॥अथ सहस्रभोजनविधिः॥ (बो. गृ. शे. सू. ३.१७)
अथातस्सहस्रभोजनविधि व्याख्यास्यामः - उदगयने पूर्वपक्षे पुण्ये नक्षत्रे त्रिजन्मनि दक्षिणायने वा कुर्यात् ॥ स्वगृहे देवगृहे वा यत्र शुचिंदेशः स्यात्तत्र शुचिर्भूत्वा युग्मान् ब्राह्मणन् सुप्रक्षाळितपाणिपादानप आचमय्य आसनं कल्पयित्वा गन्धपुष्पधूपदीपैरभ्यर्च्य
सङ्कल्पसिद्धिरस्तु
इति वाचयित्वा त्रिवृताऽन्नेन ब्राह्मणान्सम्पूज्याशषो वाचयित्वा प्रदक्षिणनमस्कारं विदधीत ॥ सहस्रात्मानमीश्वरं सहस्रभोजनेन सम्पूज्य
एकस्मै स्वाहा द्वाभ्यां स्वाहा
इति दशानुवाकान् भोजनान्ते द्वादश ब्राह्मणाश्श्राविता भवन्ति षड् वा ॥ ब्राह्मणानन्नेन परिविष्य
पुण्याहं स्वस्ति ऋद्धिम्
इति वाचयित्वाथ देवयजनोल्लेखनप्रभृत्याऽग्निमुखात्कृत्वा पक्वाज्जुहोति -
विष्णोर्नुकम्
इति पुरोनुवाक्यामनूच्य
विष्णो ररटमसि
इति याज्यया जुहोति ॥ अथाज्याहुतीरुपजुहोति -
केशवाय स्वाहा
इत्यादि द्वादशनामधेयैः स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदात् ॥ अथ विप्रेभ्यः पयोदनेन मुद्गोदनेन दध्योदनेन वा भोजयित्वा गुळपायसं घृतमिश्रमित्यन्नस्य बलिमुपहरति -
अमुष्मै स्वाहाऽमुष्मै स्वाहा
इति द्वादशनामधेयैः ॥ अथ ब्राह्मणे निवेदयित्वा वस्त्रयुगानि कुण्डलयुगान्यङ्गुलीयकमुपानहौ छत्रं कमण्डलुमिति च दद्यात् ॥ अन्नशेषमाज्यशेषं पक्वशेषं चोभौ जायापती प्रानीयाताम् ॥ सर्वान्कामानवाप्नोति सर्वकल्मषैर्महापातकैः प्रमुच्यते षष्टिवर्षसहस्राणि ब्रह्मलोकमतीत्य विष्णुलोके महीयत
इत्याह भगवान् बोधायनः ॥
प्रयोगः
अथ प्रयोगः ॥ उत्तरायणे शुक्लपक्षे पुण्यनक्षत्रे जन्मानुजन्मत्रिजन्मनि दक्षिणायने वा गृहे देवालये वा शुचौ देशे यजमानः कृतनित्यक्रियो द्वादश ब्राह्मणानाहूय, प्रक्षाळितपाणिपादानप आचमय्याऽसनेषूपवेश्य, गन्धपुष्पधूपदीपैरभ्यर्च्य प्रदक्षिणीकृत्य प्रणम्य,
सङ्कल्पसिद्धिरस्तु
इति वाचयित्वा, पत्न्या सह दर्भेष्वासीनो दर्भान्धारयमाणः पवित्रपाणिराचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
ममाऽशेषपातकोपपातकमहापातकनिवृत्तिद्वारा षष्टिसहस्रवर्षपर्यन्तं विष्णुलोकनिवाससिध्यर्थ श्रीपरमेश्वर प्रीत्यर्थ सहस्रात्मानमीश्वरं सहस्रभोजनेन सम्पूजयिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य, मातृकापूजनं नान्दीश्राद्धं विधाय, ब्राह्मणान् त्रिवृतान्नेन परिविष्य
सहस्रात्मा ईश्वरः प्रीयताम्
