१६ अद्भुतशान्तिविधिः

॥अद्भुतशान्तिविधिः॥ (बो. गृ. सू. ३ ६) अथ यद्यगारे स्थूणा विरोहेत्, कपोतो वाऽगारमध्येऽधिपतेत्, वायसो वा गृहं प्रविशेत्, गौर्वा गां धयेत्, गौरात्मानं प्रति धयेत्, अनड्वान्वा दिवमुलिल्खेखेत्, अनग्नौ वा धूमो जायेत, अनग्नौ वा दीप्येत, मधु वा जायेत, वल्मीकं वोपजायेत, निर्यासं वोपजायेत, छत्राकं वोपजायेत, मण्डूको वाऽम्भ्रणे वाशयेत्, श्वानप्रसूतो वा, श्वानो गृहमारोहेत्, सर्पो वा गृहपतिं जायां वोपतपद्विन्देतान्येषु वाऽद्भुतोत्पातेषु ॥ अथ देवयजनोल्लेलेखनप्रभृत्याऽऽग्निमुखात्कृत्वा पक्वाज्जुहोति

यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः

इति द्वाभ्याम् ॥ अथाज्याहुतीरुपजुहोति-

वास्तोष्पते, वास्तोष्पते, शन्नो देवीः, इद्राग्नी रोचना, कया नश्चित्र आभुवत्, को अद्य युङ्क्ते, भवतं नस्समनसौ

इति ॥ स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाऽग्रेणाऽग्निं शमीपर्णेषु हुतशेषं निदधाति -

शन्नो देवीरभिष्टये

इति ॥ स्थालीसङ्क्षालनमाज्यशेषमुदकशेषञ्च पात्र्यां समानीय तेषूत्पातेषु निनयेत् प्रोक्षेद्वा-

