॥ अथ शिथिलीकल्पः॥ (बो. ग. शे. सू. ३. १३. १-१६) अथातश्शिथिलीकल्प व्याख्यास्यामः- गृहसीमान्तचतुरश्रदिग्विधानेनान्तश्चोत्तरविधिः ॥ गृहमध्ये शिथिली जायेत सप्ताहात् शुभकरं भवत्वत ऊर्ध्वं ब्याधिपीडनं करोति
यत इन्द्र भयामहे
इति पलाशसमिद्भिरष्टोत्तरशतं जुहुयात् हविष्यमाज्यञ्च दोषमाहरति ॥ इन्द्रदिग्भागे शिथिली जायते सकुदुम्बस्य महद्भयं भवति
सदसस्पतिम्
इति मन्त्रेण खादिरसमिद्भिर्जुहुयात् ॥ अग्निदिग्भागे शिथिली जायेत सप्ताहात्सुहृदागमनमत ऊर्ध्वं राजक्षोभं करोतेि
अयमु ते समुतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे स्वाहा
इत्युदुम्बरसमिद्भिर्जुहुयात् ॥ यमदिग्भागे शिथिली जायतेऽष्टाहादर्थलाभमाप्नोति तत ऊर्ध्वं भार्यामरणं करोति प्लक्षसमिद्भिस्त्रियम्बकेन जुहोति ॥ निर्ऋतिदिग्भागे शिथिली जायते त्र्यहाद्वृष्टिं करोति अत ऊर्ध्वं भार्यानाशं करोत्यपामार्गसमिद्भिः
प्रजापते न त्वत्
इति मन्त्रेण जुहोति ॥ वरुणदिग्भागे शिथिली जायते गर्भलाभं करोत्यत ऊर्ध्वं चोरभयं कुर्याद्दूर्वासमिद्भिः
गणानां त्वा
इति जुहोति ॥ वायुदिग्भागे शिथिली जायते कन्यादोषमुपजायत दूर्वासमिद्भिः
सप्त ते अग्ने
इति जुहोति ॥ सोमदिग्भागे शिथिली जायते शत्रुखादनं करोत्यत ऊर्ध्वं धान्यनाशं करोति वटसमिद्भिरघोरमन्त्रेण जुहोति ॥ ईशानदिग्भागे शिथिली जायते गृहपतेर्व्याधिपीडनं करोति
येषामीशे
इति शमीसमिद्भिर्जुहोति ॥ द्वारदेशे शिथिली जायते गृहिणीनाशं करोति बिल्वसमिद्भिस्त्रियम्बकेन जुहोति ॥ शयनप्रदेशे शिथिली जायते गृहपतमरणं व्याहृतीभिर्यवैर्जुहोति ॥ गोमहिषस्थाने॰ प्रजानां चक्षुर्नाशं॰ - व्याहृतीभिर्यवैर्जुहुयात् ॥ जलभाण्डस्थाने दासवर्गनाशं॰ व्याहृतीभिर्यवैः॰ ॥ देवालये॰ ग्रामेऽग्निभयं॰ बिल्वसमिद्भिस्त्र्यम्बकमन्त्रेण॰ ॥ सभास्थाने॰ ग्रामस्य सकुदुम्बस्याऽध्रुवं कुर्यादात्वा हार्षसूक्तेन दूर्वाभिर्जुहोति ॥
नारदसंहितायाम् -
उत्पाता निखिला नृणामगम्याऽशुभसूचकाः ।
तथाऽपि सद्यः फलदं शिथिलीजननं महत् ॥ १ ॥
शिथिलीजननं ग्रामे सेतो वा देवतालये ।
तत्फलं ग्रामपस्यैव सीम्नि सीमाधिपस्य च ॥ २ ॥
शिथिलीजनने हानिः सर्वस्थानेषु दिक्षु च ।
तद्दोषशमनायैव शान्तिकर्म समाचरेत् ॥ ३ ॥
स्वर्णेन मृत्युप्रतिमां कृत्वा वित्तानुसारतः ।
रक्तवर्णं चर्मदण्डधरं महिषवाहनम् ॥ ४ ॥
नववस्त्रञ्च संवेष्ट्य तण्डुलोपरि पूजयेत् ।
तल्लिङ्गेन च मन्त्रेण नैवेद्यञ्च यथाविधि ॥ ५ ॥