इति पुण्याहं वाचयित्वा आचार्यादीन् वृणुयात् । ततः सहस्रसङ्ख्याकान् ब्राह्मणानाहूय सुप्रक्षाळितपाणिपादानप आचमय्याऽऽसनेषूपवेश्य, विष्णुरूपं ध्यात्वा, विष्णुसहस्रनामभिरेकैकं ब्राह्मणं
विश्वस्मै नमः विश्वमावाहयामि
एवमेव
विष्णवे नमः विष्णुमावाहयामि
इत्याद्यावाह्य, पादप्रक्षाळनपूर्वकं प्रदक्षिण नमस्कारान्तैः षोडशोपचारैः पूजयेत् । एवं सहस्रनामभिः सहस्रब्राह्मणान्सम्पूज्य, भोजनस्थानं रङ्गवल्यादिना सुशोभितं कृत्वा, पृथक्पृथक् चतुरस्रमण्डलेषु पृथक्पृथक्पात्राणि प्रकल्प्य, यथोपपादमिष्टमन्नं परिविष्य, गायत्र्या प्रोक्ष्य परिषिच्य,
विश्वस्मै नमः इदमन्नं, विष्णवे नमः इदमन्नं
इत्यादिक्रमेण निर्दिश्य
अमृतोपस्तरणमसि
इत्यपोशनं दत्वा
प्रजापते न त्वत्॰
इति मन्त्रं जपित्वा
एको विष्णुमहद्भूतं॰ भुगव्ययः ॥ अनेन सहस्रब्राह्मणभोजनेन सहस्रात्मा ईश्वरः प्रीयताम्
इति भूमौ साक्षतजलं विसृजेत् ॥ भोजनकाले पुरुषसूक्त-विष्णुसूक्त-नारायणोपनिषत्-विष्णुसहस्रनामादीञ्च्छ्रावयेत् ॥ सहस्रभोजनान्ते
सहस्रात्मा ईश्वरः प्रीयताम्
इति पुण्याहं वाचयेत् ॥ अथाऽऽचार्यों देवयजनोल्लेखनप्रभृत्यग्निं प्रतिष्ठाप्य॰ देशकालौ सङ्कीर्त्य, यजमानस्याऽशेषदुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं सहस्रभोजनहोम करिष्ये॰ बलवर्धनो नामाऽग्निः, विष्णुर्देवता, चरुर्हविः, उपहोमश्च-केशवादि द्वादशनाममन्त्रैः प्रतिमन्त्रमाज्येन,
एकस्मै स्वाहा
इत्यादि दशानुवाकमन्त्रैः प्रतिमन्त्रमाज्येन अग्निः स्विष्टकृत्, इत्याद्यन्वाधायाऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निं - अष्टदलपद्मोपरि व्रीहिभिर्यवैर्वा स्थण्डिलं कृत्वा,
मही द्यौः
इत्यादि विधिना कलशं प्रतिष्ठाप्य, वस्त्रयुग्मेनाऽऽवेष्ट्य वरुणपूजान्तं कृत्वा, सुवर्णादिनिर्मितां विष्णुप्रतिमामग्न्युत्तारणपूर्वकं कलशोपरि निधाय
विष्णोर्नु कं॰, विष्णो रराटमसि॰
इति मन्त्राभ्यां व्याहृतिभिश्च विष्णुमावाह्य, परितोऽक्षतपुञ्जेषु पूर्वादिप्रादाक्षिण्येन केशवादि द्वादशदेवतानाममन्त्रैरावाह्य, अब्लिङ्गाभिर्हिरण्यवर्णाभिः पावमानीभिः पुरुषसूक्तेन च स्नापयित्वा, यथाविभवं षोडशोपचारैः सम्पूजयेत् ॥ अथ देवस्य त्वेत्यादि विष्णवे चरुनिर्वापाद्यग्निमुखान्तं कृत्वा,
विष्णोर्नु कं॰, विष्णो रराटमसि॰
इति द्वाभ्यां विष्णवे पक्वं हुत्वा (विष्णव इदं°) स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽथाऽऽज्याहुतीरुपजुहोति -
