१४ शताभिषेकविधिः (सहस्रचन्द्रदर्शनशान्तिः)

॥ अथ शताभिषेकविधिः ॥ (सहस्रचन्द्रदर्शनशान्तिः) (बो. गृ शे. सू. १. २४)

अथातश्शताभिषेकं व्याख्यास्यामः - शतसंवत्सरं जीवतस्सहस्रचन्द्रदर्शिनो वोदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽथ देवयजनोल्लेखनप्रभृत्याऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं व्रीहिभिर्यवैर्वा चतुरनं स्थण्डिलं करोति ॥ तत्र सुवर्णरजतताम्रमृण्मयैर्वा कलशैस्तन्तुना परिवृतैः प्रक्षाळ्य मध्ये प्रधानकलशं निधाय गन्धपुष्पधूपदीपैः फलैर्रत्नैरवीर्यैन्द्रादिक्रमेण दक्षिणापरोत्तरान्कलशान्स्थापयित्वा तिरः पवित्रं निधाय शुद्धोदकेन पूरयित्वा मध्ये प्रधानकलशे नवरत्नैरवकीर्याऽहतेन वाससा प्रतिच्छाद्य गन्धपुष्पधूपदीपैरलङ्कृत्य मध्ये प्रधानकलशे ब्रह्माणमावाहयति । ऐन्द्रादिक्रमेण

प्रजापतिं, परमेष्ठिनं,चतुर्मुखं, हिरण्यगर्भमावाहयामि

इत्यावाह्य परिधानप्रभृत्याग्निमुखात्कृत्वा दैवतमर्चयति -

यो भुवः

इति तिसृभिः

हिरण्यवर्णाः शुचयः पावकाः

इति चतसृभिः

पवमानः सुवर्जनः

इत्येतेनानुवाकेन मार्जयित्वाऽथैनान् गन्धपुष्पधूपदीपैः

अमुष्मै नमोऽमुष्मै नमः

इति । अन्नेन

अमुष्मै स्वाहाऽमुष्मै स्वाहा

इति ॥ अथ पक्काज्जुहोति -

आयुष्टे विश्वतो दधत्

इति पुरोनुवाक्यामनूच्य

आयुर्दा अग्ने

इति याज्यया जुहोति ॥ अथाज्याहुतीरुपजुहोति-

ब्रह्म जज्ञानं

इति षड्भिः

अग्निरायुष्मान्

इति पञ्चभिः पर्यायैः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् ॥ अथाग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति –

आयुष्टे, आयुर्दा अग्ने

इति द्वाभ्याम् ॥ अथैनमद्भिरभिषेकं करोति-

यास्सुगन्धा रसा वर्णाः

इति चतसृभिः प्रत्यृचं प्रधानकलशेनाभिषिञ्चति । ऐन्द्रादि क्रमेण -

याः प्राची

इति चतसृभिरनुच्छन्दसमाभिषेकं करोति ।

या ऊर्ध्वाः

इति प्रधानकलशशषेणाऽभिषिञ्चति । अहतानि वासांसि परिधायाप आचम्यालङ्कृत्य तत आदित्यमुदीक्षयति-

उद्वयं तमसस्परि, उदु त्यं, चित्रं, तच्क्षुर्देवहितं, य उदगात

इति ॥ अथैतेनैव यथेतमेत्यैरकां साधिवासामास्तीर्य तस्यां प्राङ्मुख उपवेश्य सुवर्णरजतताम्रकांस्ये वा पात्रे हविराज्यं हिरण्यं निधाय निमील्यावेक्ष्य ब्राह्मणाय प्रयच्छति ॥ अथ रथमारुह्य ग्रामं प्रदक्षिणीकृत्य दुन्दुभिशब्देन स्वस्तिसूक्तेन गृहं प्रविश्य गुरवे वरं दत्वा ब्राह्मणान् सम्पूज्याशिषो वाचयित्वा दशपूर्वान्दशापरानात्मानञ्चैकविंशतिं पक्तिं च पुनाति पुत्रपौत्रैश्च षष्टिवर्षसहस्राणि स्वर्गलोकमतीत्य ब्रह्मणस्सायुज्यं सलोकतामाप्नोति इत्याह भगवान बोधायनः ॥