पूर्णकुम्भं तदीशान्यां रक्तवस्त्रेण वेष्टितम् ।
पञ्चत्वक्पल्लवैर्युक्तं जलं मन्त्रैः समर्चयेत् ॥ ६ ॥
अग्निसंस्थापनं प्राच्यां स्वगृह्योक्तविधानतः ।
प्रत्येकमष्टोत्तरशतमघोरेणैव होमयेत् ॥ ७ ॥
मन्त्रेण समिदाज्यान्नैः शेषं पूर्ववदाचरेत् ।
द्विजाय प्रतिमां दद्यात्सर्वदोषापनुत्तये ॥ ८ ॥
जलमन्त्रेण संप्रोक्ष्य तत्स्थानं कुम्भवारिभिः ।
एवं यः कुरुते सम्यक्स तु दोषात्प्रमुच्यते ॥ ९ ॥
(इति नारदीयसंहितायां शिथिलीजननशान्तिः ॥ अध्यायः ३५) ॥
शौनकः -
शौनकोऽहं प्रवक्ष्यामि शिथिलीशान्तिमुत्तमाम् ।
आयुर्वृद्धिकरं नृणामपमृत्युविनाशनम् ॥ १ ॥
शिथिली संज्ञको मृत्युर्नव दिक्ष्वपि जायते ।
चतुरस्र गेहसीमां मध्यादीशानकं कमात् ॥ २ ॥
शुभाऽशुभ फलञ्चैव ज्ञातव्यञ्च क्रमेण तु ।
गृहमध्ये तु शिथिली सप्ताहाज्जायते ध्रुवम् ॥ ३ ॥
अत ऊर्ध्वं प्रजानां च पीडनं भवति ध्रुवम् ।
ऐन्द्र तु शिथिलीजाते ह्यष्टाहे स्यान्महद्भयम् ॥ ४ ॥
अत ऊर्ध्वं भवत्येव व्याधिजं स्यान्महद्भयम् ।
जायते वह्निदिग्भागे पञ्चाहात्सुहृदागमम् ॥ ५ ॥
अत ऊर्ध्व राजभयं भवत्येव न संशयः ।
उत्पन्ने याम्यदिग्भागे दशाहादर्थनाशनम् ॥ ६ ॥
अत ऊर्ध्वं मृत्युभयं भवत्येव न संशयः ।
अत ऊर्ध्वं नैर्ऋत्यां (दिशि ह्युत्पन्ने) दशाहात्सर्पपीडनम् ॥ ७ ॥
अत ऊर्ध्वं कीर्तिसिद्धिर्भवत्येव न संशयः ।
वारुण्यां धान्यनाशः स्याद्वादशाहान्न संशयः ॥ ८ ॥
अत ऊर्ध्वं चोर्ध्वमुखाद्यं भवति नित्यशः ।
वायव्यां कन्यकादोषो दशाहाच्छत्रपातनम् ॥ ९ ॥
अत ऊर्ध्व मृत्युभयं स्वगृहे सर्वथा भवेत् ।
सौम्ये तु तद्गृहपतर्दशाहे मरणं भवेत् ॥ १० ॥
अत ऊर्ध्वं धान्यलाभ प्राप्तवान्मानवोऽचिरात् ।
ईशे गृहपतेर्व्याधिपीडनं भवति ध्रुवम् ॥ ११ ॥
एकादशाहाद्भवति धननाशं ततः परम् ।
द्वारदेशे द्वादशाहे गृहिणीमरणं भवेत् ॥ १२ ॥
अत ऊर्ध्वं निर्गमनं भवत्येव न संशयः ।
शयने विंशतिदिने गृहेशस्य मृतिर्भवेत् ॥ १३ ॥
तथाऽऽज्यतैलभाण्डानां स्थानेशा जायते यदा ।
चतुष्पदानां सर्वेषां तदा नाशं भवेद्ध्रुवम् ॥ १४ ॥
जलभाण्डप्रदेशे तु प्रजानां नाशनं भवेत् ।
गृहमध्ये सभामध्ये देवानामालये तथा ॥ १५ ॥
तत्तत्स्थाने समुत्पन्ने मासार्धाद्गृहनाशनम् ।
तटाके वापिकूपाये द्विमासात्सेतुबन्धने ॥ १६ ॥
आरामे मुख्यपुंसश्च त्रिमासान्मरणं भवेत् ।
अन्यस्थानेषु जातेषु अरिष्टं भवति ध्रुवम् ॥ १७ ॥
मृत्युप्रशमनार्थञ्च शान्तिं कुर्यात्प्रयत्नतः ।
एवं कृतेषु शिथिलीजातदोषो न विद्यते ॥ १८ ॥