केशवाय स्वाहा
इत्यादि द्वादशनाममन्त्रैः ॥
एकस्मै स्वाहा । द्वाभ्याँ स्वाहा । त्रिभ्यः स्वाहा । चतुर्थ्यः स्वाहा । पञ्चभ्यः स्वाहा। षड्भ्यः स्वाहा । सप्तभ्यः स्वाहा । अष्टाभ्यः स्वाहा । नवभ्यः स्वाहा । दशभ्यः स्वाहा । एकादशभ्य स्वाहा । द्वादशभ्यः स्वाहा । त्रयोदशभ्यः स्वाहा । चतुर्दशभ्यः स्वाहा । पञ्चदशभ्यः स्वाहा । षोडशभ्यः स्वाहा॑ । सप्तदशभ्य स्वाहा । अष्टादशभ्यः स्वाहा । एकान्नविँशत्यै स्वाहा । नवविँशत्यै स्वाहा । एकान्नचत्वारिँशते स्वाहा । नवचत्वारिँ शते स्वाहा । एकान्नषष्ट्यै॰ । नवषष्ट्यै॰ । एकान्नाऽशीत्यै॰ । नवाऽशीत्यै्॰ । एकान्नशताय॰ । शताय॰ । द्वाभ्याँ शताभ्याँ स्वाहा । सर्वस्मै॰ ॥ एकस्मै॰ । त्रिभ्य॰। । पञ्चभ्यः॰ । सप्तभ्य:॰ । नवभ्यः॰ । एकादशभ्यः॰ । त्रयोदशभ्यः॰ । पञ्चदशभ्यः॰ । सप्तदशभ्यः॰ । एकान्नविशत्य॰ । नवविँशत्यै॰ । एकानचत्वारिँशते । नवचत्वारिँशते । एकान्नषष्ट्यै॰ । नवषष्ट्यै॰ । एकान्नाऽशीत्यै॰ । नवाऽशीत्यै॰ । एकानशताय॰ । शताय॰ । सर्वस्मै॰ ॥ द्वाभ्याँ स्वाहा । चतुर्थ्यः॰ । षड्भ्यः॰ । अष्टाभ्यः॰ । दशभ्यः॰ । द्वादशभ्यः॰ । चतुर्दशभ्यः॰ । षोडशभ्यः॰ । अष्टादशभ्यः॰ । विँशत्यै॰ । अष्टानवत्यै॰ । शताय॰ । सर्वस्मै॰ ॥ त्रिभ्यः॰ । पञ्चभ्यः॰ । सप्तभ्यः॰ । नवभ्यः॰ । एकादशभ्यः॰ । त्रयोदशभ्यः॰ । पञ्चदशभ्यः॰ । सप्तदशभ्यः॰। एकान्नविँशत्यै॰ । नवविँशत्यै॰ । एकान्नचत्वारिँशते॰ । नवचत्वारिँशते॰ । एकान्नषष्ट्यै॰। नवषष्ट्यै॰ । एकान्नाशीत्यै॰ । नाऽशीत्यै॰ । एकान्नशताय॰ । शताय॰ । सर्वस्मै॥ चतुर्थ्यः॰ । अष्टाभ्यः॰ । द्वादशभ्यः॰ । षोडशभ्यः॰ । विँशत्यै॰ । षणवत्यै॰ । शताय॰ । सर्वस्मै॰ ॥ पञ्चभ्यः॰ । दशभ्यः॰ । पञ्चदशभ्यः॰ । विँशत्यैः । पञ्चनवत्यै॰ । शताय॰ । सर्वस्मै॰ ॥ दशभ्यः॰ । विँशत्यै॰ । त्रिँशते॰ । चत्वारिँशते॰ । पञ्चाशते॰ । षष्ट्यैः । सप्तत्यै॰ । अशीत्यै॰ । नवत्यै॰ । शताय॰ । सर्वस्मै॰ ॥ विँशत्यै॰ । चत्वारिँशते । षष्ट्यैः॰ । अशीत्यै॰ । शताय॰ । सर्वस्मै॰ ॥ पञ्चाशते॰ । शताय॰ । द्वाभ्याँ शताभ्याँ स्वाहा। त्रिभ्यः शतेभ्यः॰। चतुभ्यः शतेभ्यः॰ । पञ्चभ्यः शतेभ्यः॰ । षड्भ्यः शतेभ्यः॰ । सप्तभ्यः शतेभ्यः॰ । अष्टाभ्यः शतेभ्यः॰ । नवभ्यः शतेभ्यः॰ । सहस्राय॰ । सर्वस्मै॰ ॥ शताय॰ । सहस्राय॰ । अयुताय॰। नियुताय॰ । प्रयुताय॰ । अर्बुदाय॰ । न्यर्बुदाय॰ । समुद्राय॰ । मध्याय॰ । अन्ताय॰। परार्धाय॰ । उषसे॰ । व्युष्ट्यै॰ । उदेष्यते॰ । उद्यते॰ । उदिताय॰ । सुवर्गाय॰ । लोकाय॰ । सर्वस्मै स्वाहा [[TODO: परिष्कार्यम्]]