शौनकः-

प्राप्ते शततमे वर्षे अपमृत्युभवेध्रुवम् ।
भार्यापुत्रवियोगश्च मातापित्रोर्मृतिस्तथा ॥ १ ॥
महापीडा राजबाधा वह्निबाधा च तस्करैः ।
दुःस्वमादीनि जायन्ते रोगाश्च विविधा अपि ॥ २ ॥
नक्षत्राणि न दृश्यन्ते ध्रुवादीनि स्फुटान्यपि ।
भूतप्रेतपिशाचाद्या दृश्यन्ते विविधा अपि ॥ ३ ॥
दन्तबाधा दृष्टिमान्द्यं छायादिविकृतिस्तथा ।
एते चाऽन्ये महोत्याता जायन्ते नात्रसंशयः ॥ ४ ॥
तदाऽनिष्टनिवृत्त्यर्थं क्षेमायुष्यविवृद्धये ।
मृत्युनाशाय च क्षिप्रं प्राप्तेऽथ शतवत्सरे ॥ ५ ॥
सहस्रन्दोर्दर्शने च कुर्याच्छान्तिं विधानतः ।
लोभादनादराद्यस्तु शान्तिन्नैव सामाचरेत् ॥ ६ ॥
तस्मिन्वर्षे भवेन्मृत्युः सत्यमेव न संशयः ।
प्राप्ते शततमे वर्ष पुनर्जन्म तदुच्यते ॥ ७ ॥
जन्मर्क्षे तु त्रिजन्मर्क्षे ह्यन्यस्मिन्वा शुभे दिने ।
शुभवारेऽनुकूलर्क्षे शान्तिकर्म समाचरेत् ॥ ८ ॥
स्नान मङ्गलकं कृत्वा नित्यकर्म समाप्य च ।
सद्गृह्य मङ्गलद्रव्यं प्रणम्य ब्राह्मणोत्तमान् ॥ ९ ॥
गणेशं पूजयेदादौ पञ्चगव्यपुरःसरम् ।
नान्दीश्राद्धञ्च पुण्याहं ग्रहयज्ञं ततः परम् ॥ १० ॥
होमं शताभिषेकस्य गृह्योक्तविधिना ततः ।
वेदपारायणञ्चैव कर्तव्यं हि विशेषतः ॥ ११ ॥
रुद्राभिषेकं रुद्रञ्च सङ्ख्यारुद्रजपेन च ।
जप्त्वा पुरुषसूक्तञ्च रुद्रसूक्तं ततः परम् ॥ १२ ॥
आयुष्यसूक्तं श्रीसूक्तं यक्ष्मसूक्तं त्रियम्बकम् ।
कलशस्य जलेनैव यजमानस्य मूर्धनि ॥ १३ ॥
ध्रुवासुत्वेति मन्त्रेण ह्यब्लिङ्गैश्च पवित्रकैः ।
पावमानैर्वारुणैश्च पठन्तमभिषेचयेत् ॥ १४ ॥
अभिषेकाप्लुतं वस्त्रमाचार्याय प्रदापयेत् ।
नववस्त्रधरः कर्ता कृत्वा मङ्गलदर्शनम् ॥ १५ ॥
शतमानहिरण्यञ्च दद्याद्दक्षिणसंयुतम् ।
स्पृशेन्मङ्गलवस्तूनि यो ब्रह्मेति च सूक्ततः ॥ १६ ॥
तीर्थं क्षीरञ्च सम्प्राश्य शतनिष्कं प्रदापयेत् ।
दशदानानि दत्वाऽथ दीपदानं ततः परम् ॥ १७ ॥
नवधान्यानि दत्वाऽथ हारं कुण्डलमेव च ।
वस्त्रञ्च भूषणं कन्यां दत्वा ब्राह्मणभोजनम् ॥ १८ ॥
उपायनं षोडशञ्च दम्पतीनां प्रदापयेत् ।
सहस्रं वा तदर्धं वा तदर्धं वाऽथ भोजनम् ॥ १९ ॥
द्विशतं शतसङ्ख्याकं ब्राह्मणान्भोजयेत्ततः ।
ऋत्विग्भ्यो दक्षिणां दत्वा वस्त्राद्यैः पूजयेद्गुरुम् ॥ २० ॥
शतमान शतायुष्य शतवीर्य शतेन्द्रिय ।
अतस्त्वां सम्प्रयच्छामि शतायुष्यं प्रयच्छ मे ॥

इति शतमानहिरण्यदानमन्त्रः ॥

प्रयोगः

अथ प्रयोगः ॥ उदगयन आपूर्यमाणपक्षे जन्मनक्षत्रेऽनुजन्मनि त्रिजन्मनिवाऽन्यस्मिन्वाऽऽत्मानुकूलशुभतिथिवारनक्षत्रे, पत्न्यासह प्रातर्मङ्गलस्नानं विधाय सन्ध्यादिनित्यकर्म निवर्त्य शान्त्युक्तमङ्गलसम्भारान्सङ्गृह्य, पवित्रपाणिराचम्य प्राणानायम्य देशकालौसङ्कीर्त्य,

