॥ अथ रविकल्पः ॥ (बो. गृ. शे. सू. ३.८) अथातो रविकल्पं व्याख्यास्यामः - मण्डलं चतुरश्रं वा गोमयेन गोचर्ममात्र स्थण्डिलं कृत्वाऽष्टाचत्वारिंशत्कृत्वो रविवारे ताम्रपात्रे रक्तगन्धं रक्तपुष्पं वा
घृणिस्सूर्य आदित्यः
इत्यावाह्य
आसत्येन
इत्यर्घ्यं दद्यात्
हंसश्शुचिषत्
इति पाद्यं
अग्निर्मूर्धा
इत्याचमनीयं
आपो हि ष्ठा
हिरण्यवर्णाः
पवमानः
इत्येतेनानुवाकेन मार्जायित्वाsद्भिस्तर्पयति -
‘धातारं तर्पयामि, विधातारं॰, अर्यमणं॰, मित्रं॰, वरुणं॰, भगवन्तं॰, हंसं॰, पूषणं॰, पर्जन्यं॰, विवस्वन्तं॰, इन्द्र॰, रविं तर्पयामि
इत्येतैरेव नामधेयैर्गन्धपुष्पधूपदीपैः
अमुष्मै नमोऽमुष्मै नमः
इति ॥ व्याहृतीभिः
पुरुषमुद्वासयामि
इत्युद्वास्याऽथाऽपूपं दद्यादष्टाचत्वारिंशत् ॥
एकवारमर्चयित्वा कुष्ठरोगी क्षयरोगी ॥
बन्धाद्विमुच्यते बद्धो रोगी रोगाद्विमुच्यते ॥
इत्याह भगवान् बोधायनः॥
प्रयोगः
अथ प्रयोगः ॥ कर्ता रविवासरे प्रातर्नित्यकर्म कृत्वा शुचौ देशे गोमयेन गोचर्ममात्रं स्थण्डिलमुपलिप्य, तन्मध्ये सिकताभिर्वर्तुलं चतुरश्रं वा रविमण्डलं विलिख्य, आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्य,
ममेह जन्मनि जन्मान्तरे वा कृतकायिक-वाचिक-मानसिकादि-समस्तपातकवशाद्देहे समुत्पन्नोत्पत्स्यमान-कुष्ठ-क्षय-राजयक्ष्मापस्मार-अर्धाङ्ग-सर्वाङ्गसन्धि-धनुर्वात-हृद्रोगादि समस्ताऽसह्यरोगनिवृत्त्या दीर्घायुरारोग्यप्राप्त्यर्थं (कारागारवासादिप्राप्तबन्धननिवृत्त्यर्थं) श्रीपरमेश्वरप्रीत्यर्थं रविपरिचर्या करिष्ये
इति सङ्कल्प्य, गणपतिं सम्पूज्य, रविमण्डले
रवये नमः आसनं कल्पयामि
इति दर्भद्वयकृतं प्रागग्रं कूर्चं निधाय,
घृणिः सूर्य आदित्यो न प्रभावात्यक्षरम् । मधु क्षरन्ति तद्रसम् । सत्यं वै तवसमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् [[TODO: परिष्कार्यम्]]
इति रविमावाह्य । ताम्रपात्रे-शुद्धजलं प्रपूर्य, रक्तगन्धं रक्तपुष्पं रक्ताक्षतान्निक्षिप्य,
इमम्मे गङ्गे॰ मया
इत्यभिमन्त्र्य, तासामेकदेशं पात्रान्तरेणादाय
हँ सः शुचिषत्॰
इति पाद्यं दत्वा,
आसत्येन॰ विपश्यन्
इत्यष्टाचत्वारिंशद्वारमर्घ्यं दद्यात् ॥
अग्निर्मूर्धा॰
इत्याचमनीयम् ॥
आपो हि ष्ठा
इति तिसृभिः,
हिरण्यवर्णाः॰
इति चतसृभिः,
पवमानः सुवर्जनः॰
इत्येतेनानुवाकेन मार्जयित्वाऽद्भिस्तर्पयति -
ॐ धातारं तर्पयामि । विधातारं॰ । अर्यमणं॰ । मित्रं॰ । वरुणं॰ । भगवन्तं॰ । हंसं॰ । पूषणं॰। पर्जन्य॰ । विवस्वन्तं॰ । इन्द्रं॰ । रविं तर्पयामि ॥
इति तर्पयित्वा,
ॐ धात्रे नमः । विधात्रे॰ । अर्यम्णे॰ । मित्राय॰ । वरुणाय॰ । भगवते॰ । हंसाय॰ । पूष्णे॰ । पर्जन्याय॰ । विवस्वते॰ । इन्द्राय॰ । रवये नमः॥
इति द्वादश नाममन्त्रैरभ्यर्च्य,
युवं वस्त्राणि॰
इति वस्त्रं,
यज्ञोपवीतं॰
इति यज्ञोपवीतं,
गन्धद्वारा॰
इति गन्धं,
आयने ते॰
इति रक्तपुष्पाणि,
वनस्पतिरसोत्पन्नो॰
इतिधूपं,
ज्योतिश्शुक्रश्च॰
इति दीपञ्चसमर्प्य
देवस्य त्वा॰
इति अपूपं निवेद्य, पानीयमाचमनीयञ्च दत्वा,
पूगीफलसमायुक्तं॰
इति ताम्बूलं,
हिरण्य गर्भगर्भस्थं॰
इति दक्षिणां,
विश्वतश्चक्षुः॰
इति नीराजनं,
भास्कराय विद्महे महद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् [[TODO: परिष्कार्यम्]]
इति मन्त्रपुष्पं॰ ॥
यानि कानि च॰
इति प्रदक्षिणाः ॥
धात्रे नमः
इत्यादि नाममन्त्रैर्द्वादश नमस्कारान्कृत्वा,
उद्यन्नद्य मित्रमहः । सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि । निम्रोचन्नधरान्कृधि ॥१॥ उद्यन्नद्य वि नो भज। पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे । तस्य नो देहि सूर्य ॥२॥ उद्यन्नद्य मित्रमहः । आरोहन्॰ ॥३॥ शुकेषु मे॰ ॥४॥ उद्गादयमादित्यः॰ ॥५॥
[[TODO: परिष्कार्यम्]]
इत्येतैर्मन्त्रैः प्रार्थयेत् ॥
यस्य स्मृत्येति विष्णुं स्मृत्वा अनेन पूजनेन भगवान् श्रीरविः प्रीयताम् ॥
इति समर्प्य,
ओं भूर्भुवः सुवः पुरुषं रविं मुद्वासयामि
इत्यावाहितदेवतामुद्वास्य ब्राह्मणं सम्पूज्य, अष्टाचत्वारिंशत्सङ्ख्याकानपूपान् दक्षिणाञ्च दत्वाऽऽशिषो गृह्णीयात् ॥ एवमेव अष्टाचत्वारिंशद्रविवारेषु कुर्यात् ॥