इति दशानुवानुवाकमन्त्रैश्च ॥ (सर्वत्र – यथालिङ्गं त्यागः) स्विष्टकृदादि प्रागुत्तरपरिषेकात्कृत्वाऽग्निं विष्णवे गुडपायसं घृतमिश्रमन्नञ्च
केशवाय स्वाहा
इति द्वादशनामभिः बलिमुपहृत्य
केशवं तर्पयामि
इत्यादि द्वादशभिस्तर्पयित्वा, वैष्णवीभी ऋग्यजुः- सामाथर्वभिः स्तोत्रैश्च स्तुत्वोत्तरपरिषेकादि होमशेष समापयेत् ॥ आवाहितदेवताः पुनः सम्पूज्य कलशोदकेन सपरिवारं यजमानमभिषिञ्चेत् । यजमानोऽभिषेकाप्लुतं वस्त्रमाचार्याय दत्वाऽन्यवहतं वासः परिधायाऽऽचम्य, ब्राह्मणान्सम्पूज्य, आचार्याय सवत्सां गां कलशदानं, ऋत्विग्भ्यो यथाशक्ति दक्षिणादानञ्च कृत्वा, पूर्वमाहूतान्ब्राह्मणान् केशवादि द्वादशनामभिः सम्पूज्य, तेभ्यः प्रत्येक वस्त्रयुगानि, कुण्डलयुगानि, अङ्गुलीयकं, छत्रं, कमण्डलुश्च यथाविभवं दद्यात् ॥ ततो ब्राह्मणान् पयोदन-मुद्गोदन-दध्योदनादिभिः सम्भोज्याऽऽशिषो गृहीत्वा, अन्नशेषमाज्यशेषञ्चोभौ जायापती प्राश्नीयात् ॥ ॥ एवमेव गणपति-शिव-इत्यादि स्वेष्टदेवतासस्रनामभिः सहस्रभोजनं कार्यम् ॥
गृहशान्ति-गोशान्तिविधिः
॥ गृहशान्ति-गोशान्तिविधिः॥ (बो. गृ. शे. सू. १.१८ ) अथातो गृहकर्मणां गृहवृद्धिमिच्छन् मासिमासि, ऋतावृतौ संवत्सरसंवत्सरे वाऽऽपूयमार्ण पक्षे पुण्ये नक्षत्रे गृहशान्तिमारभेत । अपामार्गपलाशशिरीषोदुम्बरसदाभद्रामृततृणमिन्द्रवल्या बध्वा गृहं सम्मार्ष्टि -
मा नो महान्तं. मा नस्तोके
इति द्वाभ्याम् । पञ्चगव्यैर्दर्भमुष्टिना च संप्रोक्षति–
यत इन्द्र भयामहे, स्वस्तिदा
इति द्वाभ्याम् ।
कृणुष्व पाजः
इत्येतेनानुवाकेन सिद्धार्थान्सम्प्रकीर्य वास्तुमध्येऽथ देवयजनोल्लेखनप्रभृत्याऽऽग्निमुखात्कृत्वा पक्वाज्जुहोति–
वास्तोष्पते, वास्तोष्पते
इति द्वाभ्याम् । अथाज्याहुतीरुपजुहोति –
वास्तोष्पते धुवा स्थूणां
इति षड्भिरनुच्छंदसम् । सावित्र्या सहस्रं जुहुयात् । स्विष्टकृत्प्रभृति सिद्धमाधेनुवरप्रदानात् । ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वैवं प्रयुञ्जानो महान्तं पोषं पुष्यति बहव: पुत्रा भवन्ति न च बालाः प्रमीयन्ते न गृहव्याधयो भवन्ति न दंष्ट्रिणो घातयेयुर्न तस्करसर्पराक्षसपिशाचा बाधन्ते ॥ यदि गावः प्रतप्येरन् गवां मध्ये आहुतिसहस्रं जुहुयात् ॥ गवां शान्तिरित्याचक्षते ॥ द्विपदां चतुष्पदां चैतदेव व्याख्यातं वासो दक्षिणोति ॥
प्रयोगः
