसूक्तेन च प्रत्यृचमाज्येन, ‘यत इन्द्र, स्वस्तिदा॰’ इति द्वाभ्यां, ‘अग्निरायुष्मान’ इति पञ्चभिः ‘अग्ने नय सुपथा॰’ इति षड्भि, ‘योऽस्य कौष्ठ्य॰’ इति मन्त्रेण, ‘एष ते निर्ऋते भागः॰’ इति मन्त्रेण, ‘इमम्मे वरुण, तत्त्वा यामि॰’ इति द्वाभ्यां, ‘समुद्राय त्वा वाताय स्वाहा’ इति त्रयोदशभिः, ‘आ प्यायस्व समेतु ते॰, सन्ते पयाँसि॰’ इति द्वाभ्यां, ‘ईशानः सर्वविद्यानां॰, त्र्यम्बकं यजामहे॰’ इति द्वाभ्यां, ‘आ सत्येन॰’ इत्यादि नवग्रहमन्त्रैश्चाज्येन, अर्यमादयः स्विष्टकृतः, इत्यादि सङ्कल्प्यान्वाधायाऽग्रेणाग्निं - शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य, पञ्चगव्येन प्रोक्ष्य, तिल-सर्षप-लाज-गन्ध-पुष्पाक्षतैरवकीर्य, व्रीहिभिर्यवैर्वा स्थण्डिलं कृत्वा, दक्षिणस्थण्डिले ग्रहानावाह्य सम्पूज्य, उत्तरस्थाण्डिले ‘मही द्यौः’ इत्यादिविधिना मध्यदक्षिणपश्चिमोत्तरक्रमेण कलशचतुष्टयं प्रतिष्ठाप्य वरुण पूजान्तं कृत्वा, कलशोपरि विष्णु-ब्रह्म-रुद्र-वास्तोष्पतिप्रतिमा विन्यस्य, मध्ये –

सहस्रशीर्षा॰ ॐ भूर्भुवस्सुवः यज्ञपुरुषाय नमः यज्ञपुरुषमावाहयामि

इति विष्णुं, दक्षिणे- ‘ब्रह्म जज्ञानं॰’ इति ब्रह्माणं, उत्तरे- ‘परि णो रुद्रस्य॰’ इति त्र्यम्बकं रुद्रं, पश्चिमे -‘वास्तोष्पते प्रतिजानीहि॰, वास्तोष्पते शग्मया॰’ इति द्वाभ्यां वास्तोष्पतिं, इन्द्राद्यष्टदिक्षुं - इन्द्रादिदेवताश्च क्रमेणाऽऽवाह्य, पुरुषसूक्तेन विष्णुं, ब्रह्मसूक्तेन ब्रह्माणं, रुद्रसूक्तेन त्र्यम्बकं, ‘वास्तोष्पते॰, वास्तोष्पते॰’ इति द्वाभ्यां वास्तोष्पति, इन्द्रादि देवतानाममन्त्रैश्च क्रमेण षोडशोपचारैरभ्यर्चयेत् ॥

[[696]]

एतस्मिन्काले पूजार्थं वृता ब्राह्मणाः कल्पोक्तप्रकारेण विष्णोर्महादेवस्य च पुरुषसूक्तमहान्यासपूर्वकश्रीरुद्रादिभिरभिषेकादि कुर्युः ॥ ततो ग्रहचरुनिर्वापान्ते वास्तोष्पतये हविर्निरुप्य, ग्रहहोमान्तं कृत्वा, वास्तोष्पतये पक्व जुहाति -

वास्तोष्पते प्रतिजानीह्यस्मान्॰, वास्तोष्पते शग्मया॰

इति द्वाभ्याम् । (वास्तोष्पतय इदं॰)॥ अथ स्विष्टकृतमवदायान्तःपरिधौ निधायान्वाधानोक्तक्रमेणोपहोमादि प्रागुत्तरपरिषेकात्कुर्यात् ॥