उत्पातदिवसेऽन्यस्मिन्ननुकूले शुभे दिने ।
शान्तिं प्रकुर्वीत शुचिः प्रयतात्मा प्रयत्नतः ॥ १९ ॥
स्वर्णन मृत्युप्रतिमां कृत्वा वित्तानुसारतः ।
रक्तवर्णमयां दण्डधरां महिषवाहनाम् ॥ २० ॥
मुकुटेन समायुक्तां कङ्कणेन च शोभिताम् ।
कटकेन विराजन्तीमर्चयेत्सुसमाहितः ॥ २१ ॥
पिपीलिकान्सुवर्णेन कारयेत् सप्त पञ्च वा ।
स्थूलं वृत्तमुखं पृष्ठं द्वादशो दशमाप्नुयात् ॥ २२ ॥
कृशमध्यं मृत्युरूपं शिथिलीरूपमुच्यते ।
गोमयेनोपलिप्याथ रङ्गवल्लिकया सह ॥ २३ ॥
ब्राह्मणान् सम्यगाहूय पुण्याहं वाचयेत्ततः ।
आचार्यं वरयेदादावृत्विजो वृणुयात्ततः ॥ २४ ॥
सदाचारान्स्वधर्मज्ञान्कुलीनान्सकुदुम्बिनः ।
श्रुताध्यायसुसम्पन्नान्मन्त्रतन्त्रेषु कोविदान ॥ २५ ॥
एवं लक्षणसम्पन्नानाचार्यप्रमुखान् द्विजान् ।
आचार्यं सम्यगभ्यर्च्य वस्त्रहेमाङ्गुलीयकैः ॥ २६ ॥
तथा सम्पूज्य चान्यांश्च स्वशक्त्या विभवान्वितः ।
पूजास्थानं समागत्य कारयेद्विधिवत्ततः ॥ २७ ॥
द्रोणत्रयान्वितं धान्यं तदर्धे श्वेततण्डुलम् ।
तदर्धं तिलराशिञ्च मध्ये पद्मं सकर्णिकम् ॥ २८ ॥
तन्मध्ये स्थापयेत्कुम्भमव्रणं सुमनोहरम् ।
तत्पूर्वादि चतुर्दिक्षु प्रागादि क्रमतो न्यसेत् ॥ २९ ॥
आकलशेष्वित्यनया कुम्भान्संस्थाप्य पूर्व च ।
इमम्मे गङ्गे मन्त्रेण पूरयेत्तीर्थवारिणा ॥ ३० ॥
स्योना पृथिवीति मन्त्रेण पञ्चत्वक्पञ्चपल्लवान् ।
पञ्चामृतं पञ्चगव्यं तत्तन्मन्त्रेण योजयेत् ॥ ३१ ॥
या ओषधीति मन्त्रेण ओषधीनि विनिक्षिपेत् ।
सहिरत्नानि मन्त्रेण कुम्भे रत्नानि निक्षिपेत् ॥ ३२ ॥
तस्योपरि न्यसेत् पात्रं सुवर्णादि विनिर्मितम् ।
तिलपूरितकांस्यं वा रक्तवस्त्रं प्रसार्य च ॥ ३३ ॥
पूर्वोक्तलक्षणोपेतां प्रतिमां स्थापयेत् क्रमात् ।
मृत्युमृत्युपतीम्याञ्च मध्ये कुम्भौ तु निक्षिपेत् ॥ ३४ ॥
मृत्युरूपमथावाह्य यमरूपमतः परम् ।
देवतापूजनार्थाय पञ्चामृतपुरस्सरम् ॥ ३५ ॥
स्नपनं कारयित्वाऽथ तत्तन्मन्त्रेण पूजयेत् ।
परं मृत्यो इति मन्त्रेण यमाय सोमं मन्त्रतः ॥ ३६ ॥
गन्धपुष्पैः समभ्यर्च्य धूपदीपैस्तथैव च ।
पृषीदनं निवेद्याथ मृत्युमन्त्रेण पूजयेत् ॥ ३७ ॥
सर्वोपचारैः शिथिलीं पूजयेत्सुसमाहितः ।
स्पृशन्नष्टसहस्रं वा शतमष्टोत्तरन्तु वा ॥ ३८ ॥
यत इन्द्र च राक्षोघ्नं पूर्वकुम्भेऽर्चयेजपन् ।
यमाय सोमं मन्त्रेण दक्षिणे च प्रपूजयेत् ॥ ३९ ॥
प्रशुन्ध्युवं वामनञ्च वरुणे चार्चयेज्जपेत् ।
सोमो धेनुं पौरुषञ्च उत्तरे पूजयेज्जपेत् ॥ ४० ॥