तच्छंयोरा वृणीमहे

इति ॥ अन्नं संस्कृत्य ब्राह्मणान्सम्पूज्याऽऽशिषो वाचयति

शिवं शिवम्

इति ॥ अद्भुतो व्याख्यातः॥

शौनकः -

अद्भुतानाञ्च सर्वेषां शान्तिं वक्ष्यामि शौनकः ।
दिव्यानि चान्तरिक्षाणि भौमानि विविधानि च ॥ १ ॥
रश्मिहीनं यदा सूर्य मण्डलस्य च भेदनम् ।
नक्षत्रचन्द्रसूर्याणां महोल्कापातनं तथा ॥ २ ॥
दिवोल्कापातनं तद्वद्दिवा नक्षत्रदर्शनम् ।
प्रतिसूर्यं चतुर्दिक्षु परिवेषत्रयं युतम् ॥ ३ ॥
त्रिकोणं चतुरस्रं वा विपरीताकृतिं तथा ।
प्रतिचन्द्रं तथा रात्रौ चन्द्रस्याप्येवमेव तु ॥ ४ ॥
अमेघे विद्युतं पश्येन च मेघे च विद्युतम् ।
अनग्निधूममाकाशे पतन्तीं दीपिकां तथा ॥ ५ ॥
गन्धर्वगानं शृणुयाद्दिव्यान् घोषांश्च दीर्घकान् ।
गन्धर्वनगरस्याऽपि गन्धर्वाणाञ्च दर्शनम् ॥ ६ ॥
पद्मादीनाञ्च दिव्यानि ह्यद्भुतानि निबोधत ।
गगनं लोहितं पश्येत्पश्येद्वा काकमैथुनम् ॥ ७ ॥
काकदुर्गन्धिपतनं वह्नौ शिरसि वा यदि ।
शिरस्युपविशेत्काकस्ताडयेद्वा ह्यकारणात् ॥ ८ ॥
वायसः कृष्णशकुनकपोतोलूक टिट्टिभाः ।
सुवर्णक्षीरपक्षी च चाषाद्याः प्रविशेद्गृहम् ॥ ९ ॥
देवालयानि कम्पन्ते दृश्यन्ते प्रतिरूपकाः ।
कलशा किङ्कलेत्किञ्चिद्र ध्वजप्रपतनं तथा ॥ १० ॥
स्विद्यन्ते देवताः सर्वा भिद्यन्ते वै ह्यकारणात् ।
उन्मीलन्ति विरोदन्ति निमीलन्ति हसन्त्यनु ॥ ११ ॥
गायन्त्यकस्मान्नृत्यन्ति चलन्ति निजपीठतः ।
पीठदेशे प्रजायन्ते मधु-छत्र-पिपीलिकाः॥ १२ ॥
रात्राविन्द्रधनुं पश्यन् दिवा श्वेतश्च है वायसम् ।
एवमादीन्यद्भुतानि ह्यन्तरिक्षाणि कथ्यते ॥ १३ ॥
अथ भौमानि वक्ष्यामि निदर्शनमिव क्षयात् ।
भूमिकम्पं षड्विधञ्च निर्घातं कम्पनं स्मृतम् ॥ १४ ॥
पातनं पतनश्चाऽपि ज्वलनश्च निरिन्धनम् ।
छत्राकं मधुवल्मीकं गृहे यत्र प्रजायते ॥ १५ ॥
गृहे तृणानि दारूणि प्ररोहन्ति गृहान्तरे ।
शुष्कवृक्षाः प्ररोहन्ति लीयन्ते तैलतोयकौ ॥ १६ ॥
पिपीलिकाः पक्षयुताः शिथिलीश्च पिपीलिकाः ।
जायन्ते चोद्भिजाः सर्वे प्राणिनो बहुधा तथा ॥ १७ ॥
अरण्यस्य मृगाः सर्वे ह्यभीताश्चाप्यकारणात् ।
प्रविशन्ति गृहे यस्य गृहमारोहयद्यदि ॥ १८ ॥
सर्वे मृगाश्च गावो वा अश्वोष्ट्रमहिषादयः ।
प्रविशन्ति गृहद्वारं सर्वे वा स्वयमेव हि ॥ १९ ॥
मण्डूकसर्पनकुला स्वयमग्नौ विशेद्यदि ।
कदलीपूगवृक्षादि ह्येकगर्भे फलद्वयम् ॥ २० ॥
उद्यानस्थापितारम्भा दक्षिणाभिमुखे फले ।
क्षेत्रादिष्वद्भुते जाते प्रदेशश्च प्रदापयेत् ॥ २१ ॥
गोशृङ्गेधूमजनने दुग्धे गौरुधिरं यदि ।
तद्ग्रामस्य च राष्ट्रस्य बाधकं तत्प्रजायते ॥ २२ ॥
तद्गृहान्निर्गमं श्रेयो मासं न प्रविशेद्गृहम् ।
मासाऽतीते तथा सम्यग्गृहशुद्धिश्च कारयेत् ॥ २३ ॥
तस्मिन्नहनि वा कुर्याच्छान्तिहोमं यथाविधि ।
शान्तिहोमं ततः कुर्यात्स्वशाखोक्तविधानतः ॥ २४ ॥
अद्भुतोत्पत्तिदेशे वा दक्षिणे वा गृहोत्तरे ।
कुण्डे वा स्थण्डिले वाऽपि गोमयेन सवारिणा ॥ २५ ॥
उपलिप्य स्थण्डिलञ्च रङ्गवल्यादिभिः सह ।
आचार्यं वरयेत्पश्चाद्ब्राह्मणं वेदपारगम् ॥ २६ ॥
सर्वावयवसम्पूर्णं कुलीनञ्च कुटुम्बिनम् ।
आचारवन्तं धर्मज्ञं सर्वप्राणिहितैषिणम् ॥ २७ ॥
शीललक्षणसम्पन्नं रूपौदार्यगुणान्वितम् ।
सदा सन्तुष्टमनसं रोगदूषणवर्जितम् ॥ २८ ॥
होमान्तेऽभिषेकञ्च कुर्याच्च कलशोदकैः ।
अक्षीभ्यामिति सूक्तेन पावमानाभिरेव च ॥ २९ ॥
आपो हि ष्ठेति सूक्तेन तरत्समन्दीति सूक्ततः ।
आनोभद्रेति सूक्तेन शन्नसूक्तेन चैव हि ॥ ३० ॥
आशुः शिशानसूक्तेन आयुष्यमिति सूक्ततः ।
अथ होमोक्तमन्त्रैश्च सुरास्त्वामभिषिञ्चयेत् ॥ ३१ ॥
समुद्रज्येष्ठा इत्यादि त्रायन्तामित्यृचेन च ।
इमा आपस्तृचेनैव देवस्य त्वेति मन्त्रतः ॥ ३२ ॥
अभिषेकाप्लुतं वस्त्रमाचार्याय निवेदयेत् ।
नवं वस्त्रान्तरं धृत्वा आज्यावेक्षणमाचरेत् ॥ ३३ ॥
सहिरण्यं सवस्त्रञ्च सर्वभूषणभूषिताम् ।
धेनुं पयस्विनी दद्यादाचार्याय सवत्सकाम् ॥ ३४ ॥
जापकेभ्यश्च विप्रेभ्यस्तथा हेमं प्रदापयेत् ।
गृह्याशीर्वचनं तेभ्यः प्रणिपत्य क्षमापयेत् ॥ ३५ ॥
सहस्रं भोजयेद्विप्रान् शतं वा दशकं तथा ।
बन्धुभिः सह भुञ्जीयाद्यथा वित्तानुसारतः ॥ ३६ ॥
एवं यः कुरुते शान्तिं तस्यायुर्वर्धते सदा ।
अद्भुतोद्भवदोषाश्च प्रणश्यन्ति न संशयः॥ ३७ ॥

