१८ अशनिपातशान्तिविधिः

॥ अथाशनिपातशान्तिविधिः ॥ (बो. गृ. शे. सू. ४.२१ ) अशनिपाते भूमिं जानुदघ्नमुद्धृत्याद्भिः प्रोक्ष्य शीपालपत्रमवकां च संस्थाप्य ब्राह्मणानन्नेन परिविष्य पुण्याहं वाचयित्वा खननात्पश्चात् स्थण्डिलं कृत्वा परिधानप्रभृत्यग्निमुखपर्यन्तं कृत्वा

शन्न इन्द्राग्नी

इति त्रिभिर्मन्त्रैराज्याहुतीर्हुत्वा

सप्रत्नथा सहसा जायमानः

इति सूक्तेन चरुणा जुहोति ॥

स्वस्ति नो मिमीताम्

इति प्रतिपद्य

स्वस्ति नो बृहस्पतिर्दधातु

इति स्वस्त्यात्रेयं जपित्वा ब्राह्मणान्सम्पूज्याशिषो वाचयित्वाऽऽचार्याय दक्षिणां ददाति ॥

चरुं विद्यावन्तं ब्राह्मणं भोजयेत् ॥ दग्धभूमिसमं ब्राह्मणाय दद्यात् जीवनागन्धमियादिति स्वर्णं ददात्

इत्याह भगवान बोधायनः॥

[[691]]

शौनकः-

वेश्मक्षेत्रादिदग्धेषु वैद्युतेनाऽग्निना यदि ।
तेषां शान्ति प्रवक्ष्यामि शौनकोऽहं द्विजन्मनाम् ॥ १ ॥
तस्मिन्देशे जानुमात्रं गर्तं कृत्वा ह्यवोक्ष्य तम् ।
शीपालमवकाश्चैव निधाय स्वस्ति वाचयेत् ॥ २ ॥
कर्ताऽस्य पश्चिमे देशे होमं कुर्याद्विचक्षणः ।
इध्माधानादिपर्यन्तं यज्ञतन्त्रं प्रकल्पयेत् ॥ ३ ॥
उपलेपादिकं सर्वमिमाधानाज्यभागयोः।
आज्याहुतीः शंवतीभिर्जुहुयादग्निमग्रतः ॥ ४ ॥
सप्रत्नथेति सूक्तेन जुहुयाञ्च चरुं ततः ।
ततः स्विष्टकृत्प्रभृति होमशेषं समापयेत् ॥ ५ ॥
अग्नेरुत्तरतः स्विष्टात्स्वस्त्यात्रेयं जपेत्ततः ।
ब्राह्मणान्भोजयेत्तत्र यथाशक्ति च दक्षिणा ॥ ६ ॥
तदग्निदग्धं वपुषे प्रदद्याद्ब्राह्मणाय च ।
प्राणदग्धेषु सर्वेषु हिरण्यं दक्षिणा भवेत् ॥ ७ ॥

प्रयोगः

अथ प्रयोगः॥ स्वगृहक्षेत्रादिष्वशनिपाते - आत्मानुकूलशुभतिथि-वार-नक्षत्रदिवसे, कर्ता प्रातर्नित्यकर्म कृत्वाऽशनिदग्धभूमिं जानुमात्रं खात्वा, मृदमुद्धृत्याऽद्भिः प्रोक्ष्य तत्र शीपालपत्रमवकाञ्च निधाय, गर्तस्य पश्चिमे देशे उपविश्यऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

मम स्वगृहक्षेत्रादिष्वशनिपातजनितसर्वानिष्टनिरसनद्वारा क्षेमस्थैर्यशुभाऽभयाऽऽयुष्याऽऽरोग्यप्राप्त्यर्थं, श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखामशनिपातशान्तिं करिष्ये

इति सङ्कल्प्य, गणपतिं सम्पूज्य,

आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, सविता प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्यादीन्वृणुयात् ॥ अथ देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, प्राणानायम्य॰ मम स्वगृह॰ ग्रहमखपूर्वकमशनिपातशान्तिहोमं करिष्ये॰ ग्रहान्वाधानान्ते, वरदो नामाऽग्निः, सविता देवता, चरुर्हविः, उपहोमे -

[[692]]

शन्न इन्द्राग्नी

इति त्रिभिर्मन्त्रैराज्येन

स प्रत्नथा सहसा॰

इति नवर्चेन सूक्तेन प्रतिमन्त्रं चरुद्रव्येण, अर्यमादयः स्विष्टकृतः, इत्यादि सङ्कल्प्यान्वाधायाऽग्रेणाऽग्निं स्थण्डिलद्वये - ग्रहान् सवितारञ्च सम्पूज्य, निर्वापादि ग्रहहोमान्ते सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायाज्याहुतीरुपजुहोति-

शन्न इन्द्राग्नी॰, शन्नो भगः॰, शन्नो धाता॰

इति त्रिभिः (सर्वत्र, विश्वेभ्यो देवेभ्य इदं॰) ॥ अथ पकवावशिष्टं चरुं मेक्षणेनोपहत्य जुहोति -

स प्रत्नथा सहसा जार्यमान सद्यः काव्यानि बळधत्त विश्वा । आपश्च मित्रं धिषणां च साधन्देवा अग्निं धारयन्द्रविणोदां स्वाहा ॥ १ ॥ स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् । विवस्वता चक्षसा द्यामपश्च देवा अग्निं॰ ॥ २ ॥ तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम्। ऊर्जः पुत्रम्भरतं सृप्रदानुं देवा अग्निं॰ ॥ ३ ॥ स मातरिश्वा पुरुवारपुष्टिविंदद्गातुं तनयाय स्वर्वित् । विशां गोपा जनिता रोदस्योर्देवा अग्निं॰ ॥ ४ ॥ नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची । द्यावाक्षामा रुक्मो अन्तर्विभाति देवा अग्निं॰ ॥ ५ ॥ रायो बुध्नः सङ्गमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः । अमृतत्वं रक्षमाणास एनं देवा अग्निं॰ ॥ ६ ॥ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् । सतश्च गोपां भवतश्च भूरैर्देवा अग्निं॰॥ ७ ॥ द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्रयसत् । द्रविणोदा वीरवतीमिषन्नो द्रविणोदा रासते दीर्घमायुः स्वाहा॑ ॥ ८ ॥ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे विभाहि । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः स्वाहा ॥ ९ ॥ [[TODO: परिष्कार्यम्]]

(सर्वत्र, अग्नय इदं॰) ॥ ततः स्विष्टकृदादि होमशेषं समाप्य,

स्वस्ति नो मिमीतां

इति दशर्चं स्वस्त्यात्रेयसूक्तं जपित्वा, कलशोदकेनाऽशनिदग्धभूमिं प्रोक्ष्य, सपरिवारं यजमानमभिषिञ्चेत् ॥ ब्राह्मणान्सम्पूज्य

प्रजापतिः प्रीयताम्

इति पुण्याहं वाचयित्वा, कलशदानं, दग्धभूमिपरिमितभूदानं, सुवर्णदानञ्च कुर्यात् । ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥ एवमेव द्विपात्सु चतुष्पात्सु वाऽशनिदग्धेषु शान्तिं कृत्वा, सुवर्णं दक्षिणाञ्च दद्यात् ॥

[[693]]