मम जन्मनः सकाशात् (प्राप्तशताब्दसूचित)-सहस्रचन्द्रदर्शननिमित्तसूचित-भार्यापुत्रवियोग-पितृमातृमृति-विविध रोग-समस्तग्रहपीडा-राजाऽग्नितस्करबाधा-दन्तबाधा-दृष्टिमान्द्य-छायाविकृति-स्फुट ध्रुवनक्षत्राद्यदर्शनादिसमस्तानिष्टनिवृत्त्यर्थंं, भूतप्रेत-पिशाच-ब्रह्मराक्षस-यक्ष-यमदूत-शाकिनी-डाकिन्यादिभ्यो जनितजनिष्यमाणसर्वोपद्रवनिवारणार्थं, भौमाऽन्तरिक्षदिव्यमहोत्पात-दुस्स्वप्न-दुःशकुनादि नानाविधारिष्टसूचितापमृत्यु-ध्रुवमृत्यु-कालमृत्युपीडापरिहारार्थं, क्षेमाऽभयाऽऽयुरारोग्याभिवृद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं, सग्रहमखां सहस्रचन्द्रदर्शनशान्तिं करिष्ये

इति सङ्कल्प्य, पञ्चगव्यं प्राश्य, स्नानादिचतुष्टयं विधाय, गणपतिं संपूज्य, मातृकापूजनं नान्दीश्राद्धञ्च कृत्वा

आदित्यादिनवग्रहदेवताः प्रीयन्ताम्, आयुष्मानाग्निः प्रीयताम्

इति पुण्याहं वाचयित्वा उदकशान्तिप्रतिसरबन्धौ कुर्यात् ॥ अथाऽऽयुष्यसूक्तादिजपार्थमेकं शतरुद्रजपार्थमेकादश वेदपारायणार्थं चतुरः श्रोत्रियान् विप्रानाचार्यादींश्च वृणुयात् ॥ देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्याचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,

मम जन्मनः सकाशात् ग्रहमखपूर्वकसहस्रचन्द्रदर्शनशान्तिहोमं करिष्ये

ग्रहान्वाधानान्ते - वरदो नामाऽग्निः, अग्निरायुष्मान् देवता, चरुर्हविः, उपहोमञ्च, - ब्रह्मसूक्तेन प्रत्यृचमाज्येन, अग्निरायुष्मानिति पञ्चभिराज्येन, अर्यमादयः स्विष्टकृतः, इत्याद्यन्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाग्निं ग्रहमण्डलं विलिख्य तण्डुलैः स्थण्डिलं कृत्वा ग्रहानावाह्य सम्पूज्य, तदुत्तरतोऽष्टदलपद्मं विलिख्य व्रीहितण्डुलैरुपर्युपरि तदर्धयवैस्तदर्धातिलैश्च चतुरस्रं स्थण्डिलं कृत्वा, पुष्पैः फलैरवकीर्य, सुवर्णाद्यन्यतमं कलशपञ्चकं तन्तुना परिवेष्ट्य प्रक्षाळ्य,

मही द्यौः

इत्यादिविधिना मध्ये-प्रधानकलश, पूर्वादिचतुर्दिक्ष्वैकैकमिति कलशचतुष्टयं स्थापयित्वा, तिरः पवित्रं निधाय, शुद्धोदकेन पूरयित्वा, गन्धद्वारामिति गन्धं, काण्डात्काण्डात्॰ इति दूर्वाः, अश्वत्थे वः॰ इति पल्लवान्, याः फलिनीः इति फलं॰, बृहस्पते जुषस्व नः॰ इति नवरत्नानि, अग्ने रेतः॰ इति हिरण्यं, युवा सुवासाः॰ इति वस्त्रं, पूर्णा दर्वि॰ इति तण्डुलपूर्णपात्रं कूर्चञ्च निक्षिप्य, वरुणं सम्पूज्य देवता आवाहयेत् - मध्ये प्रधानकलशे

