॥ रक्तवल्मीकशान्तिविधिः ॥ (बो. गृ. शे. सू. ३. १३. १७-२१)
देवालये सभास्थाने तटाके गृह एव वा ।
उत्पन्ने रक्तवल्मीके कुर्यात्तस्य प्रतिक्रियाम् ॥
समिद्भिस्सर्पिषा चैव हविषा तिलसर्षपैः ।
कुर्याद्व्याहृतिमन्त्रेण होममष्टशतं पृथक् ॥
धर्माऽऽस्थाने तु वल्मीके जाते मरणमादिशेत् ।
इन्द्रस्थाने श्रियं ब्रूयादाग्नेये च तथाऽश्रियम् ॥
याम्ये बन्धुविनाशस्स्याद्राक्षसे गृहिणीं हरेत् ।
वारुणे वन्धुलाभस्स्याद्वायव्ये दूर आगतिः ॥
सौम्ये सुखं तथा रौद्रे दुर्वाक्यं मरणं भवेत् ॥
इत्याह भगवान् बोधायनः ॥ ॥
[[692]]
प्रयोगः
अथ प्रयोगः ॥ शुभतिथि-वार-नक्षत्रयुक्ताऽऽत्मानुकूलदिवसे – सपत्नीको यजमानः प्रातर्नित्यकर्म कृत्वाऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य
मम सपरिवारस्य गृहसीमान्त-चतुरस्रस्थित-देवयजन-तटाक-सभागृह-गृहमध्ये पूर्वादिचतुर्दिक्षु रक्तवल्मीकोत्पत्तिसूचिताऽपमृत्यु-दारिद्र्य-बन्धुविनाश-कलत्रवियोग-जन्मभूमिवियोग-अक्षेम-दुर्वाक्यश्रवणादि-सकलानिष्टनिरसन द्वारा क्षेमोऽभय शुभाऽऽयुष्यारोग्यैश्वर्यादि सर्वाभीष्टफलसिध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं सग्रहमखां रक्तवल्मीकशान्तिं करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य,
सविता प्रीयताम्
इति पुण्याहं वाचयित्वाऽऽचार्यादीन्वृणुयात् । अथ देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य, ग्रहान्वाधानान्ते - वरदो नामाग्निः, सविता देवता, चरुर्हविः, उपहोमे - समस्तव्याहृतिमन्त्रेण समिच्चर्वाज्यतिलसर्षप द्रव्यैः प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, अर्यमादयः स्विष्टकृतः, इत्याद्यन्वाधायाग्रेणाऽग्निं स्थण्डिलद्वये ग्रहान्सवितारश्च सम्पूज्य, निर्वापादि ग्रहहोमान्ते सावित्र्या पक्वं हुत्वाऽन्वाधानोक्तक्रमेणोपहुत्य स्विष्टकृदादिहोमशेष समापयेत् ॥ कलशोदकेन वल्मीकोत्पत्तिस्थानं प्रोक्ष्य, यजमानं सपरिवारमभिषिञ्चेत् । आचार्यादीन्सम्पूज्य, कलशदानादिकं कुर्यात् । यथाशक्ति ब्राह्मणान् सम्भोज्याऽऽशिषो गृह्णीयात् ॥