प्रयोगः

अथ प्रयोगः ॥ अगारे स्थूणाविरोहण, शुष्कवृक्षप्ररोहण, मर्कट-वायस-कपोत-वन्यविहङ्गशशमृगादिप्रवेश, गोभिरन्यगवानां स्तनपान, स्वस्यस्तनपान, अनडुद्भिर्द्यौरुल्लेखन, अनग्नौ धूमजनन, अनग्नौ उद्दीपन, मधुमक्षिकाभिः कोटरनिर्माण, वल्मीकनिर्यास, छत्राक-दूर्वाद्युत्पत्ति, अम्भृणे मण्डूकशयन, अग्नौ मण्डूकपतन, मूर्ध्नि पल्लीसरठपतन, गोमृग-श्वान-शशक-ग्रहारोहण, सर्पाद्युपताप, कनकरजतवस्त्रवैडूर्यमणिमौक्तिकानां नाश, पात्रसहितप्रज्वलद्दीपपतन, अरिष्ट्रपक्षिदर्शन, काकमैथुनदर्शनाद्यद्भुतेषु तद्दोषशमनार्थमद्भुतशान्तिं कुर्यात् ॥ कर्ता प्रातः स्नानादि नित्यकर्म निर्वार्त्याऽऽचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

ममाऽस्मिन्गृहे अमुकप्रवेशोत्पत्याद्यद्भुतसूचित-भाविसर्वारिष्टनिरसनद्वारा क्षेमाऽभयाऽऽयुरारोग्यप्राप्त्यर्थं श्रीपरमेश्वरप्रीत्यर्थ (सत्यनुकूलेसग्रहमखां) अद्भुतशान्तिं करिष्ये

इति सङ्कल्प्य । गणेशं सम्पूज्य

अभयङ्करेन्द्रः प्रीयताम्

इति पुण्याहं वाचयित्वा, देव यजनोल्लेखनप्रभृत्याग्निं प्रतिष्ठाप्य, आचम्य प्राणानायम्य

ममाऽस्मिन्गृहे अमुकप्रवेश॰ श्रीपरमेश्वरप्रीत्यर्थमद्भुतशान्तिहोमं करिष्ये,

अद्भुतशान्तिहोमः कर्म॰ वरदो नामाऽग्निः, अभयङ्करेन्द्रो देवता, चरुर्हविः, उपहोमे-वास्तोष्पते इत्यादि सप्तमन्त्रैराज्येन, अग्निः स्विष्टकत्, इत्यादि सङ्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निं ब्रीह्यादिनिर्मिते स्थंडिले कलशं प्रतिष्ठाप्य

यत इन्द्र भयामहे, स्वस्तिदा विशस्पतिः॰

इति द्वाभ्यामभयङ्करेन्द्रमावाह्य, षोडशोपचारैरभ्यर्च्य देवस्य त्वेत्यादि अभयङ्करेन्द्राय चरुं निरुप्य प्रोक्ष्याऽऽज्यसंस्काराद्यग्निमुखान्तं कृत्वा,

यत इन्द्र॰, स्वस्तिदा॰

इति द्वाभ्यां पक्वं जुहुयात् । (अभयङ्करेन्द्रायेद॰) ततः स्विष्टकृतमवदायान्तःपरिघौ निधायाज्याहुतीरुपजुहोति-वास्तोष्यते प्रतिजानीहि॰, वास्तोपते शग्मया॰ (द्वयोः-वास्तोष्पतय इदं॰) शन्नो देवीः॰ (अद्भ्य इद॰)

इन्द्राग्नी रोचना दिवः परिवाजेषु भूषथः । तद्वां चेति प्रवीर्यं स्वाहा (इन्द्राग्निभ्यामिदं॰) कयानश्चित्र आ भुवत्॰ ॥ को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून्हृत्स्वसोम यो भून्य एषां भृत्यामृणधत्स जीवात्स्वाहा (द्वयोः, कायेद॰) भवतन्नः समनसौ समोकसावरेपसौ। मा यज्ञँ हिँ सिष्टं मा यज्ञपतिं जातवेदसौ शिवौ भवतमद्य नः स्वाहा (जातवेदोभ्यामग्निभ्यामिदं॰) इति ॥ [[TODO: परिष्कार्यम्]]

स्विष्टकृदादिप्रागुत्तरपरिषेकात्कृत्वा

शन्नो देवी॰

इति शमापर्णेषु हुतशेषं निधायोत्तरपरिषेकादि होमशेषं समाप्यावाहितदेवतां पुनः सम्पूज्य, स्थालीसङ्क्षालनमुदकशेषमाज्यशेषं कलशोदकञ्च पात्र्यां समानीय,

तच्छंयोरा वृणीमहे

इति तत्तदद्भुतस्थानानि प्रोक्ष्य, ब्राह्मणान्सम्भोज्य

प्रजापतिः प्रीयताम्

इति पुण्याहं वाचयित्वा

शिवं शिवं शिवम्

इति त्रिर्वाचयेत् ॥ आवाहितदेवतामुद्रास्याऽऽचार्याय कलशदानं, गोदानं,ऋत्विग्भ्यो दक्षिणाप्रदानञ्च कृत्वा यावच्छक्ति ब्राह्मणान्भोजयित्वाऽऽशिषो गृह्णीयात् ॥