ॐ भूर्भुवस्सुवः ब्रह्मणे नमः ब्रह्माणमावाहयामि

एवमेव पूर्वकलशे - प्रजापतिं, दक्षिणे - परमेष्ठिनं॰, पश्चिमे-चतुर्मुखं॰, उत्तरे-हिरण्यगर्भं॰, इत्यावाह्य पाद्याद्युपचारैः पूजयेत् ॥ ततो ब्राह्मणाः आयुष्यसूक्त - पुरुषसूक्त - रुद्रसूक्त - पवमानसूक्त - श्रीसूक्त- शन्नसूक्त - महाशान्तिसूक्त - यक्ष्मसूक्त - त्र्यवकमन्त्र - शतरुद्रजप - स्वशाखा वेदपारायणञ्च कुर्युः ॥ ततः ग्रहाणां चरुनिर्वापानन्तरं अग्नय आयुष्मते चरुनिर्वापाद्याग्निमुखान्तं कृत्वा देवतमभ्यर्चयति - आपो हि ष्टा॰ इति तिसृभिः, हिरण्यवर्णाः॰ इति चतसृभिः, पवमानः सुवर्जनः॰, इत्येनेनानुवाकेन मार्जयित्वा

ॐ ब्रह्मणे नमः, प्रजापतये॰, परमष्टिने॰, चतुर्मुखाय नमः, हिरण्यगर्भाय नमः

इत्येतैर्नाममन्त्रैर्गन्ध-पुष्प-धूप-दीपैरभ्यर्च्य, पक्वाज्जुहोति-

आयुष्टे विश्वतो दधत्॰, आयुर्दा अग्ने

इति द्वाभ्याम् (अग्नय आयुष्मत इदं॰)॥ स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति -

ब्रह्म जज्ञानं॰

इति षड्भिः ।

(सर्वत्र, ब्रह्मण इदं॰) आग्निरायुष्मान् करोमि स्वाहा, (अग्नय आयुष्मत इदं॰) सोम आयुष्मान् करोमि स्वाहा, (सोमायाऽऽयुष्मत इदं॰) यज्ञ आयुष्मान्॰ करोमि स्वाहा, (यज्ञायायुष्मत इदं॰) ब्रह्माऽऽयुष्मत्॰ करोमि स्वाहा, (ब्रह्मण आयुष्मत इदं॰) देवा आयुष्मन्तः॰ करोमि स्वाहा, (देवेभ्य आयुष्मद्भ्य इदं॰) स्विष्टकृत्प्रभृति प्रागुत्तरपरिषेकात् कृत्वाऽग्रेणाऽग्निं दूर्वास्तम्बेषु हुतशेषं निदधाति–

आयुष्टे॰, आयुर्दा अग्ने॰" इति द्वाभ्याम् । ॐ ब्रह्मणे स्वाहा नमः, प्रजापतये॰, परमेष्ठिने॰, चतुर्मुखाय॰, हिरण्यगर्भाय॰

इत्यन्नेन बलिमुपहृत्य,

ॐ ब्रह्माणं तर्पयामि, प्रजापति॰, परमेष्ठिनं॰, चतुर्मुख॰, हिरण्यगर्भं॰

इति तर्पयित्वा,

ताम्बूल-दक्षिणा-नीराजनाद्युपचारान्कृत्वा, मन्त्रपुष्पं समर्प्य, प्रदक्षिणीकृत्य नमस्कुर्यात् ॥ उत्तरपरिषेकादि होमशेषं समाप्याऽऽवाहितदेवताः पुनः सम्पूज्य, लाजापूपपृथुकपायसादीन्निवेद्य,

तेजोसि । तत्ते प्रयच्छामि॰ विश्वेदेवा जरदष्टिर्यथासत्

इति सम्प्रार्थ्य देवता उद्वासयेत् ॥ ततः सत्विंगाचार्यः अग्नेः पश्चात्सपरिवारं यजमानं प्राङ्मुमुखमुपवेश्य, कलशोदकेन

आपो हि ष्ठाः, हिरण्यवर्णाः॰, पवमानः सुवर्जनः॰, वरुणसूक्त - श्रीसूक्त - शन्ननसूक्त - महाशान्तिसूक्त - यक्ष्मसूक्त - त्र्यम्बकमन्त्रैरन्यैश्च पुण्यसूक्तमन्त्रैश्च

प्रोक्ष्य, आचार्यो मध्यकलशोदकेन यजमानमभिषिञ्चति -

याः सुगन्धा रसा वर्णा बलञ्च निहिते उभे ।
ता म आपः शिवाः सन्तु दुष्कृतं प्रवहन्तु मे ॥
या ऊजमभिषिञ्चन्ति देवप्रेषिता महीम् ।
ता म आपः॰ प्रवहन्तु मे ॥
यासां निष्क्रमणे सर्वमिदं जायते जगत् ॥
ता म आपः॰ प्रवहन्तु मे ॥
यासाभिमे त्रयो लोकास्तेजसा यशसावृताः ।
ता म आपः॰ प्रवहन्तु मे