(उपहोमे पूर्वमनुक्तमन्त्राः - योऽस्य कौष्ठ्य जगतः पार्थिवस्यैकं इद्वशी । यमं भङ्ग्य श्रवोगाय यो राजान परोध्यः स्वाहा । (यमायेदं॰) ॥ एष ते निर्गत भागो भूते हविष्मत्यसि मुञ्चेममँहसः स्वाहा । (निर्ऋत्या इदं॰) ॥ समुद्राय त्वा वाताय स्वाहा । सलिलाय त्वा वाताय॰ ॥ अनाधृत्वाय त्वा वाताय॰ ॥ अप्रतियृच्याय त्वा वाताय॰ ॥ अवस्यवे त्वा वाताय॰ ॥ दुवस्वते त्वा वाताय॰ ॥ शिमिद्व्ते त्वा वाताय॰ ॥ अग्नये त्वा वसुमते॰ ॥ सोमाय त्वा रुद्रवते॰॥ वरुणायत्वाऽऽदित्यवते॰ ॥ बृहस्पतये त्वा विश्व व्यावते॰ ॥ सवित्रे त्वर्मते विभुमते प्रभुमते वाजवते॰ ॥ यमाय त्वाऽङ्गिरस्वते पितृमते॰ ॥ सर्वत्र, (समुद्राय वातायेदं॰) इत्यादि यथालिङ्गं त्यागः) ॥ [[TODO: परिष्कार्यम्]]

अथाऽग्रेणाऽग्निं ग्रहेभ्यो हुतशेषेण बलिमुपहृत्योत्तरतः शमीपत्रेषु

यो रुद्रो अग्नौ॰

इति हुतशेषं निदधाति । उत्तरपरिषेकादि होमशेषं समाप्याऽऽवाहितदेवताः पुनः सम्पूज्य हविर्निवेदयेत् ॥ अथोपोत्थाय तत्तदभिमुखो दिशमुपतिष्ठते -

हे॒तयो॒ नाम॑ स्थ॒॰ जम्भे॑ दधामि

इति प्राचीम् ।

नि॒लि॒म्पा नाम॑ स्थ॒॰ दधामि

इतिःदक्षिणाम् ।

व॒ज्रिणो॒ नाम॑ स्थ॒॰ दधामि

इति प्रतीचीम् ।

अ॒व॒स्थावा॑नो॒ नाम॑ स्थ॒॰ दधामि

इत्युत्तराम् ।

अधि॑पतयो॒ नाम॑ स्थ॒॰ दधामि

इत्यूर्ध्वाम् ।

क्र॒व्या नाम॑ स्थ॒॰ दधामि

इत्यधराम् ॥ ततो ब्राह्मणान् सम्पूज्य ‘प्रजापतिः प्रीयताम्’ इति पुण्याहं वाचयेत् ॥ अथ सत्विगाचार्यः पुण्याहकलशमन्वारभ्य ‘भद्रं कर्णेभिः॰’ इत्यादि पञ्चशान्ति जपित्वा, हुतशेषमाज्यशेषं कलशोदकञ्च पुण्याहकलशे निक्षिप्योदुम्बरशाखया शमीशाखया दर्भमुष्टिना वा ‘शिवं शिवम्’ इति ‘शन्नो देवीरभिष्टये’ इति मन्त्रेण,

कनिकदज्जनुषं प्रबुवाण इयति वाचमरितेव नावम् । सुमङ्गलश्च शकुने भवासि मा त्वा काचिदभिभा विश्व्या विदत् ॥ मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता । पित्र्यामनु प्रदिशं कनिकदत्सुमङ्गलो भद्रवादी वदेह ॥ अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते । मा नः स्तेन ईशत माघशंसो बृहद्वदेम विदर्थ सुवीराः ॥ प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुया शकुन्तयः । उभे वाचौं वदति सामगा इव गायत्रञ्च त्रैष्टुभञ्चानु राजति ॥ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सर्वनेषु शंससि । वृषेव वाजी शिशुमतीरपी या सर्वतो न शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्यतन्वदसि कर्करिर्यथा बृहदेम विदथे सुवीराः [[TODO: परिष्कार्यम्]]

इति शाकुनसूक्तेन च ग्रामं प्रदक्षिणं त्रिः परिषिच्य, ग्रामस्थजनैः सह सकुटुम्ब यजमानं पूर्वोक्त-

वास्तोष्पते

इत्यादिमन्त्रैरभिषिञ्चेत् ॥ ततो यजमानोऽहतं वासः परिधायाऽऽचम्य ब्राह्मणान्सम्पूज्य गोदानं कलशदानञ्च कृत्वा ऋत्विग्भ्यो भूरिदक्षिणां दत्वा यावच्छक्ति ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥ एवमेव सप्ताहं द्वादशाहं या कुर्यात् ॥ चिरकालशून्यग्रामप्रवेशादिनिमित्तेष्वेवमेव शान्तिं कुर्यात् ॥

(केचन - मण्डपसंस्कार वास्तुराक्षोघ्नपूर्वकं कुण्डे शान्तिं कुर्वन्ति ॥)

[[697]]