गृहस्य पूर्वदिग्भागे स्थण्डिलं परिकल्पयेत् ।
उल्लेखनादिकं कुर्यादग्निं संस्थाप्य तत्परम् ॥ ४१ ॥
स्वगृह्योक्तविधानेन चक्षुष्यन्तश्च कारयेत् ।
ग्रहयज्ञं प्रकुर्वीत शान्तिहोमं ततः परम् ॥ ४२ ॥
अग्नेश्च पूर्वदिग्भागे धान्यराशिं प्रकल्पयेत् ।
तस्योपरि न्यसेत्पात्रमाचार्यः पूजयेत्ततः ॥ ४३ ॥
पूर्वोक्तेनैव यद्रव्यं गन्धपुष्पाक्षतादिभिः ।
प्रधानदेवताहोममष्टोत्तरशतानि च ॥ ४४ ॥
परं मृत्यो तु मन्त्रेण यमाय सोममन्त्रतः ।
पक्वान्नसमिदाज्याद्यैर्हुनेञ्चैव यथाविधि ॥ ४५ ॥
ततो होमं प्रकुर्वीत समिदाज्यचरून्क्रमात् ।
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥ ४६ ॥
ततः पुष्पाञ्जलिं दत्वा यजमानः समाहितः ।
ततः कुम्भस्थतोयेन कारयेदभिषेचनम् ॥ ४७ ॥
भद्रासनोपविष्टस्य सकुटुम्बञ्च प्रोक्षयेत् ।
यजमानस्य शिरसि मन्त्रपूतजलेन तु ॥ ४८ ॥
आपो हि ष्ठा पावमानीः स्वस्तिदा विश एकया ।
यमाय सोमं कटुद्रा वामनञ्च प्रशुन्ध्युवम् ॥ ४९ ॥
सोमो धेनुं पौरुषशञ्च ग्रहेन्द्राद्यैश्च मन्त्रतः ।
मुश्चामि त्वेति मन्त्रेण समुद्रज्येष्ठेति सूक्ततः ॥ ५० ॥
ततः पौराणमन्त्रैश्च अभिषेकं समाचरेत् ।
सर्वैश्च कलशैः स्नाप्य आर्द्रवस्त्रं विसर्जयेत् ॥ ५१ ॥
धौतमाल्याम्बरधरो गन्धाभरणभूषितः ।
विप्रानभ्यर्च्य विधिवद्गन्धपुष्पाक्षतादिभिः ॥ ५२ ॥
आचार्यं समलङ्कृत्य प्रतिमादानमाचरेत् ।
धेनुं पयस्वती दद्यादाचार्याय प्रदापयेत् ॥ ५३ ॥
ऋत्विग्भ्यो दक्षिणां दद्याज्जापकेभ्यस्तथैव च ।
आज्यावलोकनं कुर्यात्तत्तद्दोषोपशान्तये ॥ ५४ ॥
ब्राह्मणैराशिषो भूत्वा ब्राह्मणैः सहबान्धवः ।
एवङ्कृते न सन्देहो न दोषः शिथिलीभवः ॥ ५५ ॥
तत्रोक्ताः पौराणमन्त्राः -
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभुः॥ १ ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयायते ।
आखण्डलोऽग्निर्भगवान्यमो वै निर्ऋतिस्तथा ॥ २ ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥ ३ ॥
कीर्तिर्लक्ष्मीधृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥ ४ ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसिताऽर्कजाः ॥ ५ ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ।
देवदानवगन्धर्वा यक्षराक्षसपनगाः ॥ ६ ॥
ऋषयो मुनयो गावो देवमातर एव च ।
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः ॥ ७ ॥
अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्नानि कालस्यावयवाश्च ये ॥ ८ ॥