इति चतसृभिः ॥ पूर्वकलशेनाभिषिञ्चति –

“याः प्राची रेवतीर्मधुमतीरापः स्रवन्ति शुक्राः ।
ता म आपः॰ प्रवहन्तु मे

इति ॥ दक्षिणकलशोदकेन

या दक्षिणा रेवतीर्मधुमतीः॰ प्रवहन्तु मे

इति ॥ पश्चिमकल शोदकेन -

याः प्रतीची रेवतीः॰ प्रवहन्तु मे

इति ॥ उत्तरकलशोदकेन

या उदीची रेवतीः॰ प्रवहन्तु मे

इति ॥ पुनः प्रधानकलशोदकशेषेण -

या ऊर्ध्वा रेवतीः॰ प्रवहन्तु मे

इत्यभिषिञ्चेत् ॥ अथ यजमानः पूर्वधृतं वासो विसृज्याचार्याय दत्वाऽन्यान्यहतानि वासांसि परिधायाचम्यालङ्कृत्य (उग्ररथशान्त्युक्तक्रमेण पुरतो मङ्गलद्रव्यासादनादिकं कुर्यात् । तत्र शतग्रन्थियुतं मङ्गलवस्त्रमिति विशेषः। ग्रन्थिप्रार्थनान्तं कुर्यात्) उपनिष्क्रम्य

उद्वयन्तमसस्परि॰, उदु त्यं॰, चित्र॰, तच्चक्षुर्देवहितं॰, य उदगान्महतोऽर्णवात्॰,

इत्यादित्यमुदीक्षयति । यथागतमागत्य, आचार्यादीन्सम्पूज्याऽऽचार्याय सपीठं कलशं शतमानञ्च हिरण्यं दत्त्वा ऋत्विग्भ्यो दशदानं दीपदानं नवधान्यदानं हार-कुण्डल-वस्त्रदानं, भूषणदानं, वायनदानञ्च कुर्यात् ॥ एरकां साधिवासामास्तीर्य तस्यां प्राङ्मुखमुपविश्य, सुवर्ण-रजत-ताम्र-कांस्याद्यन्यतमपात्रमाज्यशेषेण पूरयित्वा, तत्र

इन्द्राय त्वा तेजस्वते तेजस्वन्तँ श्रीणामि । इन्द्राय त्वौजस्वते॰ । इन्द्राय त्वा पयस्वते॰ । इन्द्राय त्वाऽऽयुष्मते॰

इत्येभिर्मन्त्रैहिरण्यं निधायाऽऽज्यशेषे -

इममग्न आयुषे॰ प्रियँरेतो वरुण॰ यथा सत्

इत्यनेनाऽऽत्मनः प्रतिच्छायां निमील्यावेक्ष्य सहिरण्यं ब्राह्मणाय दद्यात् । ततो यजमानो रथमारुह्य, दुन्दुभिघोषपुरस्सरं ग्राम प्रदक्षिणीकृत्य,

स्वस्ति नो मिमीतां॰

इति स्वस्तिसूक्तं पठन् गृहं प्रविश्य, त्रिवृतान्नेन हिरण्येन वा ब्राह्मणान्सम्पूज्य

ब्रह्मा प्रीयताम्

इति पुण्याहं वाचयित्वाऽऽचार्याय गां दद्यात् ॥ सहस्रं, तदर्धं, तर्धं, द्विशतं. शतं वा ब्राह्मणान्भोजयित्वाऽऽचार्यं वस्त्रादिभिः सम्पूज्य, भुक्तवद्भ्यो भूयसीं दक्षिणां दद्यात्, ब्राह्मणाञ्च

आयुरसि बिश्वायुरसि॰ आयुषे दीर्घायुत्वाय गृह्णामि, आयुष्टे॰, आयुर्दा॰

इत्येतैर्मन्त्रैराशिषो दद्युः ॥ ॥ केचन पूर्वमेव यथानुकूलं वृत्तिकास्नान-ब्रह्मकूर्च-कूष्माण्ड-गणहोम-कृच्छ्रादिभिदेहशुद्धिं सम्पाद्य, मण्डपसंस्कारपूर्वकं वास्तु-राक्षोम्न-होमं, कुण्डसंस्कार पूर्वकमग्निजननशञ्च कृत्वा शाम्तिहोमं कुर्वन्ति ॥