अथ प्रयोगः – शुक्लपक्षे आत्मानुकूलदिवसे पुण्ये नक्षत्रे - कर्ता प्रातः स्नानादि नित्यकर्म निवर्त्य, आचम्य प्राणानायम्य देशकालो सङ्कीर्त्य
मम गृहे पिशाच-राक्षस-सर्प-तस्करादिबाधानिवारणार्थं दंष्ट्रपीडा-अग्निबाधापरिहारार्थ बालमरणादि सर्वानिष्टनिरसनपूर्वकं श्रीबलपुष्टितुष्टिधनधान्यपशुपुत्रपौत्राद्यभिवृध्यर्थं श्रीपरमेश्वरप्रीत्यर्थ गृहशान्तिं करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य
वास्तोष्पतिः प्रीयताम्
इति पुण्याहं वाचयित्वा, आचार्याद्यृत्विजो वृणुयात् ॥ अपामार्गपलाशशिरीषोदुम्बरसदाभद्राऽमृततृणानीन्द्रवल्या बध्वा
मा नो महान्तं॰. मा नस्तोके॰
इति द्वाभ्यां सर्वतो गृहं सम्मृज्य,
यत इन्द्र भयामहे॰, स्वस्तिदा विशस्पतिः॰
इति द्वाभ्यां दर्भमुष्टिना पञ्चगव्यैह सम्प्रोक्ष्य,
कृणुष्व पाजः॰
इत्येतेनाऽनुवाकेन गृहमध्ये सर्वत्र गौरसर्षपान्विकिरति ॥ वास्तुमध्ये - देवयजनोल्लेखनाद्यग्निं प्रतिष्ठाप्य॰ प्राणानायम्य
मम गृहे॰ वृध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं गृहशान्तिहोमं करिष्ये॰ वरदो नामाग्निः, वास्तोष्पतिर्देवता, चरुर्हविः, उपहोमे -
वास्तोष्पते ध्रुवा स्थूणां॰
इति षडृचेन वास्तुसूक्तेन प्र्त्यृचमाज्येन, सावित्र्या आज्येन सहस्रसङ्ख्याकाहुतिभिः, अग्निः स्विष्टकृत्
इत्यादि सन्कल्प्यान्वाधायाऽऽप्रणीताभ्यः कृत्वाऽग्रेणाऽग्निं विधिवत्कलशं प्रतिष्ठाप्य, वरुणपूजान्ते -
वास्तोष्पते प्रतिजानीहि॰, वास्तोष्पते शग्मया:॰,
इति द्वाभ्यां वास्तोष्पतिमावाह्य षोडशोपचारैः सम्पूजयेत् ॥ ततो देवस्य त्वेत्यादि वास्तोष्पतये चरुं निरुप्य प्रोक्ष्याऽऽज्यसंस्काराद्यग्निमुखान्ते -
वास्तोष्पते प्रतिजानीहि॰, वास्तोष्पते शग्मयाः
इति द्वाभ्यां पक्वं हुत्वा, स्विष्टकृतमवदायान्तःपरिधौ निधायाऽऽज्याहुतीरुपजुहोति - वास्तुसूक्तेन प्रत्यृचं, (सर्वत्र, वास्तोष्पतय इदं॰) ततः सावित्र्याऽऽज्येन सहस्रं जुहुयात् (सवित्र इदं॰) स्विष्टकदादि होमशेष समाप्य
प्रजापतिः प्रीयताम्
इति पुण्याहं वाचयित्या, आचार्याय कलशदानं, गोदानं, वस्त्रदानं, ऋत्विग्भ्यो यथाशक्ति दक्षिणाञ्च दत्वा कर्मेश्वराय समर्प्य ब्राह्मणान् भोजयित्वाऽऽशिषो गृह्णीयात् ॥ एवमेव मासिमासि ऋतावृतौ संवत्सरेसंवत्सरे वा गृहशान्ति कुर्यात् ॥ गवां, पिशाच राक्षससर्पादिपीडापरिहारार्थ समस्तरोगोपशमनार्थं पुष्ट्यर्थञ्च गोष्ठमध्ये एवमेव गोशान्तिं कुर्यात् ॥