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ ९ ॥
इति पौराणमन्त्राः ॥
प्रयोगः
अथ प्रयोगः - उत्पातदिवसेऽन्यस्मिन् वा शुभतिथि-वार-नक्षत्रयुक्ताऽऽत्मानुकूलदिवसे- सपत्नीको यजमानः प्रात नित्यकर्मान्ते, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
मम सपरिवारस्य गृहसीमान्तचतुरस्रस्थितगृहमध्ये मृत्युरूपशिथिलीसमुत्पत्तिसूचित-व्याधिपीडा-महद्भय-राजक्षोभ-भार्यामरण-चोरभय-कन्यादोष-धान्यनाश-अक्षिनाश-दासवर्गनाश-अग्निभय-ग्रामनाशादि सर्वानिष्टनिवृत्तिपूर्वकक्षेमायुरारोग्याभयप्राप्त्यर्थंं, श्रीपरमेश्वरप्रीत्यर्थं, सग्रहमखां शिथिलीशान्ति करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य
आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, सविता प्रीयताम्
इति पुण्याहं वाचयित्वाऽऽचार्यादि-ऋत्विजो वरयित्वा, देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य, प्राणानायम्य देशकालौ सङ्कीर्य, मम सपरिवारस्य॰ ग्रहमखपूर्वक-शिथिलीशान्तिहोमं करिष्ये॰ ग्रहान्वाधानान्ते, वरदो नामाग्निः, सविता देवता, चरुर्हविः, उपहोमे –
यत इन्द्र भयामहे
इति मन्त्रेण पलाशसमिच्चर्वाज्यद्रव्यैः प्रतिद्रव्यमष्टोत्तरशतसङ्ख्याकाहुतिभिः, [पूर्वे शिथिलीजाते-
सदसस्पतिं॰
इति मन्त्रेण खादिरसमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, (सदसस्पतय इदं॰) आग्नेय्यां-
अयमु ते समुतसि कपोत इव गर्भधिम् । वचस्तच्चिन्न ओहसे
इति मन्त्रेणौदुम्बरसमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, (इन्द्रायेद॰) दक्षिणे-
त्र्यम्बकं॰
इति मन्त्रेण प्लक्षसमिद्भिरष्टोत्तरशतसङ्ख्याहुतिभिः, निर्ऋत्यां-
प्रजापते न त्वत्
इति मन्त्रेणाऽपामार्गसमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, पश्चिमे–
गणानां त्वा॰
इति मन्त्रेण दुर्वासमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, वायव्यां-
सप्त ते अग्ने॰
इति मन्त्रेण दूर्वासमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, उत्तरे-
अघोरेभ्योऽय॰
इति मन्त्रेण वटसमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, ऐशान्यां -
येषामीशे॰
इति मन्त्रेण शमीसमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, द्वारप्रदेशे -
त्र्यम्बकं॰
इति मन्त्रेण बिल्वसमिद्भिरष्टोत्तरशतसङ्ख्याकाहुतिभिः, शयनप्रदेशे - व्याहृतिभिः प्रत्येकं यवैरष्टोत्तरशतसङ्ख्याकाहुतिभिः, गोष्ठे -व्याहृतिभिः प्रत्येकं यवैः १०८ आहुतिभिः, जलभाण्ड स्थाने - सप्तव्याहृतिभिः (ॐ भूः स्वाहा, अग्नय इदं॰ ॥ भुवः स्वाहा, वायव इदं॰ ॥ सुवः स्वाहा, सूर्यायेदं॰ ॥ महः स्वाहा, ब्रहस्पतय इदं॰॥ जनः स्वाहा, वरुणायेदं॰॥ तपः स्वाहा, इन्द्रायेदं॰॥ सत्यँ स्वाहा, विश्वेभ्यो देवेभ्य इदं॰ इति) प्रत्येक यवैः १०८ आहुतिभिः, देवतायतने - बिल्वसमिद्भिः १०८ आहुतिभिः, सभास्थाने-
‘आ त्वाऽहार्षं॰’
इत्यादि पञ्चमन्त्रैर्दूर्वासमिद्भिः प्रत्येकं १०८ आहुतिभिः,
(आ त्वाऽहार्षमन्तरभूः । ध्रुवस्तिष्ठाविचाचलिः । विशस्त्वा सर्वा वाञ्छन्तु । मा त्वद्राष्ट्रमधिभ्रशत्स्वाहा ॥ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत् । ध्रुवा ह पर्वता इमे । ध्रुवो राजा विशामयँ स्वाहा ॥ इहैवैधि मा व्यथिष्ठाः । पर्वत इवाविचाचलिः । इन्द्र इवेह ध्रुवास्तिष्ठ । इह राधमु धारय स्वाहा । अभितिष्ठ पृतन्यतः । अर्धरे सन्तु शत्रवः । इन्द्र इव वृत्रहातिष्ठ । अपः क्षेत्राणि सञ्जयन्स्वाहा ॥ इन्द्र एणमदीधरत् । ध्रुवं ध्रुवेण हविषा । तस्मै देवा अधिब्रुवन् । अयञ्च ब्रह्मणस्पतिः स्वाहा ॥ [[TODO: परिष्कार्यम्]]
सर्वत्र, (इद्रायेदं॰),
इति)
अर्यमादयः स्विष्टकृतः, इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाग्रेणाऽग्निं ग्रहवेद्यां ग्रहानाबाह्य सम्पूज्य, तदुत्तरेऽष्टदळपझे धान्योपरि कलशं प्रतिष्ठाप्य वरुणपूजान्ते गायत्र्या सवितारमावाह्य षोडशोपचारैः सम्पूजयेत् ॥ ग्रहचरुनिर्वापान्ते सवित्रे चरुं निरुप्य प्रोक्ष्याज्यसंस्काराद्यग्निमुखान्तं कृत्वा, ग्रहहोमान्ते सावित्र्या पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायाऽन्वाधानोक्तक्रमेणोपहुत्य, स्विष्टकृदादि होमशेषं समापयेत्॥ आवाहितदेवताः पुनः सम्पूज्य, सर्त्विगाचार्यः कलशोदकेन शिथिल्युद्भवस्थानं प्रोक्ष्य, सपरिवारं यजमानं
आपो हि ष्ठा॰
इति तिसृभिः
हिरण्यवर्णाः
इति चतसृभिः
पवमानः सुवर्जनः॰
इत्येतेनाऽनुवाकेन, व्याहृतिभिः
अपैतु॰
इति मृत्युसूक्तेन,
यत इन्द्र॰, स्वस्तिदा॰, सदसस्पतिं॰, गणानान्त्वा॰, सप्त ते अग्ने॰, अधोरेभ्यः॰, येषामीशे॰, आ त्वाहार्ष॰
इत्यादिभिरायुष्यसूक्तेनाभिषिञ्चति । ततो ब्राह्मणान्सम्पूज्य सपीठं कलशदानं गोदानं यथाशक्ति दक्षिणाप्रदानञ्च कुर्यात् कर्मेश्वराय समर्प्य ब्राह्मणान्सम्भोज्याशिषो गृह्णीयात् ॥ ॥ केचन कारिकोक्तप्रकारेण मृत्युपातमां शिथिलीप्रतिमां वा सम्पूज्य जयहोमादि कुर्वन्ति ॥